Book Title: Dwatrinshada Dwatrinshika Prakran Part 1
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 435
________________ २६२ सुगतजन्मसप्ताहोत्तरं तज्जननीमरणनियमः • द्वात्रिंशिका - ४ / १५ निष्क्रमण - निर्वाणादीनां तु समग्रलोकव्यापि - प्रकाश-नारकादिसर्वसत्त्वसुखानुभवहेतुत्वमिति सुगतापेक्षया व्यक्तमेवाऽतिमहत्त्वं जिनेश्वरस्य । यथोक्तं वीतरागस्तोत्रेऽपि नारका अपि मोदन्ते यस्य कल्याणपर्वसु । पवित्रं तस्य चारित्रं को वा वर्णयितुं क्षमः ? ।। ← (वी. स्तो. १०/७) इति । किञ्च सुगतस्य मायादेवीकुक्षावागमनोत्तरं तन्मातैकमपि महास्वप्नं चतुर्दशस्वप्नान्तर्गतं न पश्यति । जिनेश्वराणां च्यवनोत्तरं तु तन्माता चतुर्दश महास्वप्नानि पश्यति । तदुक्तं कल्पसूत्रे जं रयणि चणं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिंसि गब्भत्ताए वक्कंते, तं रयणिं च णं सा देवाणंदा माहणी सयणिज्जंसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एयारूवे, उरा, कल्लाणे, सिवे, धन्ने, मंगल्ले, सस्सिरीए चउद्दसमहासुमिणे पासित्ता णं पडिबुद्धा, तं जहागय-वसह-सीह-अभिसेय-दाम-ससि - दिणयरं झयं कुंभं । पउमसर-सागर - विमाण भवण - रयणुच्चय- सिहिं च ।। ← (क. सू. ३-४) सुगतस्य प्रसूतिकर्म देवकृतत्वेन मज्झिमनिकाये दीघनिकाये च बोधिसत्तो मातुकुच्छिम्हा निक्खमति, अप्पत्तोव बोधिसत्तो पथविं होति, चत्तारो नं देवपुत्ता पटिग्गहेत्वा मातु पुरतो ठपेन्ति; (म.नि. ३/३/३/२०६, पृ. १६५ + दी. नि. २ ।१ ।२८ - पृ. ११) ← इत्येवमुपदर्शितम् । अप्रावृतायाः मातुः पुरतः सुगतप्रसूतिसमये देवानामवस्थानमतिजुगुप्सितं सम्पद्यते लोकव्यवहारबाधात् । जिनेश्वरप्रसूतिकर्म तु षट्पञ्चाशद्दिक्कुमार्यो निर्वर्तयन्ति । मातुः पुरतो जिनेश्वरप्रसूतिसमये देवीनामवस्थानमर्हत्येव । व्यक्तश्चायमर्थ आवश्यकनिर्युक्तिचूर्णी तेणं कालेणं तेणं समएणं अहेलोगवत्थव्वाओ अट्ठदिसाकुमारिमहत्तरिमाओ सएहिं सएहिं कूडेहिं सएहिं सएहिं पासादवडिंसएहिं ....← ( आ.नि.गा. ८७/चू.पृष्ठ१३६) इत्यत्र । दीघनिकाये मज्झिमनिकाये च बोधिसत्तो मातुकुच्छिम्हा निक्खमति, द्वे उदकस्स धारा अन्तलिक्खा पातुभवन्ति- एका सीतस्स, एका उण्हस्स, येन बोधिसत्तस्स उदककिच्चं करोन्ति मातु चा'ति ← (म.नि.३ । ३ । ३ । २०६, पृ. १६५ + दी. नि. २ ।१ । ३० ) इत्युक्तं । अस्माकं कल्पसूत्रे च जं रयणि चणं समणे भगवं महावीरे जाए तं रयणिं च णं बहवे वेसमणकुंडधारिणो तिरियजंभगा देवा सिद्धत्थरायभवसि हिरण्णवासं च सुवण्णवासं च वयरवासं च वत्थवासं च आभरणवासं च पत्तवासं च पुप्फवासं च फलवासं च बीयवासं च मल्लवासं च गंधवासं च चुण्णवासं च वण्णवासं च वसुहारवासं च वासिंसु ← (क .सू. ९८ ) इत्युक्तम् । ततोऽपि जिनेश्वरस्यैव महत्त्वं सिध्यति । जिनेश्वराणां मेरुपर्वते जन्माभिषेकमिन्द्रादयः सहर्षं कुर्वन्ति षष्टिलक्षोत्तरकोटिसङ्ख्यैः महाकलशैः, नैवं सुगतस्येत्यतोऽपि तीर्थकृन्महत्त्वमनाविलमेव । किञ्च बोधिसत्त्वजन्मनः सप्तदिनोत्तरं तन्माताऽवश्यं म्रियते । तदुक्तं मज्झिमनिकाये दीघनिकाये च → सत्ताहजाते, आनन्द ! बोधिसत्ते बोधिसत्तमाता कालं करोति तुसितं कायं उपपज्जति ← (म.नि. ३ | ३ | ३ | २०५ पृ. १६४ + दी. नि. २ ।१ ।२४ ) इति । तीर्थकृतां पितरौ च तीर्थकृज्जन्मोत्तरं चिरकालं यावज्जीवन्ति यथायुष्कक्षयोत्तरं स्वर्गं मोक्षं वाऽधिगच्छन्ति । तदुक्तं प्रवचनसारोद्धारे चतुर्विंशतिजिनेश्वर Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478