________________
२१६
• औदयिकभावविशेषस्य महत्त्वप्रयोजकत्वस्थापनम् • द्वात्रिंशिका-४/४ औदयिकभावस्याऽपि विशिष्टस्य महत्त्वप्रयोजकत्वं व्यवस्थापयतिपुण्योदयभवैर्भावैर्मतं क्षायिकसङ्गतैः । महत्त्वं महनीयस्य बाह्यमाभ्यन्तरं तथा ।।४।। 'स्वाङ्गं स्वव्यवधायकं न भवतीति न्यायेन प्रत्युत नानाविचारमार्गेण ग्रन्थकृदाशयस्य परिस्फुटमुन्नयनादिति अग्रेऽपि सर्वत्रैवं भावनीयम् ।।४/३ ।।
ननु → 'इत्थं यथा तव विभूतिरभूज्जिनेन्द्र ! धर्मोपदेशनविधौ न तथा परस्य । यादृक् प्रभा दिनकृतः प्रहतान्धकारा तादृक् कुतो ग्रहगणस्य विकाशिनोऽपि ?।।' - (भक्ता.३३) इति भक्तामरस्तोत्रवृत्तौ श्रीमेघविजयमहोपाध्यायेन → बाह्ययोगमहिम्नापि निश्चीयते यत्त्वमेव परमः पुमानिति सिंहावलोकनन्यायेन प्रागुक्तं दृढीकृतम् । तेन “देवागम-नभोयान-चामरादिविभूतयः। मायाविष्वपि दृश्यन्ते नातस्त्वमसि नो महान् ।।”(आप्तमीमांसा १) इति समन्तभद्रोक्तं अष्टसहस्रीसूत्रं प्रत्याहतम्, प्रातिहार्याऽतिशयप्रमुखबाह्ययोगविभूतेर्भगवद्रूपादिसंसर्गेण वर्णनात् । तथारूपा हि विभूतिर्न देवाधिदेवव्यभिचारिणी, मायाविलक्षैरपि भगवद्रूपस्य साम्यं कोट्यंशेनापि न कर्तुं शक्यमित्यास्तां विस्तरः । तथा च सुष्ठुक्तं हेमसूरिपादैः ‘बाह्योऽपि योगमहिमा नाप्तस्तीर्थकरैः परैः' (वीतरागस्तोत्र.४/७) 6 इति (भक्ता.वृत्ति ३३) प्रोक्तम् । प्रकृतवीतरागस्तोत्रकारिकावृत्तावेव श्रीगुणाकरसूरिभिः → चतुस्त्रिंशदतिशयर्द्धिर्यादृशी जिने तादृशी ब्रह्मादौ कुतः ? तेषां सरागत्वान्न कर्मक्षयः । कर्मक्षयं विना नोत्तमोत्तमता । तां विना प्रातिहार्यद्धैरभावः - (वीतरागस्तोत्रवृत्ति ४/९) इति प्रोक्तम् । आवश्यकनिर्युक्तौ बृहत्कल्पनियुक्तौ च → सव्वसुरा जइ रूवं अंगुट्ठपमाणयं विउविज्जा । जिणपायंगुटुं पइ न सोहए तं जहिंगालो ।। - (आ.नि.५६९/ बृ.क.नि.११९६) इत्येवं जिनरूपस्याऽन्याऽलभ्यता दर्शिता । बृहत्कल्पभाष्येऽपि → संघयण-रूव-संठाणवन्न-गइ-सत्तसार-उसासा । एमादऽणुत्तराई हवंति नामोदया तस्स ।। - (बृ.क.भा. ११९८, आ.नि.५७१) इत्यादिना जिनसंहनन-रूप-संस्थानादीनामनन्यसाधारणत्वमावेदितम् । तीर्थकरस्य धर्मजन्यरूपदर्शनेन लोकेष्वादेयवाक्यताऽप्युपयुज्यते बोधिबीजवपनादौ । यथोक्तं बृहत्कल्पभाष्ये → धम्मोदएण रूवं करेंति रूवस्सिणो वि जइ धम्मं । गज्झवओ य सुरूवो पसंसिमो रूवमेवं तु । (बृ.क.भा.१२०१) इति । श्रीसिद्धसेनदिवाकरेणाऽपि द्वात्रिंशिकाप्रकरणे→ तिष्ठन्तु तावदतिसूक्ष्मगभीरगाधाः संसारसंस्थितिभिदः श्रुतवाक्यमुद्राः। पर्याप्तमेकमुपपत्तिसचेतनस्य रागार्चिषः शमयितुं तव रूपमेव ।। (सि.द्वा.द्वा.२/ १५) इत्येवं वीतरागशरीररूपस्य महत्त्वाऽऽविष्कारकत्वमुपदर्शितमिति कथं न बाह्यसम्पदो विभोर्महत्त्वप्रयोजकत्वमित्याशङ्कायां औदयिकभावस्याऽपि विशिष्टस्य महत्त्वप्रयोजकत्वं व्यवस्थापयति 'पुण्येति ।
અવિસંવાદી વચન એ અરિહંત પરમાત્માની મહત્તાનું પ્રયોજક છે - એવું બતાવ્યું. હવે વિશિષ્ટ ઔદયિક ભાવ પણ પ્રભુની મહત્તાનું પ્રયોજક છે - એવું બતાવતા ગ્રન્થકારશ્રી ફરમાવે છે કે
ક વિશિષ્ટ ઔદયિક ભાવ પણ મહત્ત્વનિર્ણાયક છે ગાથાર્થ :- ક્ષાયિક ગુણોથી યુક્ત એવા પુણ્યોદયજન્ય ભાવો દ્વારા પૂજ્ય એવા પરમાત્માનું બાહ્ય तथा सभ्यन्तर महत्व मनायेद छे. (४/४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org