________________
• धर्मस्य ब्रह्माण्डधारकत्वसमर्थनम् •
द्वात्रिंशिका -४/१२
लाघवाद्धर्मस्यैव' धारकत्वौचित्यम् । तदिदमुच्यते निरालम्बा निराधारा विश्वाधारा' वसुन्धरा । गौरवाऽऽपातात् । एतेन संस्थाप्य पृथिवीमित्थं तदुर्व्याधारसिद्धये । दिग्गजानहिराजं च कमठं च न्यवेशयत् ।। तेषामपि च सर्वेषामाधारत्वेन सादरम् । अव्यक्तरूपां स्वां शक्तिं युयुजे च दयापरः ।। ← ( प.पु. ) इति पद्मपुराणकारिके अपि निरस्ते, विनिगमनाविरहेण ईश्वरीयज्ञानेच्छा-प्रयत्न-शक्तिषु धृतिकारणतापत्त्या गौरवात् । अत एव शेष- दिग्गजादिभिर्धृतं दिग्गजादीनामाऽऽधारत्वेनाऽधस्ताद् धारयन् कूर्मरूपेण ← (पा.६ / २ वृत्ति) इत्यादिकं पारमात्मिकोपनिषद्वृत्तिकृदुक्तमपि निरस्तम्, यतः शेषदिग्गजादीनामन्ततः स्वेन धारणीयत्वे किमन्तर्गडुभिः तैः ? कूर्मस्याऽपि परतः धारणीयत्वेऽनवस्था, स्वतो धारणीयत्वे चाऽस्तु क्षित्यादीनामपि तथात्वमिति दिक् ।
२५२
=
किञ्च घट-शरादौ कस्माद् धारणावच्छिन्नेश्वरप्रयत्नादिविशेष्यता नाभ्युपगम्यते ? इत्यत्रापि नैयायिकेन किमपि वक्तुं न शक्यते । न चाऽदृष्टविशेषात्तत्रैव धारणावच्छिन्नविशेष्यता नान्यत्रेति वक्तव्यम्, ईश्वरेऽदृष्टाऽनभ्युपगमात्, अन्यथा नैयायिकस्याऽपसिद्धान्तापत्तेः । न च जीवानामदृष्टवशात् ब्रह्माण्डादावेव धारणावच्छिन्नविशेष्यता, नान्यत्रेति फलबलात्कल्प्यत इति वक्तव्यम्, एवं सति लाघवात् = कारणसङ्ख्यालाघवात्, धर्मस्यैव = जीवानां पुण्यस्यैव धारकत्वौचित्यं धृतिकारणत्वौचित्यम्, 'तद्धेतोरस्तु किं तेन ?' इति न्यायस्याप्यत्रैव पक्षपातित्वात् । किञ्च युष्मन्मतेऽपि सत्यलक्षणधर्मादेव पुष्पदन्तावुदयेते, द्यावा- पृथिव्यौ च विधृतौ तिष्ठतः, न त्वीशप्रयत्नवशात् । तदुक्तं ऋग्वेदे सा मा सत्यो क्तः परिपातु विश्वतो द्यावा च यत्र ततनन्नहानि च । विश्वमन्यन्निविशते यदेति विश्वाहापो विश्वाहोदेति सूर्यः ।। ← (ऋ. वे. १० / ३७/२) इति । तदुक्तं तत्रैवाग्रे सत्येनोत्तभिता भूमिः ← (ऋ. वे. १०/ ऋतेनाऽऽदित्यास्तिष्ठन्ति ← (ऋ. वे. १०/८५/२) इति च । अत्र सायणाचार्यः उपरि स्तम्भिता यथा अधो न पतेत् । यद्वा सत्येन अनृतप्रतियोगेन धर्मेण भूमिः उत्तभिता उद्धृता फलिता भवतीत्यर्थः ← (ऋग्वेदसायणभाष्य १०/८५/१ ) इति व्याचष्टे । तदुक्तं तैत्तिरीयारण्यकनारायणोपनिषदि, बृहन्नारायणोपनिषदि, महाभारते, नारदस्मृतौ च अपि सत्ये सर्वं प्रतिष्ठितम् ← (तै.आ.ना.१०/६३-१, बृ.ना. १७/१, म.भा.शांति. २६५/१०, ना.स्मृ. ४/२२३) इति, धर्मे सर्वं प्रतिष्ठितम् ← (तै. आ. ना. १०/६३-२ ) इति च । तदुक्तं महाभारते अपि सत्येन धार्यते लोकः ← (म.भा.शांति. १९०/१), सत्येन चाऽग्निर्दहति, स्वर्गः सत्ये प्रतिष्ठितः ← (म. भा. शांति. १९९/६८), → सर्वं सत्ये प्रतिष्ठितम् ← ( म.भा. शांति. १९९/६५ ) इति च । → सत्यमेवेश्वरो लोके, सत्ये धर्मः सदाश्रितः। सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ।। ← ( वा. रा. ११०/१३) इति वाल्मीकिरामायणवचनमप्यत्रावधातव्यम् ।
८५/१ ) इति, उत्तभिता
=
=
यदि
सत्यमेव ब्रह्म ← (श.ब्रा. २/१/४/१० ) इति सत्यमेव देवाः ← (श.प.ब्रा. १/१/ १/४ ) इति च शतपथब्राह्मणवचनमनुसृत्य देवपदस्य सत्यपरत्वमभिसन्धाय यदि ' द्यावा - पृथिव्यौ देवविधृतौ રહેલું છે. માટે લાધવસહકારથી ધર્મને જ બ્રહ્માંડ વગેરેનો ધારક માનવો વ્યાજબી છે. અમારી આ વાત શાસ્ત્રવિરુદ્ધ પણ નથી. કેમ કે યોગશાસ્ત્રમાં શ્રીહેમચન્દ્રસૂરીશ્વરજી મહારાજે જણાવેલ છે કે ‘વિશ્વની १. 'धर्मस्येव' इत्यशुद्धो मुद्रितप्रतौ । २. 'धारो' इत्यशुद्धः पाठो हस्तादर्शे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org