Book Title: Dwatrinshada Dwatrinshika Prakran Part 1
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 389
________________ २१६ • औदयिकभावविशेषस्य महत्त्वप्रयोजकत्वस्थापनम् • द्वात्रिंशिका-४/४ औदयिकभावस्याऽपि विशिष्टस्य महत्त्वप्रयोजकत्वं व्यवस्थापयतिपुण्योदयभवैर्भावैर्मतं क्षायिकसङ्गतैः । महत्त्वं महनीयस्य बाह्यमाभ्यन्तरं तथा ।।४।। 'स्वाङ्गं स्वव्यवधायकं न भवतीति न्यायेन प्रत्युत नानाविचारमार्गेण ग्रन्थकृदाशयस्य परिस्फुटमुन्नयनादिति अग्रेऽपि सर्वत्रैवं भावनीयम् ।।४/३ ।। ननु → 'इत्थं यथा तव विभूतिरभूज्जिनेन्द्र ! धर्मोपदेशनविधौ न तथा परस्य । यादृक् प्रभा दिनकृतः प्रहतान्धकारा तादृक् कुतो ग्रहगणस्य विकाशिनोऽपि ?।।' - (भक्ता.३३) इति भक्तामरस्तोत्रवृत्तौ श्रीमेघविजयमहोपाध्यायेन → बाह्ययोगमहिम्नापि निश्चीयते यत्त्वमेव परमः पुमानिति सिंहावलोकनन्यायेन प्रागुक्तं दृढीकृतम् । तेन “देवागम-नभोयान-चामरादिविभूतयः। मायाविष्वपि दृश्यन्ते नातस्त्वमसि नो महान् ।।”(आप्तमीमांसा १) इति समन्तभद्रोक्तं अष्टसहस्रीसूत्रं प्रत्याहतम्, प्रातिहार्याऽतिशयप्रमुखबाह्ययोगविभूतेर्भगवद्रूपादिसंसर्गेण वर्णनात् । तथारूपा हि विभूतिर्न देवाधिदेवव्यभिचारिणी, मायाविलक्षैरपि भगवद्रूपस्य साम्यं कोट्यंशेनापि न कर्तुं शक्यमित्यास्तां विस्तरः । तथा च सुष्ठुक्तं हेमसूरिपादैः ‘बाह्योऽपि योगमहिमा नाप्तस्तीर्थकरैः परैः' (वीतरागस्तोत्र.४/७) 6 इति (भक्ता.वृत्ति ३३) प्रोक्तम् । प्रकृतवीतरागस्तोत्रकारिकावृत्तावेव श्रीगुणाकरसूरिभिः → चतुस्त्रिंशदतिशयर्द्धिर्यादृशी जिने तादृशी ब्रह्मादौ कुतः ? तेषां सरागत्वान्न कर्मक्षयः । कर्मक्षयं विना नोत्तमोत्तमता । तां विना प्रातिहार्यद्धैरभावः - (वीतरागस्तोत्रवृत्ति ४/९) इति प्रोक्तम् । आवश्यकनिर्युक्तौ बृहत्कल्पनियुक्तौ च → सव्वसुरा जइ रूवं अंगुट्ठपमाणयं विउविज्जा । जिणपायंगुटुं पइ न सोहए तं जहिंगालो ।। - (आ.नि.५६९/ बृ.क.नि.११९६) इत्येवं जिनरूपस्याऽन्याऽलभ्यता दर्शिता । बृहत्कल्पभाष्येऽपि → संघयण-रूव-संठाणवन्न-गइ-सत्तसार-उसासा । एमादऽणुत्तराई हवंति नामोदया तस्स ।। - (बृ.क.भा. ११९८, आ.नि.५७१) इत्यादिना जिनसंहनन-रूप-संस्थानादीनामनन्यसाधारणत्वमावेदितम् । तीर्थकरस्य धर्मजन्यरूपदर्शनेन लोकेष्वादेयवाक्यताऽप्युपयुज्यते बोधिबीजवपनादौ । यथोक्तं बृहत्कल्पभाष्ये → धम्मोदएण रूवं करेंति रूवस्सिणो वि जइ धम्मं । गज्झवओ य सुरूवो पसंसिमो रूवमेवं तु । (बृ.क.भा.१२०१) इति । श्रीसिद्धसेनदिवाकरेणाऽपि द्वात्रिंशिकाप्रकरणे→ तिष्ठन्तु तावदतिसूक्ष्मगभीरगाधाः संसारसंस्थितिभिदः श्रुतवाक्यमुद्राः। पर्याप्तमेकमुपपत्तिसचेतनस्य रागार्चिषः शमयितुं तव रूपमेव ।। (सि.द्वा.द्वा.२/ १५) इत्येवं वीतरागशरीररूपस्य महत्त्वाऽऽविष्कारकत्वमुपदर्शितमिति कथं न बाह्यसम्पदो विभोर्महत्त्वप्रयोजकत्वमित्याशङ्कायां औदयिकभावस्याऽपि विशिष्टस्य महत्त्वप्रयोजकत्वं व्यवस्थापयति 'पुण्येति । અવિસંવાદી વચન એ અરિહંત પરમાત્માની મહત્તાનું પ્રયોજક છે - એવું બતાવ્યું. હવે વિશિષ્ટ ઔદયિક ભાવ પણ પ્રભુની મહત્તાનું પ્રયોજક છે - એવું બતાવતા ગ્રન્થકારશ્રી ફરમાવે છે કે ક વિશિષ્ટ ઔદયિક ભાવ પણ મહત્ત્વનિર્ણાયક છે ગાથાર્થ :- ક્ષાયિક ગુણોથી યુક્ત એવા પુણ્યોદયજન્ય ભાવો દ્વારા પૂજ્ય એવા પરમાત્માનું બાહ્ય तथा सभ्यन्तर महत्व मनायेद छे. (४/४) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478