________________
२५५
• श्रुतौ लक्षणाऽनभ्युपगमः . 'नित्यं विज्ञानमानन्दं ब्रह्म' (बृ.आ.उ.३/९/२८) इति श्रुतेर्नित्यज्ञानसिद्धावपि नित्येच्छाकृत्योरसिद्धेः, अत एव नित्यसुखस्याऽपीश्वरे सिद्धिप्रसङ्गाच्च । तस्मादुक्तश्रुतिरपि नित्यज्ञान-सुखाऽऽश्रयतया ध्वस्तदोषत्वेनैव महत्त्वमीश्वरस्य बोधयतीति स्थितम् । वच्छेदककोटौ क्रियते, न च तदनिवेशे जगत्प्रसिद्धस्य कस्यापि पदार्थस्यानुपपत्तिरिति तत्प्रवेशप्रयुक्तगौरवस्य दूषणत्वं न सुरगुरुणापि निवारयितुं शक्यते। नित्यकृतेरेवाऽद्यावधिरसिद्धत्वेन जन्यत्वव्यावर्त्यविरहान्न तत् कार्यतावच्छेदकीभूतकृतित्वविशेषणं भवितुमर्हति ।।
न च 'नित्यं विज्ञानमानन्दं ब्रह्म' इति (बृ.आ.३/९/२८) बृहदारण्यकोपनिषद्वचनान्नित्यज्ञानस्येव नित्येच्छाकृत्योरपि सिद्धिरिति वक्तव्यम्, उक्तश्रुतेः ब्रह्मणि नित्यज्ञानसिद्धौ सत्यां अपि नित्येच्छा-कृत्योरसिद्धः । न च जहदजहल्लक्षणया प्रकृतसिद्धिरिति वाच्यम्, लक्षणाया जघन्यवृत्तित्वेन श्रुतौ तदनुपगमात् । __ ग्रन्थकृद् नैयायिकस्य दोषान्तरमाह अत एव = उक्तश्रुतिवचनादेव नित्यसुखस्यापि ईश्वरे सिद्धिप्रस
ङ्गाच्च । ततश्च वृद्धिमिच्छतो मूलमपि ते नष्टमिति न्यायापातो नैयायिकस्य । तस्मात् कारणात् उक्तश्रुतिरपि नित्यज्ञान-सुखाऽऽश्रयतया ध्वस्तदोषत्वेनैव महत्त्वमीश्वरस्य बोधयति । इत्थमेव → सच्चिदानन्दः परमात्मा 6 (म.वा.४) इति महावाक्योपनिषद्वचनं, → स शिवः सच्चिदानन्दः - (पं.ब्र. ३५) इति पञ्चब्रह्मोपनिषद्वचनं, → नमो विज्ञानरूपाय परमानन्दरूपिणे कृष्णाय - (गो.पू.२/२) इति गोपालपूर्वतापिन्युपनिषद्वचनं, → महेशो नित्यानन्दः - (शर.२०) इति च शरभोपनिषद्वचनमपि सङ्गच्छते । ईशज्ञान-सुखगतं च नित्यत्वं ध्वंसाऽप्रतियोगित्वरूपमवगन्तव्यम्, ध्वंसवत् । न तु प्रागभावाप्रतियोगित्वलक्षणम्, प्रागभाववद् ध्वंसापत्तेरुभयोरेवासम्मतत्वात् । न वा प्रागभाव-ध्वंसाप्रतियोगित्वलक्षणम्, इच्छात्वावच्छिन्ने ज्ञानस्य हेतुत्वेन बाधात् । न च ज्ञानस्य नित्यत्वेऽपीच्छाजनकत्वं स्यादिति वाच्यम्, एकान्तनित्यत्वेऽर्थक्रियाकारित्वाद्यनुपपत्तेरिति वक्ष्यते वादद्वात्रिंशिकायाम् (द्वा.द्वा.८/१८ भाग-२, पृ.५८८) ।
इत्थञ्चाऽविनाशिज्ञानादिधर्माश्रयतया ब्रह्माण्डादिधारकत्वमपीश्वरस्य सङ्गच्छते । तदुक्तं श्रीसिद्धसेनदिवाकरसूरिभिः द्वात्रिंशिकाप्रकरणे → अहो विष्टपाऽऽधारभूता धरित्री निरालम्बनाधारमुक्ता य-दास्ते ।
નૈયાયિક જો એમ કહે કે – “નિત્યં વિજ્ઞાનમાનંદ બ્રહ્મ' આ શ્રુતિવાક્યથી જેમ નિત્યજ્ઞાન સિદ્ધ થાય છે તેમ નિત્યકૃતિ પણ સિદ્ધ થઈ જશે. હું તો આ વાત વ્યાજબી નથી. કારણ કે ઉપરોક્ત શ્રુતિવચનથી નિત્યજ્ઞાનની જ સિદ્ધિ થાય છે. નિત્ય ઈચ્છા કે નિત્ય કૃતિ = નિત્ય પ્રયત્ન નહિ. માટે નિત્યકૃતિની સિદ્ધિ માટે ઉપરોક્ત શ્રુતિવચનનો હવાલો આપવો વ્યાજબી નથી. વળી, જો ઉપર્યુક્ત શ્રુતિને પ્રમાણ માનવામાં આવે તો ઈશ્વરમાં નિત્ય સુખની પણ સિદ્ધિ થશે. કારણ કે તેનો તેમાં ઉલ્લેખ છે. માટે નિત્ય જ્ઞાન અને નિત્ય સુખના આશ્રય રૂપે ઈશ્વરની મહત્તા ઉપરની શ્રુતિ જણાવે છે એમ માનવું પડશે. પરંતુ આવું તો નૈયાયિકોને માન્ય નથી. માટે ધ્વસ્તદોષત્વરૂપે જ ઈશ્વરમાં મહત્ત્વની સિદ્ધિ થશે. નિત્ય જ્ઞાન-સુખનો મતલબ છે અવિનાશી જ્ઞાન-સુખ. દોષના ઉચ્છેદ થવાથી ઉત્પન્ન થયેલા જે જ્ઞાન-સુખ ક્યારેય નાશ નથી પામવાના તે નિત્યજ્ઞાન, નિત્યસુખરૂપે અહીં જાણવા. આમ ઉપરોક્ત १. 'नित्यवि...' इति पाठो मुद्रितप्रतौ । २. हस्तादर्श 'सिधं' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org