________________
• महेश्वरसर्वज्ञत्वाऽसम्भवः
द्वात्रिंशिका-४/१३
इत्येष विस्तरोऽन्यत्र
=
स्याद्वादकल्पलतादौ, दिग्मात्रप्रदर्शनं पुनरेतदिति बोध्यम् ।। १२ ।। अन्ये त्वाहुर्महत्त्वं हि संख्यावद्दानतोऽस्य न । शास्त्रे नो गीयते ह्येतदसङ्ख्यं त्रिजगद्गुरोः ।।१३।। अचिन्त्यैव यद्धर्मशक्तिः परा सा स एकः परात्मा गतिर्मे जिनेन्द्रः ।। ← (सिद्ध. द्वाद्वा. २१/१९) इति। धर्मपदेनाऽत्र तीर्थङ्करावस्थायां तादृशपुण्यं बोध्यं सिद्धदशायाञ्च केवलज्ञानादिकम्, यद्वोभयत्र लाघवेन केवलज्ञानादिकमेव, पूर्वोक्तात् (पृ.२४५) 'जहा जहा तं भगवया दिट्ठ तहा तहा तं विपरिणमिस्सति' (व्या.प्र.१/४/४१) इति व्याख्याप्रज्ञप्तिवचनात् । परं महेशे जगत्कर्तृत्वसाधनप्रयासस्तु वृद्धकुमारीवरप्रार्थनन्यायमेवाऽनुसरतीत्यवधेयम् ।
२५६
किञ्चोपादानप्रत्यक्षं लौकिकमेव जनकमिति कथं जगत्कर्तृत्वोपपादनाय तादृशप्रत्यक्षाऽऽश्रयतयेश्वरः सिध्येत् ? सन्निकर्षदोषविशेषादिनियम्यलौकिकविषयतायास्तज्ज्ञानेऽभावात् । यदि च प्रणिधानाद्यर्थं मनोवहनाड्यादौ योगिनां प्रवृत्तिस्वीकारादनुमित्यादिसाधारणं यद्धर्मावच्छिन्ने यदर्थिप्रवृत्तिस्तद्धर्मावच्छिन्ने तत्प्रकारकज्ञानं हेतुरिति मतं तदेश्वरे ज्ञानमात्रसिद्धावपि कथं प्रत्यक्षसिद्धि: ? प्रत्यक्षत्वमेव चेन्द्रियजन्यतावच्छेदकं लाघवान्न तु जन्यप्रत्यक्षत्वं, गौरवादिति का प्रत्याशा नित्यप्रत्यक्षाऽऽश्रयस्येश्वरस्य ? इति व्यक्तं अष्टसहस्रीतात्पर्यविवरणे ( अ. स. ता . परि. १०/का. ९९/पृ.३४२)
विस्तरोऽन्यत्र स्याद्वादकल्पलतादौ । तदुक्तं स्याद्वादकल्पलतायां धृतेरपि नेश्वरसिद्धि:, गुरुत्ववत्पतनाभावमात्रस्य गुरुत्वेतरहेत्वभावप्रयुक्तस्याऽऽम्रफलादावेव व्यभिचारित्वात् । प्रतिबन्धकाऽभावेतरसामग्रीकालीनत्वविशेषणेऽपि वेगवदिषुपतनाऽभावे तथात्वात् । वेगाऽप्रयुक्तत्वस्यापि विशेषणत्वे च स्वरूपासिद्धिः, ब्रह्माण्डधृतेरप्यदृष्टप्रयुक्तत्वाद् ← (शा.वा. स्त. ३ / श्लो. ९ वृ. पृ.६२ ) इत्यादि ।
किञ्चेश्वरस्य सर्वज्ञत्वेऽपि मानाभावः, उपादानप्रत्यक्षस्य कार्यमात्रं प्रति हेतुतया तज्ज्ञाने द्रव्यविषयकत्त्वमात्रस्यैव सिद्धेः । न च ' यः सर्वज्ञः स सर्वविदिति (मुण्ड. १ / ९) मुण्डकोपनिषदेव तस्य सर्वज्ञत्वे मानम्, युक्तिविरहे श्रुतिसहस्रस्याऽकिञ्चित्करत्वात् । न चेन्द्रियादिजन्यत्वाऽभावेन तज्ज्ञाने नियतविषयवाभावे सिद्धे तस्य सर्वज्ञत्वं सेत्स्यतीति वाच्यम्, इन्द्रियादिजन्यत्वाभावेऽपि लाघवादिना तत्र नियत - विषयताया एव सिद्धेः, यादृच्छिकनियमकल्पनाया अप्रयोजकत्वात् (स्या रह. का. ५ / खण्ड-२ / पृ. ४४८) इत्यादिकं स्याद्वादरहस्ये प्रोक्तम् । यथा चैतत्तत्त्वं तथा विस्तरतोऽभिहितमस्माभिः जयलतायाम् (म. स्या. रह.खण्ड-२ पृ.४००-४४० ) । दिङ्मात्रप्रदर्शनं पुनरेतदिति बोध्यम् ||४/१२ ।।
શ્રુતિ પણ ધ્વસ્તદોષત્વરૂપે જ ઈશ્વરનું મહત્ત્વ જણાવે છે. એમ નિશ્ચિત થાય છે. આ બાબતનો વધુ વિગતવાર વિસ્તાર સ્યાદ્વાદકલ્પલતા વગેરે ગ્રન્થમાં કરવામાં આવેલ છે. અહીં તો દિશાસૂચન માત્ર કરવારૂપે આ બાબતની છણાવટ કરેલ છે. વિશેષ જિજ્ઞાસુ તે ગ્રન્થોમાં નજર કરી શકે છે. (૪/૧૨)
# બૌદ્ધમાન્ય મહત્તાનું નિરાકરણ #
નૈયાયિકમતનું ખંડન કરીને હવે બૌદ્ધ મતનું ખંડન કરતા ગ્રન્થકારશ્રી ફરમાવે છે કે → ગાથાર્થ :- અન્ય વિદ્વાનો એમ કહે છે કે ગણી શકાય તેટલી સંખ્યામાં દાન આપવાના લીધે तीर्थर महान नथी. अभारा = બૌદ્ધના શાસ્ત્રમાં તો ત્રણ જગતના ગુરુ ગૌતમબુદ્ધનું અસંખ્યદાન
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org