________________
• महेश्वरशरीरमीमांसा •
यच्चाऽवतिष्ठते तत्र धर्मादन्यन्न कारणम् ।। ← (योगशास्त्र. ४ / १८ ) इति ।
तिष्ठत' इत्युच्यते तदा तत्राऽस्माकं सम्मतिरेव । धर्मस्य धारकत्वे योगशास्त्रसंवादमाह - 'निरालम्बे 'ति । एतेन सत्त्वैराक्रान्तसर्वाङ्गां नष्टां सागरमेखलाम् । आगमिष्यामि संस्थातुं वाराहं रूपमास्थितः ।। ← (म.भा.शांतिपर्व-३३९/७७) इति महाभारतवचनमपि प्रत्याख्यातम्, ईश्वरस्य सर्वज्ञत्वे जगत्कर्तृत्वे चाऽऽदित एव सुदृढसागरमेखलानिर्माणस्य युज्यमानतया वराहाऽवतारगौरवाऽनवकाशात् । वस्तुतस्तु तत्र धर्मस्य एव धारकत्वौचित्यम् । इत्थमभ्युपगमे तु धारणाद् धर्ममित्याहुः ← (म. भा. कर्णपर्व-६९/५९) इति महाभारतवचनमपि सङ्गच्छते । एतेन लोका हि सर्वे तपसा ध्रियन्ते ← (म.भा.वन.१०१/२१) इति महाभारतवचनमपि व्याख्यातम् । अत एव शान्तसुधारसे विनयविजयवाचकेन यस्य प्रभावादिह पुष्पदन्तौ विश्वोपकाराय सदोदयेते ।
२५३
ग्रीष्मोष्मभीष्मामुदितस्तडित्वान् काले समाश्वासयति क्षितिञ्च ।। उल्लोलकल्लोलकलाविलासैर्नाप्लावयत्यम्बुनिधिः क्षितिं यत् ।
न घ्नन्ति यद् व्याघ्रमरुद्दवाद्या धर्मस्य सर्वोऽप्यनुभाव एषः ।। ← (शां. सु. १०/१/३-४) इत्युक्तम् । एतेन अहं द्यावापृथिवी आततानो बिभर्मि धर्ममवसे जनानाम् ।। ← (बाष्क. १२) इति बाष्कलतन्त्रोपनिषद्वचनमपि प्रत्याख्यातम् → निरालम्बमियमसदाधारा तिष्ठति वसुधा येन । तं विश्वस्थितिमूलस्तम्भं त्वां सेवे विनयेन ।। ← ( शां. सु. १०/२/ ३) इति शान्तसुधारसवचनाच्च । ततश्चाऽदृष्टविशेषवशादेव ब्रह्माण्डपतनप्रतिबन्धकतोपपत्तौ किमतिरिक्तकृतिकल्पनया ? किं वा धृतेः पतनप्रतिबन्धकत्वकल्पनया ?
वस्तुतस्तु कर्मण्येव संसारकर्तृत्वमवसेयम् । प्रकृते
कर्मेच्छा यादृशी यस्य तस्य भवति तादृशम् । कर्मेश्वरसमो देवो नास्ति विश्वप्रवर्तकः ।। कर्मणामनुसारेण सुखं दुःखं च देहिनाम् । कर्मभिः खलु संसारो मुक्तिर्निर्मोहभावतः ।। ← (कृ.गी. २४/२५) इति कृष्णगीतावचनं स्मर्तव्यम् । एतेन स सर्वज्ञः सर्वमेवाऽऽविवेश ← (प्रश्नो.४/११) इति प्रश्नोपनिषद्वचनमपि प्रत्याख्यातम्, धर्मं विनाऽऽवेशस्याऽयोगात्, तदावश्यकत्वध्रौव्ये तु जगदीशाऽऽवेशस्याऽन्यथासिद्धत्वापत्तेः । इत्थं करस्थाऽऽमलंकन्यायेन परमार्थतो धर्मस्य जगद्धारकत्वसिद्धिरवसेया ।
अथ धृतेः पतनप्रतिबन्धकत्वमन्यत्रक्लृप्तं नादृष्टस्य, धृतित्वावच्छिन्नं प्रति च कृतित्वेन हेतुत्वमवधृतमिति जगत्पतनप्रतिबन्धकधृतिजनकैककृतिसिद्धिरिति चेत् ? न एवं सति शरीरस्यापि धृतित्वावच्छिन्नं प्रति हेतुत्वाऽवधारणात्तादृशशरीरस्याऽपि सिद्धयापत्तेः ।
अथास्तु परमाणूनामेवेश्वरप्रयत्नाधीनचेष्टावतां सर्वेषामेव वेश्वरशरीरत्वमिति चेत् ? न, अनेकेषु तेषु शरीरत्वकल्पनया महागौरवात्, क्लृप्तपरमाण्वादिष्वेव शरीरत्वकल्पनयोपपत्तावतिरिक्तशरीराऽकल्पने जीवात्मस्वेव नित्यकृत्यादिकल्पनया निर्वाहेऽतिरिक्तेश्वराऽसिद्धेर्वज्रलेपायमानत्वाच्चेति व्यक्तं मध्यमपरिमाणस्याद्वाद रहस्ये (स्या रह खण्ड - २ का ५ / पृ.४४२) ।
આધારભૂત આ પૃથ્વી આલંબન વિના અને આધાર વિના ટકી રહેલ છે તેમાં ધર્મ સિવાય બીજું કોઈ કારણ નથી.' માટે ધર્મને જ બ્રહ્માંડનો ધારક માનવો યોગ્ય છે. આમ ઈશ્વરની સિદ્ધિની શક્યતા નથી.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org