________________
२६४
• बुद्धस्य निर्दयताद्योतनम् • द्वात्रिंशिका-४/१५ शिकायां (द्वा. ३०/७) दर्शयिष्यामः प्रवचनसारोद्धारादिसंवादेन ।
किञ्च मज्झिमनिकाये सुगतेन → अहं भिक्खवे ! मारं पापिमन्तं एतदेवावोचं- 'जानामि खो ताहं पापिम ! मा त्वं मञ्जित्थो- 'न में जानाती'ति । मारो त्वमसि पापिम ! - (म.नि.ब्रह्मनैमन्त्रिणिकसूत्र-१५।९।५०२ पृ.४१०) इत्येवं परस्याऽसभ्यसम्बोधनकरणे कथं महत्त्वं स्यात् ? मज्झिमनिकाये एव → अहं ब्रह्मे ! नेव ते समसमो अभिज्ञाय, कुतो नीचेय्यं ? अथ खो अहमेव तया भिय्यो ( (म.नि. १।५।९।५०४) इत्येवं ब्रह्मणः पुरतः सुगतस्यात्मोत्कर्षदर्शिकोक्तिरपि तन्महत्त्वं व्यवच्छिनत्ति । एवमेव मिथिलावास्तव्यं ब्रह्मायुनामकं ब्राह्मणं प्रति सुगतस्य → ते मयि चित्तं पसन्नं (म.नि. २।५।११३९४) इति मज्झिमनिकायदर्शिता उक्तिः, → सो भुत्तावी अनुमोदति - (म.नि.२ । ५।१।३८७ पृ.३४७) इत्येवं मज्झिमनिकायदर्शिता च भोजनानुमोदनोक्तिः तस्य रागभावं दर्शयतः । भद्रालिप्रभृतिकं प्रति तथागतस्य क्रोधोऽपि मज्झिमनिकाये (म.नि. २।२।५।१३६) व्यक्त एवेति रागद्वेषादिग्रस्तस्य कुतो महत्त्वं स्यात् ? गले पादुकान्यायेन सुगतस्याऽमहत्त्वमेवेत्यर्थः । अतो वीतरागस्य वीतद्वेषस्य वीतमोहस्य जिनेश्वरस्यैव महत्त्वमभ्युपगन्तुमर्हति ।
किञ्च तथागतोपसम्पज्जिघृक्षुरपि → न खो भिक्खु ! तथागता अपरिपुण्णपत्तचीवरं उपसम्पादेन्ति (म.निकाय. ३।४।१०।३७०) इत्येवं सुगतोक्तः सन् पात्र-चीवरादिगवेषणपरायणः पुक्कुसातिः गवा व्यापादित इति मज्झिमनिकाये दर्शितमिति प्रव्रज्योचितपात्र-चीवरादिवितरणकारितथाविधदेवसान्निध्यविरहात् सुगतस्य कथं महत्त्वम् ? तीर्थकृतः सकाशे तु केवलज्ञानलाभोत्तरमवश्यं जघन्येनाऽपि कोटिसङ्ख्याः . सुराः सदैव पर्युपासनपरा वर्तन्ते । तदुक्तं वीतरागस्तोत्रे → जघन्यतः कोटिसङ्ख्याः त्वां सेवन्ते सुरासुराः - (वी.स्तो. ४/१४) ।
किञ्च → सचे त्वं न ब्याकरिस्ससि, अञ्जन वा अझं पटिचरिस्ससि, तुण्ही वा भविस्ससि, पक्कमिस्ससि वा एत्थेव ते सत्तधा मुद्धा फलिस्सति - (दी.नि. १।३।३।२७०, पृ.८२) इत्येवं दीघनिकाये भापनद्वारा धर्मग्राहयित्रा सुगतेन स्वप्रश्नोत्तराऽदाने निर्दय-वज्रपाणियक्षसहायतः अम्बष्टस्य सप्तधा शिरःस्फेटनमुक्तं ततोऽपि तस्य दयालुत्वं व्याहन्यते इति कुतः तत्र महत्त्वसम्भावना ? जिनेश्वरास्तु करुणोपेतचेतस्कतया स्वापकारपरायणानपि गोशालकादीन् सम्यग्दर्शनादिदानेनोपकुर्वन्तीति तेषामेव महत्त्वं सिध्यति ।
यत्तु मज्झिमनिकाये → 'को पन सो, उदायि, सब्बञ्जू सब्बदस्सावी अपरिसेसं आणदस्सनं पटिजानमानो 'चरतो च मे तिट्ठतो च सुत्तस्स च जागरस्स च सततं समितं जाणदस्सनं पच्चुपट्टित'न्ति, यो तया पुब्बन्तं आरम्भ पऽहं पुट्ठो समानो अजेनजं पटिचरि, बहिद्धा कथं अपनामेसि कोपञ्च दोसञ्च अप्पच्चयञ्च पात्वाकासी'ति ? 'निग्गंठो, भन्ते, नाटपुत्तो'त्ति (म.नि.२।३।२७१/पृ.२३२चुल्लसकुलुदायिसुत्त) श्रीमहावीरस्य ज्ञातपुत्रस्य कोपादिग्रस्तत्वमुक्तं तत्तु महामृषावादित्वमेव मायापुत्रीयाणामुपलक्षयतीति न किञ्चिदेतत् । शूलपाणियक्ष-चण्डकौशिकसर्प-सङ्गमसुराधमादिष्वपि महोपसर्गकारिषु छद्मस्थदशायामपि निरवधिनिरुपाधिककरुणासमभिव्याप्तचेतसः सतः श्रीमहावीरस्य तीर्थकरस्य सर्वज्ञदशायां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org