________________
• बुद्धस्य गुरुद्वितयकरणम् •
२६३ जननीजनकानां गतिगमनदर्शनाऽवसरे → अट्ठण्हं जणणीओ तित्थयराणां तु हुंति सिद्धाओ । अट्ठ य सणंकुमारे माहिंदे अट्ठ बोद्धव्वा ।। नागेसुं, उसहपिया सेसाणं सत्त हुंति ईसाणे । अट्ठ य सणंकुमारे माहिंदे अट्ठ बोद्धव्वा ।।
6 (प्र.सारो. ३२५/३२६) इति ।।
किञ्च, सुगतस्य स्थूलत एवाऽदत्तादानादिविरतिः दीघनिकाये → जातरूप-रजतपटिग्गहणा पटिविरतो समणो गोतमो । आमकधञ्जपटिग्गहणा पटिविरतो समणो गोमतो । आमकमंसपटिग्गहणा पटिविरतो समणो गोमतो । इत्थिकुमारिकापटिग्गहणा पटिविरतो समणो गोतमो - (दी.नि. ११११०, पृ.५) इति दर्शिता । तीर्थकृताञ्च सर्वथैव यावज्जीवं सर्वसावद्यविरतिः → करेमि सामाइयं सव्वं सावज्जं जोगं पच्चक्खामि जावज्जीवाए तिविहं तिविहेणं - (आ.नि.भाष्य १०४-चू. पृष्ठ-२६७ वीरचरित्रे) इत्यादिना आवश्यकचूर्णी प्रसिद्धैव । मांसादिभक्षणं तु सर्वथैव परित्यक्तं तीर्थंकरैः सर्वैरेव । तथागतेन तु → मनामं मे भन्ते ! संपन्नवरसूकरमंसं तं मे भगवा पडिगण्हातु अनुकम्पं उपादायाति । पटिग्गहेसि भगवा अनुकम्पं उपादाय - (अङ्गु.निपात-५) इति अङ्गुत्तरनिकायवचनत उग्रगृहपतिदत्तं शूकरमांसं भुक्तमित्यतोऽपि तन्महत्त्वं न सङ्गच्छते। नायकदोषप्रक्रमन्यायेन तदनुयायिभिरपि मांसभक्षणमादृतमिति महत्त्वं तु तस्य नैव सम्भवति ।
किञ्च सुगत एकस्मिन्नेव भवे आकिञ्चन्याऽऽयतनसंज्ञोपदेशकं आलारकालामं नैवसंज्ञानाऽसंज्ञाऽऽयतनोपदेशकञ्च उद्दाकरामपुत्रं गुरुत्वेनोररीकृतवान् त्यक्तवांश्चेति मज्झिमनिकाये पाशराशिसूत्रे (म.नि.१ । ३।६।२७७-२७८) दीघनिकाये च महापरिनिर्वाणसूत्रे (दी.नि.२ १३ १९२) व्यक्तमेव । तथापि मज्झिमनिकाये → न मे आचरियो अत्थि - (म.नि. १।३।६।२८५, पृ.२८५) इत्येवं सुगतेन मृषोक्तमिति कुतः तस्य महत्त्वम् ? तीर्थकृतश्च स्वयंसम्बुद्धा एव आत्मगुरवश्च सन्तो जगद्गुरवो भवन्तीति व्यक्तं तेषां महत्त्वम् ।
किञ्च सुगतस्य अष्टौ एव वागतिशयाः । तदुक्तं मज्झिमनिकाये → अट्ठङ्गसमन्नागतो खो पनस्स भोतो गोतमस्स मुखतो घोसो निच्छरति-विस्सट्ठो च, विज्ञेय्यो च, मञ्जु च, सवनीयो च, बिन्दु च, अविसारी च, गम्भीरो च, निनादी च (म.नि. २ ।५।११३८७, पृ.३४८) इति । तीर्थकृतश्च पञ्चत्रिंशद्वचनातिशया भवन्ति । तदुक्तं समवायाङ्गसूत्रे → पणतीसं सच्चवयणाइसेसा पण्णत्ता 6 (सम.३५) इति । ते च → अथ वचनातिशयाः । संस्कारवत्त्वं = संस्कृतलक्षणयुक्तत्वम् १, औदात्त्यम् = उच्चैर्वृत्तिता २, उपचारपरीतता = अग्राम्यत्वम् ३, मेघगम्भीरघोषत्वं = मेघस्येव गम्भीरशब्दत्वम् ४... - (कु.मा. कथा-३, पृष्ठ-३७) इत्यादिना नामग्राहं रत्नप्रभसूरिभिः कुवलयमालाया-मुपदर्शिताः ततोऽवसेयाः । ___ मज्झिमनिकाये महासिंहनादसूत्रे → अञ्जत्र निदा-किलमथपटिविनोदना अपरियादिन्नायेवस्स सारिपुत्त ! तथागतस्स धम्मदेसना - (म.नि. १।२।१६१) इत्यादिना सुगतस्य निद्रादिदोषयुक्तत्वोपदर्शनात् कुतः तस्य महत्त्वम् ? यथा च जिनेश्वरे निद्रादयोऽष्टादश दोषा न सन्ति तथा केवलिभुक्तिद्वात्रिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org