________________
२६०
• तीर्थङ्करकालीनसत्त्वानां विशिष्टसुखोपेतता • द्वात्रिंशिका-४/१५ तथा स्वाम्यनुभावेनैव प्राणिनां धर्मेऽपि कुशलाऽनुष्ठानरूपे उग्रोद्यमात् = अतिशयितप्रयत्नात् तत्त्वदृष्ट्या = संसाराऽसारतापरिज्ञानेन, इत्येतत् = सङ्ख्यावद्दानं अनाविलं = निर्दोषम् । तदिदमुक्तं
"महानुभावताप्येषा तद्भावे न यदर्थिनः । विशिष्टसुखयुक्तत्वात् सन्ति प्रायेण देहिनः ।। धर्मोद्यताश्च तद्योगात्ते तदा तत्त्वदर्शिनः । महन्महत्त्वमस्यैवमयमेव जगद्गुरुः ।।"
__ (अष्टक २६/७-८) इति । जगद्गुरवः महानुभावत्वात्, ‘सर्वं हि महतां महदि'त्यनेन च स्वरूपाऽसिद्धिपरिहार इति परिहतम्, प्रत्युताऽऽसन्नयाचकजनतृष्णाविदारकत्वविरहान्महानुभावताऽपि बाध्यत एव ।
सङ्ख्यावद्दानसमर्थनार्थं हेत्वन्तरमुपदिशति- 'तथेति । प्रकृते कारिकायुग्मेन अष्टकसंवादमाह- 'महानुभावते'ति, 'धर्मोद्यता' इति च। तद्वृत्तिस्त्वेवम् → महानुभावतापि = अतिशायिप्रभावतापि, न केवलं देहिनां सन्तोषसम्पत्सम्पादनेन सहयोपेतमेव दानं = महादानमित्यपिशब्दार्थः, एषा = एषैव वक्ष्यमाणस्वरूपा न पुनर्देहिनामसंख्यातवित्तवितरणरूपा, तामेवाह, तद्भावे = जगद्गुरुसद्भावे, न = नैव, यत् इति यदेतत्, अर्थिनः = तुच्छतया परप्रार्थनशीलाः सन्तीति सम्बन्धः । कुत इत्याह विशिष्टसुखयुक्तत्वात् = अपेक्षया सातिशयानन्दसम्पदुपेतत्वात्, सुखं च सन्तोषो, यदाह- “सज्ज्ञानं परमं मित्रमज्ञानं परमो रिपुः । सन्तोषः परमं सौख्य(स्थ्य)माकाङ्क्षा दुःखमुत्तमम् ।।” ( ) सन्ति = भवन्ति, प्रायेण = बाहुल्येन, अनेन च निरुपक्रमकर्मजनितधनाऽऽदानवाञ्छास्तद्भावेऽप्यर्थिनः केचित् सम्भवन्तीत्यावेदयति, भवति चैवं, यतः - “जगत्प्रिये सुरूपे च, शशिनो रश्मिमण्डले । सत्यप्यम्भोजिनीखण्डं न विकासं प्रपद्यते ।।” ( ) अत एव सङ्ख्यातदानसम्भवः, अन्यथा तदसम्भव एव स्यादिति, देहिनः = प्राणिनः। दृश्यन्ते च द्रव्याणां प्रभावविशेषाः, यतः “समुद्गच्छत्यसौ कोऽपि, हेतुर्गगनमण्डले ।। यस्मात्प्रमुदितप्राणि, जायते जगतीतलम् ।।” ( ) तदेवमसङ्ख्येयदानस्य महादानत्वाभावादसङ्ख्येयदानदायिनां महानुभावत्वाऽसिद्धेर(रित्य)सिद्धो हेतुरित्यभिहितम् । धर्मोद्यताश्च = कुशलानुष्ठाननिरताश्च भवन्ति न केवलमनर्थिन इति चशब्दार्थः, तद्योगात् जगद्गुरुसम्बन्धात्, ते = देहिनः, तदा = तस्मिन् जगद्गुरुकाले, तथा तत्त्वदर्शिनो भवन्ति। अथवा कुतस्ते धर्मोद्यता इत्याह यतः तत्त्वदर्शिनः, तत्त्वं च- “क्लेशाऽऽयासपराः प्रायः, प्राणिनां बाह्यसम्पदः । एकान्तेनाऽपरायत्तं, सुखं सन्तोष इष्यते ।।" ( )इत्यादिकम् । ततश्च किमित्याह महद् = अतिशायि, महत्त्वं = माहात्म्यं = महानुभावत्वम्, अथवा महद्भ्यो महतां वा महत्त्वं = महन्महत्त्वम्, अस्य जिनस्य एव। व्यवच्छेदफलत्वाद्वचनस्येति नान्येषां ઈચ્છા રહેતી.) આમ ભગવાનના પ્રભાવે યાચકોને સંતોષ સંભવતો હોવાથી પ્રભુનું મહાદાન પરિમિત હતું. તેમ જ ભગવંતના પ્રભાવે જ લોકો સંસારની અસારતાના જ્ઞાનથી દાનાદિ ધર્મમાં અત્યંત પ્રયત્ન કરતા હતા. તેથી વાચકો પ્રાયઃ સંતુષ્ટ રહેતા હતા) આથી અષ્ટકજીમાં જણાવેલ છે કે “તીર્થકર ભગવાનની આ પણ એક મહાનતા છે કે તેમના અસ્તિત્વ માત્રથી લોકો પ્રાયઃ સંતોષરૂપી સુખથી યુક્ત હોવાના લીધે યાચક રહેતા નહિ. તેમજ પ્રભુના સંયોગથી લોકો તત્ત્વદૃષ્ટિવાળા થઈને દાનાદિ ધર્મમાં પુરુષાર્થ કરતા હતા. આ રીતે જિનેશ્વર ભગવંતમાં જ મોટી મહત્તા રહેલી છે. તે જ જગતગુરુ છે.” १.हस्तादर्श 'इत्येत्' इति त्रुटितः पाठः । २.हस्तादर्श 'अनाषि...' इत्यशुद्धः पाठः । ३.मुद्रितप्रतौ 'तद्भावेन' इति पदच्छेदशून्यः पाठः।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org