________________
२७२
• माता-पित्रोर्दुप्रतिकारत्वम् • द्वात्रिंशिका-४/१८ न्याय्यता चेष्टसंसिद्धेः पित्रुद्वेगनिरासतः। प्रारम्भमङ्गलं ह्येतद् गुरुशुश्रूषणं हि तत् ॥१८॥
'न्याय्यतेति । न्याय्यता चोक्ताऽभिग्रहस्य पित्रोर्दुःप्रतिकारयोरुद्वेगस्य वियोगनिमित्तकशोकरूपस्य निरासतः (= पित्रुद्वेगनिरासतः) अन्येषामप्येवम्विधस्थितिप्रदर्शनात् इष्टस्य = मोक्षस्य संसिद्धेः
नन्वस्याभिग्रहस्य चारित्रप्रतिपन्थित्वात्कुतो न्याय्यता ? इत्याशङ्कायां प्रकृताभिग्रहस्य न्याय्यतामेवावेदयति- 'न्याय्यते'ति । न्याय्यता च = लोक-शास्त्रनीतिप्रयुक्तता हि उक्ताभिग्रहस्य पित्रोः → तिण्हं दुप्पडियारं समणाउसो ! तं जहा (१) अम्मा-पिउणो (२) भट्टिस्स, (३) धम्मायरियस्स; - (स्था. ३/१/१३५) इति स्थानाङ्गसूत्रवचनात्, → दुष्प्रतिकारौ माता-पितरौ स्वामी गुरुश्च लोकेऽस्मिन् 6 (प्रशम.७१) इति प्रशमरतिवचनात् → ‘दुप्पडियाराणि अम्मापिईणि' 6 (पञ्चसूत्र-३) इति पञ्चसूत्रवचनाच्च दुःप्रतिकारयोः वियोगनिमित्तकशोकरूपस्य उद्वेगस्य निरासतः; यतन्ते च महान्तो विश्वस्यापि उद्वेगनिरासार्थं, तेषां तत्स्वभावत्वात् । विशेषतः पुनः पित्रोरतिदुष्प्रतिकारत्वात्तयोरिति भावः ।
बौद्धानामपि सम्मतमिदम् । अत एव बुद्धेन अंगुत्तरनिकाये → द्विन्नाहं, भिक्खवे, न सुप्पतिकारं वदामि । कतमेसं द्विन्नं ? मातु च पितु च । एकेन, भिक्खवे, अंसेन मातरं परिहरेय्य, एकेन अंसेन पितरं परिहरेय्य वस्ससतायुको वस्ससतजीवी सो च नेसं उच्छादन-परिमद्दन-न्हापन-सम्बाहनेन! ते च तत्थेव मुत्तकरीसं चजेय्यु ! न त्व, भिक्खवे, मातापितूनं कतं वा होति पटिकतं वा 6 (अंगु. खंध-१ भाग-१/समचित्तवर्ग-१।२।३४) इत्युक्तम् । अत एव पर्युपासनीयषड्विधदिक्प्रदर्शनावसरे दीघनिकाये → छ इमा गहपतिपुत्त ! दिसा वेदितब्बा । पुरत्थिमा दिसा माता-पितरो वेदितब्बा... (दी.नि. ३।८।२६६, पृष्ठ-१४३) इत्येवं माता-पित्रोः पूर्वदिक्त्वमुक्तम् ।
एतेन → उपाध्यायदशाऽऽचार्य आचार्याणां शतं पिता । सहस्रं तु पितुर्माता गौरवेणातिरिच्यते।। - (म.स्मृ. २/१४५) इति मनुस्मृतिवचनमपि व्याख्यातम् । → द्वे एव देवते बत माता पिता च जीवलोकेऽस्मिन् (आवश्यककथा-१/अ.१ उद्धृत) इत्युक्तिरपि यथागममत्रानुसन्धेया ।
तथा अन्येषामपि एवम्विधस्थितिप्रदर्शनात् = 'अन्येऽपि महान्तो माता-पित्रुद्वेगनिरासेन प्रवर्तन्तामिति व्यवस्थोपदर्शनात्, प्रधानमार्गानुसारित्वाज्जनस्येति । यथोक्तं बृहत्कल्पभाष्ये → जो उत्तमेहिं पहओ मग्गो सो दुग्गमो न सेसाणं (बृ.क.भा.२४९) इति । तदुक्तं निशीथभाष्ये बृहत्कल्पभाष्ये च → कामं खलु अणुगुरुणो धम्मा 6 (नि.भा.४८५६-बृ.क.भा.९९६) इत्यपि ।
ગાથાર્થ :- ભગવાન મહાવીરે ગર્ભાવસ્થામાં લીધેલ ઉપરોક્ત અભિગ્રહના લીધે તેમના માતા-પિતાને પુત્રવિયોગના નિમિત્તે થનારા શોકને દૂર કરવા દ્વારા ઈષ્ટસિદ્ધિ થવાના લીધે એ અભિગ્રહ યોગ્ય હતો. કારણ કે માતા-પિતાની સેવા એ દીક્ષામાં પ્રારંભિક મંગળ છે. (૪/૧૮)
ટીકાર્થ:- મા-બાપના ઉપકારનો બદલો બહુ મુશ્કેલીએ વાળી શકાય તેવો હોય છે. એવા માતા-પિતાનો પુત્રવિયોગનિમિત્તક શોક દૂર કરવા દ્વારા બીજાઓને પણ “માતા-પિતાને ઉગ ન કરાવવો” એવી મર્યાદા પ્રભુશ્રીવીરે જણાવી. આવી મર્યાદા દેખાડવાના લીધે ઈચ્છિત એવા મોક્ષની સિદ્ધિ કરવાથી વર્ધમાનસ્વામીએ ગર્ભમાં ગ્રહણ કરેલ અભિગ્રહ યુક્તિસંગત જ હતો. કારણ કે ઉચિત પ્રવૃત્તિ મોક્ષનો ઉપાય છે. અને અનુચિત પ્રવૃત્તિ મોક્ષમાં १. मुद्रितप्रतौ 'न्याय्ये ति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org