________________
२६२
सुगतजन्मसप्ताहोत्तरं तज्जननीमरणनियमः •
द्वात्रिंशिका - ४ / १५
निष्क्रमण - निर्वाणादीनां तु समग्रलोकव्यापि - प्रकाश-नारकादिसर्वसत्त्वसुखानुभवहेतुत्वमिति सुगतापेक्षया व्यक्तमेवाऽतिमहत्त्वं जिनेश्वरस्य । यथोक्तं वीतरागस्तोत्रेऽपि नारका अपि मोदन्ते यस्य कल्याणपर्वसु । पवित्रं तस्य चारित्रं को वा वर्णयितुं क्षमः ? ।। ← (वी. स्तो. १०/७) इति ।
किञ्च सुगतस्य मायादेवीकुक्षावागमनोत्तरं तन्मातैकमपि महास्वप्नं चतुर्दशस्वप्नान्तर्गतं न पश्यति । जिनेश्वराणां च्यवनोत्तरं तु तन्माता चतुर्दश महास्वप्नानि पश्यति । तदुक्तं कल्पसूत्रे जं रयणि चणं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिंसि गब्भत्ताए वक्कंते, तं रयणिं च णं सा देवाणंदा माहणी सयणिज्जंसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एयारूवे, उरा, कल्लाणे, सिवे, धन्ने, मंगल्ले, सस्सिरीए चउद्दसमहासुमिणे पासित्ता णं पडिबुद्धा, तं जहागय-वसह-सीह-अभिसेय-दाम-ससि - दिणयरं झयं कुंभं । पउमसर-सागर - विमाण भवण - रयणुच्चय- सिहिं च ।। ← (क. सू. ३-४)
सुगतस्य प्रसूतिकर्म देवकृतत्वेन मज्झिमनिकाये दीघनिकाये च बोधिसत्तो मातुकुच्छिम्हा निक्खमति, अप्पत्तोव बोधिसत्तो पथविं होति, चत्तारो नं देवपुत्ता पटिग्गहेत्वा मातु पुरतो ठपेन्ति; (म.नि. ३/३/३/२०६, पृ. १६५ + दी. नि. २ ।१ ।२८ - पृ. ११) ← इत्येवमुपदर्शितम् । अप्रावृतायाः मातुः पुरतः सुगतप्रसूतिसमये देवानामवस्थानमतिजुगुप्सितं सम्पद्यते लोकव्यवहारबाधात् । जिनेश्वरप्रसूतिकर्म तु षट्पञ्चाशद्दिक्कुमार्यो निर्वर्तयन्ति । मातुः पुरतो जिनेश्वरप्रसूतिसमये देवीनामवस्थानमर्हत्येव । व्यक्तश्चायमर्थ आवश्यकनिर्युक्तिचूर्णी तेणं कालेणं तेणं समएणं अहेलोगवत्थव्वाओ अट्ठदिसाकुमारिमहत्तरिमाओ सएहिं सएहिं कूडेहिं सएहिं सएहिं पासादवडिंसएहिं ....← ( आ.नि.गा. ८७/चू.पृष्ठ१३६) इत्यत्र । दीघनिकाये मज्झिमनिकाये च बोधिसत्तो मातुकुच्छिम्हा निक्खमति, द्वे उदकस्स धारा अन्तलिक्खा पातुभवन्ति- एका सीतस्स, एका उण्हस्स, येन बोधिसत्तस्स उदककिच्चं करोन्ति मातु चा'ति ← (म.नि.३ । ३ । ३ । २०६, पृ. १६५ + दी. नि. २ ।१ । ३० ) इत्युक्तं । अस्माकं कल्पसूत्रे च जं रयणि चणं समणे भगवं महावीरे जाए तं रयणिं च णं बहवे वेसमणकुंडधारिणो तिरियजंभगा देवा सिद्धत्थरायभवसि हिरण्णवासं च सुवण्णवासं च वयरवासं च वत्थवासं च आभरणवासं च पत्तवासं च पुप्फवासं च फलवासं च बीयवासं च मल्लवासं च गंधवासं च चुण्णवासं च वण्णवासं च वसुहारवासं च वासिंसु ← (क .सू. ९८ ) इत्युक्तम् । ततोऽपि जिनेश्वरस्यैव महत्त्वं सिध्यति । जिनेश्वराणां मेरुपर्वते जन्माभिषेकमिन्द्रादयः सहर्षं कुर्वन्ति षष्टिलक्षोत्तरकोटिसङ्ख्यैः महाकलशैः, नैवं सुगतस्येत्यतोऽपि तीर्थकृन्महत्त्वमनाविलमेव ।
किञ्च बोधिसत्त्वजन्मनः सप्तदिनोत्तरं तन्माताऽवश्यं म्रियते । तदुक्तं मज्झिमनिकाये दीघनिकाये च → सत्ताहजाते, आनन्द ! बोधिसत्ते बोधिसत्तमाता कालं करोति तुसितं कायं उपपज्जति ← (म.नि. ३ | ३ | ३ | २०५ पृ. १६४ + दी. नि. २ ।१ ।२४ ) इति । तीर्थकृतां पितरौ च तीर्थकृज्जन्मोत्तरं चिरकालं यावज्जीवन्ति यथायुष्कक्षयोत्तरं स्वर्गं मोक्षं वाऽधिगच्छन्ति । तदुक्तं प्रवचनसारोद्धारे चतुर्विंशतिजिनेश्वर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org