Book Title: Dwatrinshada Dwatrinshika Prakran Part 1
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 444
________________ • कर्मोदयादेर्द्रव्यादिसव्यपेक्षता · गृहानहमपीष्टतः ।। ← ( अष्टक २५ / ४ ) इत्येवमुक्तस्वरूपो न्याय्यः = प्रयुक्तहरिणैगमेषिनाम्ना देवेन क्षत्रियकुण्डाभिधाननगरनायकसिद्धार्थाभिधाननरपतिप्रधानपत्न्यास्त्रिशलाभिधानायाः गर्भे सङ्क्रमितः । ततो देवानन्दामुपलब्धचतुर्दशमहास्वप्नापहारां सम्भावितगर्भसंहारां हृतसर्वस्वामिवाऽतिशोकसागरमग्नामवधिनाऽवबुध्याहोऽस्मन्निमित्तमेषानाख्येयदुःखमवाप्तवत्येवमेषापि त्रिशला मदङ्गचलनचेष्टानिमित्तमसुखमथ मा प्रापदित्यालोच्य निश्चलोऽवतस्थे । ततोऽसौ निष्पन्दतां गर्भस्यावगम्य 'गलितो गर्भो ममेति भावनया गाढतरं दुःखसमुदयमगमत् । ततो भगवांस्तद्दुः खविनोदाय स्फुरति स्म, पर्यालोचयाञ्चकार च, यदुतादृष्टेऽपि मयि मातापित्रोरहो ! गाढः स्नेहो दृष्टे पुनः परिचयादवगतगुणग्रामे गाढतरोऽसौ भावी, ततः प्रव्रजनतो वियुज्यमाने शोकातिशयान्महानन्तस्तापो भविष्यति, ततोऽनयोर्जीवतोस्तत्सन्तापपरिहारार्थमप्रव्रजितेन मया भाव्यमिति सप्तममासेऽभिग्रहं जग्राहेति श्लोकसमुदायार्थः । अक्षरार्थस्त्वयम् जीवतः = प्राणान्धारयतः, 'पितरौ' इति योगः, गृहवासे = गृहस्थतायाम्, अस्मिन् अधुनातने न पुनर्देवादिभवसम्भवेऽपि, यावत् यत्परिमाणमिति पितृजीवनक्रियाविशेषणम्, मे = मम सम्बन्धिनौ, इमौ प्रत्यक्षासन्नौ त्रिशला-सिद्धार्थलक्षणो न पुनर्ऋषभदत्त - देवानन्दास्वरूपौ तावदेव तत्परिमाणमेव न पुनरधिकम्, विरतावभिष्वङ्गाच्चेत्थमुक्तमवधारणम्, एतच्चाधिवत्स्यामीतिक्रियाविशेषणम्, अधिवत्स्यामि अध्यासिष्ये, गृहान् = गेहम्, गृहशब्दो पुल्लिङ्गो बहुवचनान्तोऽप्यस्तीति, अथवा राजत्वाद् बहुगृहाधिपतित्वमनेन दर्शितम्, अहमपि न केवलं पितरौ गृहानधिवत्स्यत इति 'अपिशब्दार्थः,' इष्टमिच्छा तदाश्रित्य 'इष्टतः ' = इच्छया स्वच्छन्दतया न पुनः पारवश्येन इति भावः । ननु तावन्तं कालं चारित्रमोहनीयकर्मविशेषोदये सति तस्य गृहावस्थानमन्यथा वा तत्र यद्याद्यः पक्षस्तदा कर्मविशेषोदय एव तत्रावस्थानकारणं नाभिग्रहणं ततः किं तदभिग्रहणेन । अथ चारित्रमोहनीयविशेषोदयाभाव इति पक्षः, तदप्यसङ्गतम्, मोहकर्मविशेषोदयाभावे विरतेरेव भावेन गृहावस्थानाऽसम्भवात्, व्यर्थमेवाभिग्रहकरणमिति। अत्रोच्यते - मोहनीयविशेषोदय एव तत्र तस्यावस्थानम्, किन्तु तत्कर्मणः सोपक्रमत्वेन पित्रुद्वेगनिरासाद्यवलम्बनाभिग्रहाऽनङ्गीकरणे विरतेरेव भावान्न गृहावस्थानहेत्वभिग्रहकरणमसङ्गतम् । उच्यते च सोपक्रमता कर्मणाम् । “ उदयक्खयक्खओवसमोवसमा जं च कम्मुणो भणिया ।। दव्वं खित्तं कालं भावं च भवं च संपप्प ।।” (विशेषावश्यकभाष्य- ५७५ ) तदिहोक्तविशेषणाभिग्रहलक्षणं भावमाश्रित्य तत्क्षयोपशम इति न व्यर्थमभिग्रहकरणम् ← (अष्टकवृत्ति - २५ / ४ ) इति || ४ / १७ ।। સુધી મારા માતા-પિતા આ ગૃહવાસમાં જીવતા હોય ત્યાં સુધી જ હું પણ ઈચ્છાપૂર્વક ઘરમાં રહીશ.” આ અભિગ્રહ યુક્તિસંગત હતો એમ સંભળાય છે. [અષ્ટક પ્રકરણમાં (૨૫/૪) આ અભિગ્રહ જણાવેલ છે. કલ્પસૂત્ર વગેરેમાં પણ આ અભિગ્રહ જણાવેલ છે.] (૪/૧૭) * પ્રભુ મહાવીરનો અભિગ્રહ ઉચિત હતો ભગવાન મહાવીરના અભિગ્રહની ન્યાયસંગતતા જણાવવા ગ્રન્થકારશ્રી કહે છે કે → For Private & Personal Use Only Jain Education International = = २७१ न्यायादनपेतः श्रूयते ।।१७।। = www.jainelibrary.org

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478