Book Title: Dwatrinshada Dwatrinshika Prakran Part 1
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 359
________________ १८८ • अविकल्पतथाकारविषयद्योतनम् . द्वात्रिंशिका-३/२८ 'अविकल्पतथाकाराविषयत्वेन नैतद्धर्मो मार्गः, 'कप्पाकप्पे परिनिट्ठिअस्स ठाणेसु पंचसु ठिअस्स संजमतवड्ढगस्स उ अविगप्पेण तहक्कारो ।।(आ.नि.६८८) इति वचनात् साधुवचन ननु अविकल्पतथाकाराऽविषयत्वेन नैतद्धर्मः = न संविग्नपाक्षिकधर्मः मार्गः = योगमार्गः सम्भवति । पूर्वपक्षी आवश्यकनियुक्तिगाथां हेतुतयोपदर्शयति ‘कप्पाकप्पे' इति । इयमेव गाथा पञ्चाशके प्रवचनसारोद्धारे (आ.नि.६८८, पञ्चा.१२/१४, प्र.सारो.७६४) चाऽप्युद्धृता वर्तते । पञ्चाशके अभयदेवसूरिकृता तद्व्याख्या चैवम् → कल्पो = विधिः, आचार इत्यर्थः । अकल्पश्चाविधिः । अथवा कल्पो जिनकल्प-स्थविरकल्पादिः, अकल्पस्तु चरकादिदीक्षा । अथवा कल्प्यं = ग्राह्यं, अकल्प्यमितरत्। ततः समाहारद्वन्द्वात्कल्पाकल्पं कल्प्याकल्प्यं वा । तत्र परिनिष्ठितस्य = ज्ञाननिष्ठां प्राप्तस्य। अनेन च ज्ञानसम्पदुक्ता। तथा तिष्ठन्ति- मुमुक्षवो येषु तानि स्थानानि = महाव्रतानि तेषु । पञ्चस्विति स्वरूपविशेषणं, यतो न तान्येकादीनि भवन्ति । यत्रापि चत्वारि तान्युच्यन्ते, तत्रापि वस्तुतः पञ्चैवेति । स्थितस्याश्रित्य । अनेन च मूलगुणसम्पत्तिरुक्ता । तथा संयमः प्रत्युपेक्षोपेक्षादिः, तथा तपश्चानशनादि, ताभ्यामाढ्यः = परिपूर्णः, स एव संयमतपआढ्यकस्तस्य । अनेन चोत्तरगुणसम्पत्तिरुक्ता । तुशब्द एवकारार्थः। तस्य किमित्याह- अविकल्पेन निर्विकल्पं तदीयवचनेऽवितथत्वात् शङ्कामकुर्वाणेनेत्यर्थः । तथाकारो ‘यथा यूयं वदथ तथैवैतदि'त्यर्थसंसूचकस्तथेति शब्दप्रयोगः कार्य इति गम्यम् - (पञ्चा. १२/१४ वृत्ति) इति । श्रीसिद्धसेनसूरिकृता प्रवचनसारोद्धारवृत्तिरप्येवंप्रायैव वर्तते । ___ आवश्यकनिर्युक्तौ मलयगिरिसूरिकृता तद्वृत्तिस्त्वेवम् → कल्पो विधिराचार इति पर्यायाः कल्पविपरीतस्त्वकल्पः जिन-स्थविरकल्पादि वा कल्पः, चरकादिदीक्षा पुनरकल्पः। कल्पश्चाकल्पश्चेति समाहारो द्वन्द्वः कल्पाकल्पं, तस्मिन् = कल्पाकल्पे परि = समन्तात् निष्ठितः परिनिष्ठितो = ज्ञाननिष्ठां प्राप्तः तस्य, तथा तिष्ठन्त्येतेषु सत्सु शाश्वते स्थाने प्राणिन इति स्थानानि = महाव्रतान्यभिधीयन्ते, तेषु स्थानेषु पञ्चसु स्थितस्य, महाव्रतयुक्तस्येत्यर्थः, संयम-तपोभ्यामाढ्यः = सम्पन्नः संयमतपआढ्यः । अनेनोत्तरगुणयुक्ततामाह । तस्य किमित्याह- अविकल्पेन = निश्चयेन तथाकारः, कर्तव्य इति क्रियाध्याहारः - इति (आव.नि.६८८ मल.वृत्ति) । एवमेव श्रीहारिभद्रीयवृत्तिः प्रायो वर्तते (आ.नि.६८८) इति वचनात् = आवश्यकनियुक्तिवचनात् → गुणसुट्टियस्स वयणं घयपरिसित्तु व्व पावओ भाइ । गुणहीणस्स न सोहइ नेहविहूणो जह पईवो ।। 6 (बृ.क.भा.२४५) इति बृहत्कल्पभाष्यवचनात्, → अप्पाणमबोहंता परं विबोहयंति केइ ते वि जडा। भण परियणम्मि छुहिए सत्तागारेण किं कज्जं ? ।। - (आ.कु.३८) इति आत्मावबोधकुलकજણાવેલ છે કે “કથ્ય અને અકથ્યમાં જે નિષ્ણાત હોય, પાંચ મહાવ્રતોમાં જે વ્યવસ્થિત હોય, સંયમ અને તપથી સમૃદ્ધ હોય તેવા મહાત્માના વચનમાં વિના વિકલ્પ તહત્તિ કરવી.” આ વચન મુજબ તો સુવિહિત ભાવસાધુનું વચન જ નિસંદિગ્ધપણે ‘તહત્તિ' કહીને સ્વીકારવા યોગ્ય સાબિત થાય છે. સંવિગ્નપાક્ષિક તો પાંચ મહાવ્રતમાં વ્યવસ્થિત ન હોવાથી અને તપ-સંયમથી સમૃદ્ધ ન હોવાથી તેમનું વચન શી રીતે નિઃશંકપણે તહત્તિ કરીને શિરોમાન્ય १. कल्पाकल्पे परिनिष्ठितस्य स्थानेषु पञ्चसु स्थितस्य । संयमतपआढ्यकस्य त्वविकल्पेन तथाकारः ।। २. मुद्रितप्रतौ 'संजमतववट्टग...' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478