Book Title: Dwatrinshada Dwatrinshika Prakran Part 1
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 445
________________ २७२ • माता-पित्रोर्दुप्रतिकारत्वम् • द्वात्रिंशिका-४/१८ न्याय्यता चेष्टसंसिद्धेः पित्रुद्वेगनिरासतः। प्रारम्भमङ्गलं ह्येतद् गुरुशुश्रूषणं हि तत् ॥१८॥ 'न्याय्यतेति । न्याय्यता चोक्ताऽभिग्रहस्य पित्रोर्दुःप्रतिकारयोरुद्वेगस्य वियोगनिमित्तकशोकरूपस्य निरासतः (= पित्रुद्वेगनिरासतः) अन्येषामप्येवम्विधस्थितिप्रदर्शनात् इष्टस्य = मोक्षस्य संसिद्धेः नन्वस्याभिग्रहस्य चारित्रप्रतिपन्थित्वात्कुतो न्याय्यता ? इत्याशङ्कायां प्रकृताभिग्रहस्य न्याय्यतामेवावेदयति- 'न्याय्यते'ति । न्याय्यता च = लोक-शास्त्रनीतिप्रयुक्तता हि उक्ताभिग्रहस्य पित्रोः → तिण्हं दुप्पडियारं समणाउसो ! तं जहा (१) अम्मा-पिउणो (२) भट्टिस्स, (३) धम्मायरियस्स; - (स्था. ३/१/१३५) इति स्थानाङ्गसूत्रवचनात्, → दुष्प्रतिकारौ माता-पितरौ स्वामी गुरुश्च लोकेऽस्मिन् 6 (प्रशम.७१) इति प्रशमरतिवचनात् → ‘दुप्पडियाराणि अम्मापिईणि' 6 (पञ्चसूत्र-३) इति पञ्चसूत्रवचनाच्च दुःप्रतिकारयोः वियोगनिमित्तकशोकरूपस्य उद्वेगस्य निरासतः; यतन्ते च महान्तो विश्वस्यापि उद्वेगनिरासार्थं, तेषां तत्स्वभावत्वात् । विशेषतः पुनः पित्रोरतिदुष्प्रतिकारत्वात्तयोरिति भावः । बौद्धानामपि सम्मतमिदम् । अत एव बुद्धेन अंगुत्तरनिकाये → द्विन्नाहं, भिक्खवे, न सुप्पतिकारं वदामि । कतमेसं द्विन्नं ? मातु च पितु च । एकेन, भिक्खवे, अंसेन मातरं परिहरेय्य, एकेन अंसेन पितरं परिहरेय्य वस्ससतायुको वस्ससतजीवी सो च नेसं उच्छादन-परिमद्दन-न्हापन-सम्बाहनेन! ते च तत्थेव मुत्तकरीसं चजेय्यु ! न त्व, भिक्खवे, मातापितूनं कतं वा होति पटिकतं वा 6 (अंगु. खंध-१ भाग-१/समचित्तवर्ग-१।२।३४) इत्युक्तम् । अत एव पर्युपासनीयषड्विधदिक्प्रदर्शनावसरे दीघनिकाये → छ इमा गहपतिपुत्त ! दिसा वेदितब्बा । पुरत्थिमा दिसा माता-पितरो वेदितब्बा... (दी.नि. ३।८।२६६, पृष्ठ-१४३) इत्येवं माता-पित्रोः पूर्वदिक्त्वमुक्तम् । एतेन → उपाध्यायदशाऽऽचार्य आचार्याणां शतं पिता । सहस्रं तु पितुर्माता गौरवेणातिरिच्यते।। - (म.स्मृ. २/१४५) इति मनुस्मृतिवचनमपि व्याख्यातम् । → द्वे एव देवते बत माता पिता च जीवलोकेऽस्मिन् (आवश्यककथा-१/अ.१ उद्धृत) इत्युक्तिरपि यथागममत्रानुसन्धेया । तथा अन्येषामपि एवम्विधस्थितिप्रदर्शनात् = 'अन्येऽपि महान्तो माता-पित्रुद्वेगनिरासेन प्रवर्तन्तामिति व्यवस्थोपदर्शनात्, प्रधानमार्गानुसारित्वाज्जनस्येति । यथोक्तं बृहत्कल्पभाष्ये → जो उत्तमेहिं पहओ मग्गो सो दुग्गमो न सेसाणं (बृ.क.भा.२४९) इति । तदुक्तं निशीथभाष्ये बृहत्कल्पभाष्ये च → कामं खलु अणुगुरुणो धम्मा 6 (नि.भा.४८५६-बृ.क.भा.९९६) इत्यपि । ગાથાર્થ :- ભગવાન મહાવીરે ગર્ભાવસ્થામાં લીધેલ ઉપરોક્ત અભિગ્રહના લીધે તેમના માતા-પિતાને પુત્રવિયોગના નિમિત્તે થનારા શોકને દૂર કરવા દ્વારા ઈષ્ટસિદ્ધિ થવાના લીધે એ અભિગ્રહ યોગ્ય હતો. કારણ કે માતા-પિતાની સેવા એ દીક્ષામાં પ્રારંભિક મંગળ છે. (૪/૧૮) ટીકાર્થ:- મા-બાપના ઉપકારનો બદલો બહુ મુશ્કેલીએ વાળી શકાય તેવો હોય છે. એવા માતા-પિતાનો પુત્રવિયોગનિમિત્તક શોક દૂર કરવા દ્વારા બીજાઓને પણ “માતા-પિતાને ઉગ ન કરાવવો” એવી મર્યાદા પ્રભુશ્રીવીરે જણાવી. આવી મર્યાદા દેખાડવાના લીધે ઈચ્છિત એવા મોક્ષની સિદ્ધિ કરવાથી વર્ધમાનસ્વામીએ ગર્ભમાં ગ્રહણ કરેલ અભિગ્રહ યુક્તિસંગત જ હતો. કારણ કે ઉચિત પ્રવૃત્તિ મોક્ષનો ઉપાય છે. અને અનુચિત પ્રવૃત્તિ મોક્ષમાં १. मुद्रितप्रतौ 'न्याय्ये ति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478