Book Title: Dwatrinshada Dwatrinshika Prakran Part 1
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 433
________________ २६० • तीर्थङ्करकालीनसत्त्वानां विशिष्टसुखोपेतता • द्वात्रिंशिका-४/१५ तथा स्वाम्यनुभावेनैव प्राणिनां धर्मेऽपि कुशलाऽनुष्ठानरूपे उग्रोद्यमात् = अतिशयितप्रयत्नात् तत्त्वदृष्ट्या = संसाराऽसारतापरिज्ञानेन, इत्येतत् = सङ्ख्यावद्दानं अनाविलं = निर्दोषम् । तदिदमुक्तं "महानुभावताप्येषा तद्भावे न यदर्थिनः । विशिष्टसुखयुक्तत्वात् सन्ति प्रायेण देहिनः ।। धर्मोद्यताश्च तद्योगात्ते तदा तत्त्वदर्शिनः । महन्महत्त्वमस्यैवमयमेव जगद्गुरुः ।।" __ (अष्टक २६/७-८) इति । जगद्गुरवः महानुभावत्वात्, ‘सर्वं हि महतां महदि'त्यनेन च स्वरूपाऽसिद्धिपरिहार इति परिहतम्, प्रत्युताऽऽसन्नयाचकजनतृष्णाविदारकत्वविरहान्महानुभावताऽपि बाध्यत एव । सङ्ख्यावद्दानसमर्थनार्थं हेत्वन्तरमुपदिशति- 'तथेति । प्रकृते कारिकायुग्मेन अष्टकसंवादमाह- 'महानुभावते'ति, 'धर्मोद्यता' इति च। तद्वृत्तिस्त्वेवम् → महानुभावतापि = अतिशायिप्रभावतापि, न केवलं देहिनां सन्तोषसम्पत्सम्पादनेन सहयोपेतमेव दानं = महादानमित्यपिशब्दार्थः, एषा = एषैव वक्ष्यमाणस्वरूपा न पुनर्देहिनामसंख्यातवित्तवितरणरूपा, तामेवाह, तद्भावे = जगद्गुरुसद्भावे, न = नैव, यत् इति यदेतत्, अर्थिनः = तुच्छतया परप्रार्थनशीलाः सन्तीति सम्बन्धः । कुत इत्याह विशिष्टसुखयुक्तत्वात् = अपेक्षया सातिशयानन्दसम्पदुपेतत्वात्, सुखं च सन्तोषो, यदाह- “सज्ज्ञानं परमं मित्रमज्ञानं परमो रिपुः । सन्तोषः परमं सौख्य(स्थ्य)माकाङ्क्षा दुःखमुत्तमम् ।।” ( ) सन्ति = भवन्ति, प्रायेण = बाहुल्येन, अनेन च निरुपक्रमकर्मजनितधनाऽऽदानवाञ्छास्तद्भावेऽप्यर्थिनः केचित् सम्भवन्तीत्यावेदयति, भवति चैवं, यतः - “जगत्प्रिये सुरूपे च, शशिनो रश्मिमण्डले । सत्यप्यम्भोजिनीखण्डं न विकासं प्रपद्यते ।।” ( ) अत एव सङ्ख्यातदानसम्भवः, अन्यथा तदसम्भव एव स्यादिति, देहिनः = प्राणिनः। दृश्यन्ते च द्रव्याणां प्रभावविशेषाः, यतः “समुद्गच्छत्यसौ कोऽपि, हेतुर्गगनमण्डले ।। यस्मात्प्रमुदितप्राणि, जायते जगतीतलम् ।।” ( ) तदेवमसङ्ख्येयदानस्य महादानत्वाभावादसङ्ख्येयदानदायिनां महानुभावत्वाऽसिद्धेर(रित्य)सिद्धो हेतुरित्यभिहितम् । धर्मोद्यताश्च = कुशलानुष्ठाननिरताश्च भवन्ति न केवलमनर्थिन इति चशब्दार्थः, तद्योगात् जगद्गुरुसम्बन्धात्, ते = देहिनः, तदा = तस्मिन् जगद्गुरुकाले, तथा तत्त्वदर्शिनो भवन्ति। अथवा कुतस्ते धर्मोद्यता इत्याह यतः तत्त्वदर्शिनः, तत्त्वं च- “क्लेशाऽऽयासपराः प्रायः, प्राणिनां बाह्यसम्पदः । एकान्तेनाऽपरायत्तं, सुखं सन्तोष इष्यते ।।" ( )इत्यादिकम् । ततश्च किमित्याह महद् = अतिशायि, महत्त्वं = माहात्म्यं = महानुभावत्वम्, अथवा महद्भ्यो महतां वा महत्त्वं = महन्महत्त्वम्, अस्य जिनस्य एव। व्यवच्छेदफलत्वाद्वचनस्येति नान्येषां ઈચ્છા રહેતી.) આમ ભગવાનના પ્રભાવે યાચકોને સંતોષ સંભવતો હોવાથી પ્રભુનું મહાદાન પરિમિત હતું. તેમ જ ભગવંતના પ્રભાવે જ લોકો સંસારની અસારતાના જ્ઞાનથી દાનાદિ ધર્મમાં અત્યંત પ્રયત્ન કરતા હતા. તેથી વાચકો પ્રાયઃ સંતુષ્ટ રહેતા હતા) આથી અષ્ટકજીમાં જણાવેલ છે કે “તીર્થકર ભગવાનની આ પણ એક મહાનતા છે કે તેમના અસ્તિત્વ માત્રથી લોકો પ્રાયઃ સંતોષરૂપી સુખથી યુક્ત હોવાના લીધે યાચક રહેતા નહિ. તેમજ પ્રભુના સંયોગથી લોકો તત્ત્વદૃષ્ટિવાળા થઈને દાનાદિ ધર્મમાં પુરુષાર્થ કરતા હતા. આ રીતે જિનેશ્વર ભગવંતમાં જ મોટી મહત્તા રહેલી છે. તે જ જગતગુરુ છે.” १.हस्तादर्श 'इत्येत्' इति त्रुटितः पाठः । २.हस्तादर्श 'अनाषि...' इत्यशुद्धः पाठः । ३.मुद्रितप्रतौ 'तद्भावेन' इति पदच्छेदशून्यः पाठः। For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478