________________
• दानादिक्रमेण जिननामविपाकोदयसाफल्यम् • द्वात्रिंशिका-४/१६ दानादेवाऽकृतार्थत्वान्महत्त्वं नेति मन्दधीः । तस्योत्तरमिदं पुण्यमित्थमेव विपच्यते ।।१६।। (म.नि. २ ।५।१।३९५) प्रभृतिगृहं पञ्चाशदधिकद्वादशशतभिक्षुभिः सार्धं च केणियजटिलब्राह्मणगृहं गत्वा भुक्तवानिति व्यक्तं मज्झिमनिकाये । एवमेव लौहित्यब्राह्मण ( दी. नि. १ । १२) चुन्दसुवर्णकार ( दी . नि . २ । ३) पौष्करस्वातिब्राह्मण(दी.नि. १ । ३ । २९७) प्रभृतिगृहं गत्वा भुक्तवानिति व्यक्तं दीघनिकाये । ततश्च तथागतस्यौद्देशिकपिण्डत्यागप्रतिज्ञाऽपि शब्दमात्रमेव । श्रीमन्महावीरः तीर्थकरस्तु रक्तातिसाराद्यवस्थायामपि → तत्थ णं रेवतीए गाहावइणीए मम अट्ठाए दुवे कवोयसरीरा उवक्खडिया तेहिं नो अट्ठो ← (भ.सू.श.१५/ सूत्र- ५५८/ पृष्ठ - ६८६ ) इत्यादिना औद्देशिकौषधग्रहणमपि निषिद्धवानिति प्रतिज्ञातनिर्वाहतोऽपि जिनेश्वरस्यैव महत्त्वं करस्थामलकन्यायेन सिध्यति ।
२६६
किञ्च मरणावसरे आकङ्खमानो आनन्द ! सङ्घो ममच्चयेन खुद्दानुखुद्दकानि सिक्खापदानि समूहनतु ← ( दी. नि. २ । ३ ।२१६ - पृ. ११५) इत्येवं दीघनिकाये सुगतेन स्वमुखत एव स्वमरणोत्तरं यथेच्छं लघु-लघुतराणि शिक्षोचितनियमानि हातुं स्वसङ्घोऽनुज्ञात इति भिक्षुसङ्घशैथिल्यपरिपोषकस्य कथं महत्त्वं सङ्गच्छते ? ततश्च मा पमादमनुयुञ्जेथ ← ( म.नि. २ ।४ । ३५२ / पृ. ३१५ ) इति मज्झिमनिकाये सुगतोक्तिः ‘निन्दामि च पिबामि चे 'ति न्यायग्रस्ता न विद्वत्पर्षदि शोभते । जिनेश्व-रैस्तु कदापि स्वस्थापिताऽऽचारस्य शैथिल्यं क्वापि कदापि नैव लेशतोऽप्यनुमतमिति स्वोक्तानुत्थापनादपि जिनेश्वराणामेव महत्त्वं सुगतादिव्यावृत्तं हंसक्षीर - नीरन्यायेन सिध्यति ।
ननु एवं हि शिष्टानभिप्रेता सुगतादिनिन्दैव भवदभिप्रेतेत्यशिष्टत्वापत्तिर्भवतामिति चेत् ? न, 'न हि निन्दा निन्द्यं निन्दितुं प्रयुज्यते, किं तर्हि ? निन्दितादितरत् प्रशंसितुमिति न्यायेन प्रकृतेऽस्माकं वीतरागस्य प्रशंसैव यथास्थानतयाऽभिप्रेता, यथा ऐतरेयब्राह्मणे प्रातः प्रातरनृतं ते वदन्ति ← (ऐ.ब्रा. ) इति अनुदितहोमनिन्दा उदितहोमप्रशंसार्था, यथा मनुस्मृती ऋग्वेदो देवदैवत्यो यजुर्वेदस्तु मानुषः । सामवेदस्तु पित्र्यः स्यात् तस्मात् तस्याऽशुचिर्ध्वनि: ।। ← (मनु. ४ / १२४ ) इति सामवेदनिन्दा इतरवेदप्रशंसार्था, यथा च महाभारते चत्वार एकतो वेदा भारतं चैकमेकतः । समागतैस्तु ऋषिभिस्तुलयाऽऽरोपितं पुरा ।। महत्त्वे च गुरुत्वे च ध्रियमाणं यतोऽधिकम् । महत्त्वाच्च गुरुत्वाच्च महाभारतमुच्यते ।। ← (म.भा. आदि. १/१/२०८-९) इति वेदनिन्दा महाभारतप्रशंसार्था तथैवाऽत्र सुगतादिनिन्दा न सुगतादिकं निन्दितुं प्रयुज्यते किन्तु वीतरागतीर्थकरं प्रशंसितुमित्यवधेयं नयान्तराभिप्रायेण । लेशतो दर्शिता युक्तिः जिनमहत्त्वसूचिका । महत्त्वविरहं स्पष्टं दर्शयति परेषु वै । 19 ।।
118/9411 भगवति सङ्ख्यावद्दानप्रयुक्तमहत्त्वाभावशङ्कामपाकृत्य साम्प्रतं दानप्रयुक्ताऽकृतार्थत्वाक्षिप्तं महत्त्वाબૌદ્ધ મતનું નિરાકરણ કર્યા બાદ અન્ય મતનું નિરાકરણ કરવા ગ્રન્થકારશ્રી જણાવે છે કે → ગાથાર્થ :- ‘દાન આપવાના લીધે જ તીર્થંકર કૃતાર્થ ન હતા. માટે તે મહાન ન હતા.' આવું કોઈક મંદબુદ્ધિમાન બોલે છે. તેનો જવાબ એ છે કે તીર્થંકરનું પુણ્ય આ રીતે જ પાકે છે, ફળે છે.
(४/१६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org