Book Title: Dwatrinshada Dwatrinshika Prakran Part 1
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 381
________________ २०८ • अभेदसम्बन्धे दोषषट्कविद्योतनम् . द्वात्रिंशिका-४/२ धर्मधर्मिसम्बन्धभेदेऽनवस्थानात् । तदभेदे च सहप्रयोगाद्यनुपपत्तेः । विकल्पयामलमुपतिष्ठते । तत्र न तावदाद्योऽनवद्यः, धर्म-धर्मिसम्बन्धभेदे येन सम्बन्धेन धर्मिणि धर्मो वर्तते तेन सम्बन्धेनापि तत्र धर्मिणि वर्तितव्यम्, अन्यथा सम्बन्धत्वाऽयोगात् । न हि घटसंयोगशून्ये भूतले संयोगसम्बन्धेन घटसत्ताऽभ्युपगन्तुं युज्यते, सर्वत्र सत्त्वाऽऽपत्तेः । न च धर्मिणि धर्मसम्बन्धोऽन्यसम्बन्धेन तत्र वर्तत इति वक्तव्यम्, अन्यसम्बन्धस्य प्रथमसम्बन्धेन तत्र वृत्तौ परस्पराश्रयप्रसङ्गात्, सम्बन्धान्तरेण वृत्तौ तु तस्य प्रथमसम्बन्धेन तत्र वृत्तौ चक्रकप्रसङ्गात् । न च सम्बन्धान्तरस्य संसर्गान्तरेण वृत्तौ न कश्चिद्दोष इति वक्तव्यम्, एवं तत्तदनन्तसम्बन्धकल्पने अनवस्थानात् = अप्रामाणिकाऽनन्तपदार्थकल्पनाऽनुपरतिप्रसङ्गात् । न चाऽनवस्थाभिया धर्म-धर्मिणोरभेद एवाभ्युपगम्यत इति वक्तव्यम्, तदभेदे च = धर्म-धर्मिणोः तादात्म्ये हि स्वीक्रियमाणे सहप्रयोगाद्यनुपपत्तेः । तथाहि धर्म-धर्मिणोरेकान्तेनाऽभेदाङ्गीकारे यथा ‘घटो घट' इति सहप्रयोगो न भवति तथा 'नीलो घट' इति सहप्रयोगो न स्यात् । न वा स्यात् 'घट-रूपे' इत्यपि सहप्रयोगः । घटादेरिव नीलादेरपि त्वाचप्रत्यक्षं स्यात् । 'घटमानये'त्युक्ते यत्किञ्चिन्नीलाऽऽनयनं च व्युत्पन्नस्य स्यात् । स्याच्च ‘अघटो घट' इतिवत् 'अनीलो घट' इति वचो विरोधग्रस्तम् । पाकेन श्यामरक्त-विनाशोत्पादाभ्यां घटस्य तौ स्यातां घटसत्त्वे च तयोरपि तौ न स्यातामिति दोषषट्काऽऽपत्तिरपरिहार्यैव तयोरभेदपक्षे । ___नन्वभिधान-कार्य-कारण-जातिप्रभृतिभेदोपदर्शनाऽसम्भवात् विशेषे विशेषान्तरकल्पने चाऽनवस्थानाद् येनैव प्रमाणेन विशेषाऽभिधानपञ्चमपदार्थसिद्धिः तेनैव धर्मिग्राहकप्रमाणेन तत्र स्वतो व्यावर्तकत्वमपि सिद्धमिति यथाऽङ्गीक्रियते तथैवोपर्युक्तदोषभयात् येनैवाऽनुमानप्रमाणेन धर्म-धर्मिसम्बन्धसिद्धिरभिमता तेनैव धर्मिग्राहकप्रमाणेन तत्र स्वतः सम्बद्धत्वमपि सिद्धमिति कक्षीक्रियते । तथाहि नील-घटयोः संयोगादिसम्बन्धान्तरबाधात् प्रसिद्धधर्म-धर्मिभावनिर्वाहाय लाघवसहकृताऽनुमानप्रमाणेन तयोः समवायाऽभिधानस्य सम्बन्धान्तरस्य स्वतः सम्बद्धत्वेन सिद्धेर्नाऽनन्तसम्बन्धकल्पनाऽनवस्थादिदोषप्रसङ्गः । एतेन प्रमाणाऽनवस्थाऽपि प्रत्युक्ता; येनैव प्रमाणेन समवायस्सिध्यति तेनैव तत्र धर्मिणा साकं स्वतः सम्बद्धत्वसिद्धेरभ्युपगमादिति चेत् ? વર્ણ વચ્ચે જેમ તે બન્નેને જોડનાર સમવાય સંબંધ માનવો જરૂરી બન્યો તેમ ઘડા અને સમવાયની વચ્ચે પણ તે બન્નેને જોડનાર કોઈક નવો સંબંધ માનવો પડશે. અને તે સંબંધ પણ જો સમવાય અને ઘડાથી સર્વથા ભિન્ન હશે તો તેને ઘડા અને સમવાયની સાથે જોડાવા માટે ફરી એક નવો સંબંધ માનવો પડશે. તે નવો સંબંધ પણ જો તે બન્નેથી સર્વથા ભિન્ન હશે તો ફરી એક નવો સંબંધ તે બન્નેને જોડવા માટે માનવો પડશે. આમ કરવામાં તો નવા-નવા સંબંધોની કલ્પનાનો કોઈ અંત જ નહિ આવે. અપ્રામાણિક અનંત સંબંધની આ રીતે કલ્પના કરવી તે દાર્શનિક પરિભાષા મુજબ અનવસ્થા દોષ કહેવાય. અનવસ્થા દોષ લાગુ પડે તે રીતે કોઈ પણ પદાર્થની કલ્પના કરી ન શકાય. જ એનંતઅભેદનિરાક્રણ છે. तदभेदे. । ७५रोत होषना निव।२९ भाटे अभुर भेडान्तवाहीनी. धर्म-धी क्थ्ये, गुए-गुए। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478