________________
• कर्मोदयादेर्द्रव्यादिसव्यपेक्षता ·
गृहानहमपीष्टतः ।। ← ( अष्टक २५ / ४ ) इत्येवमुक्तस्वरूपो न्याय्यः = प्रयुक्तहरिणैगमेषिनाम्ना देवेन क्षत्रियकुण्डाभिधाननगरनायकसिद्धार्थाभिधाननरपतिप्रधानपत्न्यास्त्रिशलाभिधानायाः गर्भे सङ्क्रमितः । ततो देवानन्दामुपलब्धचतुर्दशमहास्वप्नापहारां सम्भावितगर्भसंहारां हृतसर्वस्वामिवाऽतिशोकसागरमग्नामवधिनाऽवबुध्याहोऽस्मन्निमित्तमेषानाख्येयदुःखमवाप्तवत्येवमेषापि त्रिशला मदङ्गचलनचेष्टानिमित्तमसुखमथ मा प्रापदित्यालोच्य निश्चलोऽवतस्थे । ततोऽसौ निष्पन्दतां गर्भस्यावगम्य 'गलितो गर्भो ममेति भावनया गाढतरं दुःखसमुदयमगमत् । ततो भगवांस्तद्दुः खविनोदाय स्फुरति स्म, पर्यालोचयाञ्चकार च, यदुतादृष्टेऽपि मयि मातापित्रोरहो ! गाढः स्नेहो दृष्टे पुनः परिचयादवगतगुणग्रामे गाढतरोऽसौ भावी, ततः प्रव्रजनतो वियुज्यमाने शोकातिशयान्महानन्तस्तापो भविष्यति, ततोऽनयोर्जीवतोस्तत्सन्तापपरिहारार्थमप्रव्रजितेन मया भाव्यमिति सप्तममासेऽभिग्रहं जग्राहेति श्लोकसमुदायार्थः । अक्षरार्थस्त्वयम् जीवतः = प्राणान्धारयतः, 'पितरौ' इति योगः, गृहवासे = गृहस्थतायाम्, अस्मिन् अधुनातने न पुनर्देवादिभवसम्भवेऽपि, यावत् यत्परिमाणमिति पितृजीवनक्रियाविशेषणम्, मे = मम सम्बन्धिनौ, इमौ प्रत्यक्षासन्नौ त्रिशला-सिद्धार्थलक्षणो न पुनर्ऋषभदत्त - देवानन्दास्वरूपौ तावदेव तत्परिमाणमेव न पुनरधिकम्, विरतावभिष्वङ्गाच्चेत्थमुक्तमवधारणम्, एतच्चाधिवत्स्यामीतिक्रियाविशेषणम्, अधिवत्स्यामि अध्यासिष्ये, गृहान् = गेहम्, गृहशब्दो पुल्लिङ्गो बहुवचनान्तोऽप्यस्तीति, अथवा राजत्वाद् बहुगृहाधिपतित्वमनेन दर्शितम्, अहमपि न केवलं पितरौ गृहानधिवत्स्यत इति 'अपिशब्दार्थः,' इष्टमिच्छा तदाश्रित्य 'इष्टतः ' = इच्छया स्वच्छन्दतया न पुनः पारवश्येन इति भावः । ननु तावन्तं कालं चारित्रमोहनीयकर्मविशेषोदये सति तस्य गृहावस्थानमन्यथा वा तत्र यद्याद्यः पक्षस्तदा कर्मविशेषोदय एव तत्रावस्थानकारणं नाभिग्रहणं ततः किं तदभिग्रहणेन । अथ चारित्रमोहनीयविशेषोदयाभाव इति पक्षः, तदप्यसङ्गतम्, मोहकर्मविशेषोदयाभावे विरतेरेव भावेन गृहावस्थानाऽसम्भवात्, व्यर्थमेवाभिग्रहकरणमिति। अत्रोच्यते - मोहनीयविशेषोदय एव तत्र तस्यावस्थानम्, किन्तु तत्कर्मणः सोपक्रमत्वेन पित्रुद्वेगनिरासाद्यवलम्बनाभिग्रहाऽनङ्गीकरणे विरतेरेव भावान्न गृहावस्थानहेत्वभिग्रहकरणमसङ्गतम् । उच्यते च सोपक्रमता कर्मणाम् । “ उदयक्खयक्खओवसमोवसमा जं च कम्मुणो भणिया ।। दव्वं खित्तं कालं भावं च भवं च संपप्प ।।” (विशेषावश्यकभाष्य- ५७५ ) तदिहोक्तविशेषणाभिग्रहलक्षणं भावमाश्रित्य तत्क्षयोपशम इति न व्यर्थमभिग्रहकरणम् ← (अष्टकवृत्ति - २५ / ४ ) इति || ४ / १७ ।। સુધી મારા માતા-પિતા આ ગૃહવાસમાં જીવતા હોય ત્યાં સુધી જ હું પણ ઈચ્છાપૂર્વક ઘરમાં રહીશ.” આ અભિગ્રહ યુક્તિસંગત હતો એમ સંભળાય છે. [અષ્ટક પ્રકરણમાં (૨૫/૪) આ અભિગ્રહ જણાવેલ છે. કલ્પસૂત્ર વગેરેમાં પણ આ અભિગ્રહ જણાવેલ છે.] (૪/૧૭)
* પ્રભુ મહાવીરનો અભિગ્રહ ઉચિત હતો
ભગવાન મહાવીરના અભિગ્રહની ન્યાયસંગતતા જણાવવા ગ્રન્થકારશ્રી કહે છે કે →
For Private & Personal Use Only
Jain Education International
=
=
२७१ न्यायादनपेतः श्रूयते ।।१७।।
=
www.jainelibrary.org