Book Title: Dwatrinshada Dwatrinshika Prakran Part 1
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 429
________________ • महेश्वरसर्वज्ञत्वाऽसम्भवः द्वात्रिंशिका-४/१३ इत्येष विस्तरोऽन्यत्र = स्याद्वादकल्पलतादौ, दिग्मात्रप्रदर्शनं पुनरेतदिति बोध्यम् ।। १२ ।। अन्ये त्वाहुर्महत्त्वं हि संख्यावद्दानतोऽस्य न । शास्त्रे नो गीयते ह्येतदसङ्ख्यं त्रिजगद्गुरोः ।।१३।। अचिन्त्यैव यद्धर्मशक्तिः परा सा स एकः परात्मा गतिर्मे जिनेन्द्रः ।। ← (सिद्ध. द्वाद्वा. २१/१९) इति। धर्मपदेनाऽत्र तीर्थङ्करावस्थायां तादृशपुण्यं बोध्यं सिद्धदशायाञ्च केवलज्ञानादिकम्, यद्वोभयत्र लाघवेन केवलज्ञानादिकमेव, पूर्वोक्तात् (पृ.२४५) 'जहा जहा तं भगवया दिट्ठ तहा तहा तं विपरिणमिस्सति' (व्या.प्र.१/४/४१) इति व्याख्याप्रज्ञप्तिवचनात् । परं महेशे जगत्कर्तृत्वसाधनप्रयासस्तु वृद्धकुमारीवरप्रार्थनन्यायमेवाऽनुसरतीत्यवधेयम् । २५६ किञ्चोपादानप्रत्यक्षं लौकिकमेव जनकमिति कथं जगत्कर्तृत्वोपपादनाय तादृशप्रत्यक्षाऽऽश्रयतयेश्वरः सिध्येत् ? सन्निकर्षदोषविशेषादिनियम्यलौकिकविषयतायास्तज्ज्ञानेऽभावात् । यदि च प्रणिधानाद्यर्थं मनोवहनाड्यादौ योगिनां प्रवृत्तिस्वीकारादनुमित्यादिसाधारणं यद्धर्मावच्छिन्ने यदर्थिप्रवृत्तिस्तद्धर्मावच्छिन्ने तत्प्रकारकज्ञानं हेतुरिति मतं तदेश्वरे ज्ञानमात्रसिद्धावपि कथं प्रत्यक्षसिद्धि: ? प्रत्यक्षत्वमेव चेन्द्रियजन्यतावच्छेदकं लाघवान्न तु जन्यप्रत्यक्षत्वं, गौरवादिति का प्रत्याशा नित्यप्रत्यक्षाऽऽश्रयस्येश्वरस्य ? इति व्यक्तं अष्टसहस्रीतात्पर्यविवरणे ( अ. स. ता . परि. १०/का. ९९/पृ.३४२) विस्तरोऽन्यत्र स्याद्वादकल्पलतादौ । तदुक्तं स्याद्वादकल्पलतायां धृतेरपि नेश्वरसिद्धि:, गुरुत्ववत्पतनाभावमात्रस्य गुरुत्वेतरहेत्वभावप्रयुक्तस्याऽऽम्रफलादावेव व्यभिचारित्वात् । प्रतिबन्धकाऽभावेतरसामग्रीकालीनत्वविशेषणेऽपि वेगवदिषुपतनाऽभावे तथात्वात् । वेगाऽप्रयुक्तत्वस्यापि विशेषणत्वे च स्वरूपासिद्धिः, ब्रह्माण्डधृतेरप्यदृष्टप्रयुक्तत्वाद् ← (शा.वा. स्त. ३ / श्लो. ९ वृ. पृ.६२ ) इत्यादि । किञ्चेश्वरस्य सर्वज्ञत्वेऽपि मानाभावः, उपादानप्रत्यक्षस्य कार्यमात्रं प्रति हेतुतया तज्ज्ञाने द्रव्यविषयकत्त्वमात्रस्यैव सिद्धेः । न च ' यः सर्वज्ञः स सर्वविदिति (मुण्ड. १ / ९) मुण्डकोपनिषदेव तस्य सर्वज्ञत्वे मानम्, युक्तिविरहे श्रुतिसहस्रस्याऽकिञ्चित्करत्वात् । न चेन्द्रियादिजन्यत्वाऽभावेन तज्ज्ञाने नियतविषयवाभावे सिद्धे तस्य सर्वज्ञत्वं सेत्स्यतीति वाच्यम्, इन्द्रियादिजन्यत्वाभावेऽपि लाघवादिना तत्र नियत - विषयताया एव सिद्धेः, यादृच्छिकनियमकल्पनाया अप्रयोजकत्वात् (स्या रह. का. ५ / खण्ड-२ / पृ. ४४८) इत्यादिकं स्याद्वादरहस्ये प्रोक्तम् । यथा चैतत्तत्त्वं तथा विस्तरतोऽभिहितमस्माभिः जयलतायाम् (म. स्या. रह.खण्ड-२ पृ.४००-४४० ) । दिङ्मात्रप्रदर्शनं पुनरेतदिति बोध्यम् ||४/१२ ।। શ્રુતિ પણ ધ્વસ્તદોષત્વરૂપે જ ઈશ્વરનું મહત્ત્વ જણાવે છે. એમ નિશ્ચિત થાય છે. આ બાબતનો વધુ વિગતવાર વિસ્તાર સ્યાદ્વાદકલ્પલતા વગેરે ગ્રન્થમાં કરવામાં આવેલ છે. અહીં તો દિશાસૂચન માત્ર કરવારૂપે આ બાબતની છણાવટ કરેલ છે. વિશેષ જિજ્ઞાસુ તે ગ્રન્થોમાં નજર કરી શકે છે. (૪/૧૨) # બૌદ્ધમાન્ય મહત્તાનું નિરાકરણ # નૈયાયિકમતનું ખંડન કરીને હવે બૌદ્ધ મતનું ખંડન કરતા ગ્રન્થકારશ્રી ફરમાવે છે કે → ગાથાર્થ :- અન્ય વિદ્વાનો એમ કહે છે કે ગણી શકાય તેટલી સંખ્યામાં દાન આપવાના લીધે तीर्थर महान नथी. अभारा = બૌદ્ધના શાસ્ત્રમાં તો ત્રણ જગતના ગુરુ ગૌતમબુદ્ધનું અસંખ્યદાન Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478