Book Title: Dwatrinshada Dwatrinshika Prakran Part 1
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
२७०
• गर्भगतवीराऽभिग्रहप्रकाशनम् • द्वात्रिंशिका-४/१७ ___एतदेव गुणान्तराऽनुगुणविपाकशालितया स्पष्टयतिगर्भादारभ्य सत्पुण्याद् भवेत्तस्योचिता क्रिया । तत्राऽप्यभिग्रहो न्याय्यः श्रूयते स्वामिनस्ततः ।।१७।।
गर्भादिति । गर्भादारभ्य सत्पुण्यात्' = पुण्याऽनुबन्धिपुण्यात् भवेत् तस्य = तीर्थकृत उचिता क्रिया, "तीर्थकृत्त्वं सदौचित्यप्रवृत्त्या मोक्षसाधक"मिति (अष्टक-२५/१) वचनादुचितप्रवृत्तिद्वारा तीर्थकृत्त्वस्य मोक्षसाधकत्वात् । ततः = तस्मात् तत्राऽपि = गर्भेऽपि स्वामिनः श्रीवर्धमानस्य अभिग्रहः = प्रतिज्ञाविशेषः → 'जीवतो गृहवासेऽस्मिन् यावन्मे पितराविमौ । तावदेवाधिवत्स्यामि'
एतदेव = प्रकर्षप्राप्तपुण्यानुबन्धिजिननामकर्मैव गुणान्तरानुगुणविपाकशालितया = परपीडापरिहारादिगुणान्तरानुकूलफलनिमित्ततया स्पष्टयति = विशदीकरोति- 'गर्भादिति । पुण्यानुबन्धिपुण्यात् उचिता अनुत्तरा च क्रिया सर्वैव सम्पद्यते । यथोक्तं त्रिषष्टिशलाकापुरुषचरित्रे → पूर्वोपार्जितपुण्यानां फलमप्रतिमं खलु 6 (त्रि.श.पु.१।१।४११) इति ।
विशिष्य प्रकृते ग्रन्थकृद् अष्टकसंवादमाह- 'तीर्थकृत्त्वमिति । 'अतः प्रकर्षसम्प्राप्ताद् विज्ञेयं फलमुत्तममि'त्यस्य पूर्वार्धः (अष्टक-२५/१)। 'गर्भेऽपी'ति। तदुक्तं अष्टकप्रकरणे → सदौचित्यप्रवृत्तिश्च गर्भादारभ्य तस्य तद् । तत्राप्यभिग्रहो न्याय्यः श्रूयते हि जगद्गुरोः।। - (अष्ट.२५/२) इति । प्रतिज्ञाविशेषः → अह सत्तमम्मि मासे गब्भत्थो चेव अभिग्गहं गिण्हे । नाहं समणो होहं अम्मापियरम्मि जीवन्ते ।। 6 (आ.नि.भा.५९) इत्येवं आवश्यकनियुक्तिभाष्यदर्शितः, → समणे भगवं महावीरे गब्भत्थे चेव इमेयारूवं अभिग्गहं अभिगिण्हइ ‘नो खलु मे कप्पइ अम्मापिऊहिं जीवंतेहिं मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए' - (कल्प.४/सू.९४) इत्येवं कल्पसूत्रोपदर्शितः, 'जीवत' इत्यादिना च अष्टकप्रकरणदर्शितः ।
श्रीजिनेश्वरसूरिकृता तवृत्तिश्चैवम् → किल भगवान् श्रीमन्महावीरवर्धमानस्वामी देवभवाच्च्युत्वा पूर्वभवोपात्तनीचैर्गोत्राभिधानकर्मशेषवशाद् ब्राह्मणकुण्डग्रामाभिधाननगरनिवासिऋषभदत्ताभिधानद्विजातिजायाया देवानन्दाभिधानायाः कुक्षावुत्पन्नः। अथ व्यशीतितमदिवसे सिंहासनचलनजनितावधिप्रयोगपुरन्दर
હ જિનનામર્મ ઉચિતપ્રવૃતિસાધક ભગવાનનું પુણ્યાનુબંધી પુણ્યરૂપ તીર્થકર નામકર્મ અન્ય ગુણોને અનુકૂળ એવા ફળને આપનાર હોય છે. એવું જણાવતા ગ્રન્થકારશ્રી ફરમાવે છે કે –
ગાથાર્થ :- ગર્ભથી માંડીને સુંદર પુણ્યના લીધે ભગવાનની પ્રવૃત્તિ ઉચિત હોય છે. માટે જ ગર્ભમાં પણ મહાવીર સ્વામી ભગવાને યોગ્ય અભિગ્રહ-નિયમ લીધો હતો એમ સંભળાય છે. (૪/૧૭)
ટીકાર્થ :- પુણ્યાનુબંધી પુણ્યના પ્રભાવે તીર્થકર ભગવંતની પ્રવૃત્તિ ગર્ભથી માંડીને ઉચિત = યોગ્ય જ હોય છે. કેમ કે અષ્ટકજીમાં જણાવેલ છે કે “તીર્થંકરપણે હંમેશા ઉચિત પ્રવૃત્તિ કરાવવા દ્વારા મોક્ષસાધક બને છે.” શ્રીહરિભદ્રસૂરિજીના ઉપરોક્ત વચનથી સિદ્ધ થાય છે કે ઉચિતપ્રવૃત્તિ દ્વારા તીર્થંકરપણું મોક્ષનું સાધન છે. માટે જ ગર્ભાવસ્થામાં પણ શ્રીવર્ધમાન સ્વામીએ અભિગ્રહ = પ્રતિજ્ઞા કરેલ કે “જ્યાં १. मुद्रितप्रतौ 'सत्पुण्यात्' इति पदं नास्ति । २. अतः प्रकर्षसम्प्राप्ताद्विज्ञेयं फलमुत्तमम् । इति पूर्वार्धः अष्टक-२५-१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478