________________
• मायापुत्रस्य मायावित्वप्रकाशनम् •
Jain Education International
२६५
कोपादेरत्यन्तमसम्भवात् ।
किञ्च ये सुगतं आत्म- लोकादीनां शाश्वतत्वाऽशाश्वतत्त्वादिकं तत्त्वजिज्ञासाशयतः परिपृष्टवन्तः ते च न तेन सम्यक् प्रत्युत्तरिताः किन्तु वस्त्वन्तरकथनेन वञ्चिता एव । अत्र च " किं पन, भन्ते, सस्तो लोको, इदमेव सच्चं मोघमञ्ञ” न्ति ? अब्याकतं खो एतं, पोट्ठपाद ! मया- “सस्सतो लोको, इदमेव सच्चं मोघमञ्ञ"न्ति ? “ एवम्पि खो, पोट्ठपाद ! मया अब्याकतं - असस्तो लोको, इदमेव सच्चं मोघमञ्ञ "न्ति । ← ( दी. नि. १/९/४२०) इति दीघनिकायवचनं, “येमे भो गोतमे ! समणब्राह्मणा सङ्घिनो गणिनो गणाचरिया जता यसस्सिनो तित्थकरा साधुसम्मता बहुजनस्स, सेय्यथिदं-यूरणो कस्सयो, मक्खलि गोसालो, अजितो केसकम्बलो, पकुधो कच्चायनो, सञ्जयो बेलट्ठपुत्तो, निगण्ठो नाटपुतो सब्बेते सकाय पटिजाय अब्भञ्ञिसु, सब्बेव न अब्भञ्ञिसु, उदाहु एकच्चे अब्भ
सु, एकच्चे न अब्भञ्ञिसू”ति ? अलं, सुभद्द ! तिट्ठतेतं- 'सब्बेते सकाय पटिञ्ञाय अब्भञ्ञिसु, सब्बेव न अब्भञ्ञिसू”ति । “धम्मं ते, सुभद्द । देसेस्सामि ← ( दी. नि. २/३/२१३, पृ.११३) इति च सुभद्रप्रश्नोत्तराऽदानप्रकाशकं दीघनिकायवचनं साक्षि वर्तते । मज्झिमनिकायेऽपि एतादृशाः सु-बहवः प्रबन्धा विद्यन्त इति कियन्तो (म.नि. २ । २ । १८९ ) दर्श्यन्ते । नखच्छेद्या अपि दर्शितपर्यनुयोगा यथावस्थितविज्ञानविरहात् कुठारच्छेद्यतां प्राप्ताः । ततश्च यथावस्थितजगद्व्यवस्थगोचरविज्ञानविरहादपि न तस्य महत्त्वं सिध्यति । तथापि सब्बाभिभू ← (म.नि. पाशराशिसूत्र १ ३ ६ । २८५, पृ. २३१) इत्येवं मज्झिमनिकाये सुगतेन स्वस्य सर्वाभिभावकत्वमुक्तं तत्तु तदविमृश्यवक्तृत्वं दर्शयति ।
श्रीमता महावीरेण जिनेन्द्रेण तु एगे भवं दुवे भवं ? अक्खए भवं ? अव्वए भवं ? अवट्ठिए भवं ? अणेगभूयभावभाविए भवं ? ← (भ.सू.१८/१०/६४७) इति सोमिलब्राह्मणपर्यनुयोगे पराभवबुद्धिप्रयुक्ते सति सोमिला ! दव्वट्टयाए एगे अहं, नाण-दंसणट्टयाए दुविहे अहं, पएसट्टयाए अक्खए वि अहं, अव्वए वि अहं अवट्ठिए वि अहं, उवओगट्टयाए अणेगभूयभावभविए वि अहं ← (भ.सू.१८/१०/६४७) इत्येवमसन्दिग्धरूपेण प्रत्युत्तरितमिति भगवतीसूत्रे प्रसिद्धमेव । न हि सर्वज्ञस्य कस्मिंश्चिदपि प्रश्ने समुपस्थिते व्यामूढमतित्वं प्रत्युत्तरदानाऽसमर्थत्वं वस्त्वन्तरकथनारम्भेण परवञ्चकत्वं वा सम्भवति न वा पराभिभावकत्वाद्युक्तिः स्वोत्कर्ष- परतिरस्कारादिद्योतिका सम्भवति । अत एव → सल्लकत्तो महावीरो सीहो व नदति वने ← (म.नि. २।५।२ । ३९९) इति मज्झिमनिकायदर्शिता शैलब्राह्मणकृता तथागतस्तुतिः वस्तुतो महावीरे तीर्थकर एव सङ्गच्छते ।
किञ्च मृत्युकाले “इन्ध मे त्वं चुन्दक! चतुग्गुणं सङ्घाटिं पञ्ञपेहि किलन्तोस्मि, चुन्दक! निपज्जिस्सामी 'ति ← ( दी. नि. २/३/१९६, पृ.१०२ ) इत्येवमतिक्लान्तस्य तथागतस्य चुन्दाभिधानं गृहस्थं प्रति स्वविश्रामकृते सङ्घाटिप्रस्तारणाऽऽदेशकरणमपि दीघनिकायदर्शितं तन्महत्त्वं व्यवच्छिनत्ति । न हि सावद्यविरतानां गृहस्थं प्रति आज्ञापनी भाषा युज्यते, सावद्यविरतिलोपापातात् ।
किञ्च भोजनार्थं पूर्वदिने सभिक्षुसङ्घः आमन्त्रितः आरोग्यादिगुणसम्पन्नः तथागतः तदामन्त्रणा - ऽङ्गीकारपूर्वं द्वितीये दिने प्रसेनजितभूपाल (म. नि. २ । ४ । ८ ) - बोधिराजकुमार (म. नि. २ ।४ । ५ । ३२६) ब्रह्मायु
For Private & Personal Use Only
www.jainelibrary.org