Book Title: Dwatrinshada Dwatrinshika Prakran Part 1
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
२०४
• साधुत्वानुमितिसफलतामीमांसा •
द्वात्रिंशिका - ४ / १
'यदि चाऽऽलयविहारादिलिङ्गेन साधुत्वमनुमीयत एव तदनुमितिप्रयोज्यवन्दनादिना च फलविशेष
1
एवञ्चाऽव्यक्तसमाधिजन्यफलविशेषं प्रति तादृग्बुद्धौ व्यक्तिविशेषविषयकत्वस्याऽवश्यनिवेशनीयत्वेऽपि तदजन्यफलविशेषं प्रति तु तादृक्षबुद्धौ तन्निवेशाऽनावश्यकत्वात्, विशेषरूपेणैव महत्त्व - साधुत्वपूज्यत्वादिप्रकारकबुद्ध्या फलविशेषसम्भवात् । न चैवं गौरवदोषः फलमुखत्वेन तस्याऽदोषत्वात् । ओघतः अव्यक्तसामायिकफलं तु राज्यादिकं व्यक्तसामायिकफलञ्च स्वर्गापवर्गादिकम् । तदुक्तं उपदेशपदवृत्तौ मुनिचन्द्रसूरिभिः सामाइयस्स किं फलमाह मुणी जं पगिट्ठपयपत्तं । तं सग्गनिव्वुइफलं रज्जाइफलं जमव्वत्तं ॥ ← (उप.प.गा. २११ वृ.गा. ६७, पृ. १५९) इति ।
यद्वाऽस्तु कार्यतावच्छेदकलाघवाय सामान्यतः फल-फलवद्भावे कारणतावच्छेदककुक्षौ व्यक्तिविशेषविषयकत्वाऽनिवेशः, अव्यक्तसमाधिजन्यफलविशेषमपेक्ष्य विशेषतः कार्यकारणभावाङ्गीकारे तु कारणतावच्छेदकशरीरेऽस्तु फलबलाद् व्यक्तिविशेषविषयकत्वनिवेशः, का नः क्षतिरायाता ? एतेन लाघवादऽव्यक्तसमाधेर्निष्फलत्वोक्तिरपि प्रत्याख्याता, दशाविशेषे अव्यक्तसमाधेः व्यक्तसमाधिजन्यफलसदृशफलविशेषजनकत्वस्य प्रमाणनिश्चितत्वात् समाधेरव्यक्ताद् यदभिदधति व्यक्तसदृशं फलं योगाचार्या ध्रुवमभिनिवेशे विगलिते ← (अ.उप. १/७६) इति अध्यात्मोपनिषद्वचनात् । यथा चैतत्तत्त्वं तथा व्युत्पादितमस्माभिः अध्यात्मवैशारद्यां तट्टीकायाम् ।
=
यदि च ‘आलएणं विहारेणं' (आ.नि. ११६२) इत्यादिना आवश्यकनिर्युक्तिदर्शितरीत्या तु तादृशलिङ्गेन साधुत्वमनुमाय वन्दनादेः कर्तव्यता विहितेति लिङ्गे लिङ्गी भवत्येव लिङ्गिन्येवेतरत् पुनः । नियमस्य विपर्यासोऽसम्बन्धो लिङ्ग-लिङ्गिनोः ।। ← ( प्र . समु. ३१ / ७ ) इति प्रमाणसमुच्चयदर्शितव्याप्तिसम्बन्धबलात् आलय विहारादिलिङ्गेन तु साधुत्वं अनुमीयत एव केवला साधुत्वप्रकारकानुमितिरेव जन्यते । परं तादृशानुमितेस्तु न फलविशेषलाभ आवश्यकनिर्युक्तौ दर्शितो येन व्यक्तिविशेषविषयकत्वमनिवेश्य विशेषरूपेण साधुत्वप्रकारकबुद्धेः फलजनकत्वोक्तिरनुपपन्ना स्यात् । न च तर्हि फललाभः कुतः स्यादिति शङ्कनीयम्, तदनुमितिप्रयोज्यवन्दनादिना च वच्छिन्नव्याप्यतानिरूपित-साधुत्वनिष्ठप्रकारताऽभिन्नसाध्यतानिरूपकानुमितिप्रयोज्यवन्दनादिनैव फलविशेषः
तदालयविहारादिसाधुलिङ्गविशिष्टरूपा
=
यदि चा. । जहीं भे प्रेम हेवामां खावे आवश्य नियुक्तियां तो आालयविहार माहि દ્વારા સુસાધુત્વનું અનુમાન કરી શકાય છે - એટલું જ જણાવેલ છે. પરંતુ તેવી અનુમિતિ દ્વારા ફળવિશેષ પ્રાપ્ત થવાની વાત ત્યાં કરેલ નથી. માટે સાધુત્વવિષયક અનુમિતિથી નહિ પણ તે અનુમિતિથી થનારી સાધુવંદન આદિ પ્રવૃત્તિ દ્વારા જ પુણ્ય વગેરે ફળવિશેષ મળે છે. એવો નિર્ણય થાય છે. તેથી જિનેશ્વર ભગવંતને વિશે પણ મહત્ત્વબુદ્ધિ દ્વારા કઈ રીતે ફળ મળી શકે ? ~ તો આ પ્રશ્નના જવાબમાં એમ કહી શકાય છે કે તુલ્યયુક્તિથી અરિહંત ભગવાનમાં પણ વિશેષરૂપે મહત્ત્વની અનુમિતિ સ્વીકારી શકાય છે. તેનાથી ભલે ફળ ન મળે. પણ મહત્ત્વપ્રકારક અનુમિતિ પછી અરિહંત ભગવાનની જે સ્મૃતિ, વંદના, પૂજા આદિ થાય છે તેના દ્વારા જ નિર્જરાદિસ્વરૂપ વિશેષ ફળ પ્રાપ્ત થાય છે -આવું માની શકાય છે.
१. हस्तादर्शे 'यदि चालय यदि चालय' इति द्विरुक्तः पाठः । २. हस्तादर्शे 'वन्दनादि' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org