________________
• मृषावादनिदानाऽऽवेदनम् .
२१५ ताप-च्छेद-कषैश्शुद्धं सुवर्णमिव यद्भवेत् । युक्तिसिद्धान्तसिद्धत्वात्तत्तत्त्वमभिधीयते ।। (सम्यक्त्वसप्ततिका.वृत्ति.पृ.३) इत्यपि व्याख्यातम् । → युक्तिमद्वचनं ग्राह्यं मयाऽन्यैश्च भवद्विधैः - (वि. पु.३/१८२०) इति विष्णुपुराणवचनमप्यत्र संवदति । → आत्मीयः परकीयो वा कः सिद्धान्तो विपश्चिताम् । दृष्टेष्टाऽबाधितो यस्तु युक्तस्तस्य परिग्रहः ।। ( (यो.बि.५२५) इति योगबिन्दुवचनमपि संवादिन्याय्यवचनस्यैव महत्त्वमुपदर्शयति । प्रधानसिद्धान्तप्रतिपादके वचने सुपरीक्षिते तु स्थालीपुलाकन्यायेनाऽन्येषामपि तद्वचनानां प्रमाणतयाऽभ्युपगमस्य न्याय्यत्वमेव । एतेन → स्थाल्यां तुल्यपाकानां पुलाकानामेकमुपमृद्याऽन्येषामपि सिद्धतां जानाति - (शा.भा. ७/४/१२) इति शाबरभाष्यवचनमपि व्याख्यातम् । तदुक्तं श्रीहेमचन्द्रसूरिभिरपि परिशिष्टपर्वणि → सिक्थेनाऽपि द्रोणपाकं जानन्ति हि मनीषिणः - (प.प.७/९४) इत्यवधेयम् ।
ननु श्रीहरिभद्रसूरिभिरेव → यस्य सङ्क्लेशजननो रागो नास्त्येव सर्वथा । न च द्वेषोऽपि सत्त्वेषु शमेन्धनदवानलः ।। (अ.प्र.१/१) न च मोहोऽपि सज्ज्ञानच्छादनोऽशुद्धवृत्तकृत् । त्रिलोकख्यातमहिमा महादेवः स उच्यते ।। - (अ.प्र.१/२) इत्येवं राग-द्वेष-मोहविरहादेव भगवतो महत्त्वं अष्टकप्रकरणे दर्शितम् । लोकतत्त्वनिर्णयेऽपि तैरेव → यस्य निखिलाश्च दोषा न सन्ति सर्वे गुणाश्च विद्यन्ते। ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ।। (लो.त.नि.४०) इत्येवं दोषाभावादेव भगवन्माहात्म्यमावेदितम् । श्रीहेमचन्द्रसूरिवरैरपि महादेवस्तोत्रे → भवबीजाङ्कुरजनना रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा महेश्वरो वा नमस्तस्मै ।। (म.स्तो.३३) इत्युक्त्या, अयोगव्यवच्छेदद्वात्रिंशिकायाञ्च → यत्र तत्र समये यथा तथा योऽसि सोऽस्यभिधया यया तया । वीतदोषकलुषः स चेद् भवानेक एव भगवन् ! नमोऽस्तु ते।। - (अयो.द्वा.३१) इत्युक्त्या रागादिदोषाभावस्यैव महत्त्वप्रयोजकत्वमुक्तम्। भवद्भिस्त्वत्राऽविसंवादिवचनस्यैव देवमहत्त्वप्रयोजकत्वमावेदितमिति कथं न पूर्वाचार्यवचनैस्सह विरोधः इति चेत् ? ___अत्रोच्यते-राग-द्वेष-मोहानामसत्यवचनकारणत्वं → रागेण व दोसेण व मोहेण व भासई मुसं भासं - (भा.रह.५३) इति भाषारहस्याधुक्तितः प्रसिद्धम् । तच्छून्यस्य त्वसत्यवचनकारणविरहात्संवादिवचनशालित्वमेव सिद्धम् । तदुक्तं → रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतम् । यस्य तु नैते दोषास्तस्याऽनृतकारणं किं स्यात् ?।। 6 ( ) इति। ततश्च कार्यकारणभावाऽऽपन्नयोरविसंवादिवचनरागादिक्षययोर्मध्यादविसंवादिवचनस्योपदर्शने तदन्यपरिज्ञानं त्वेकसम्बन्धिज्ञानस्यापरसम्बन्धिस्मारकत्वन्यायात्तद्व्याप्तिस्मरणाद् वा सुलभमेव । प्रकृते कार्यप्राधान्यविवक्षया महत्त्वप्रयोजकमुक्तमन्यत्र च कारणप्राधान्यविवक्षयेति न कश्चिद्दोषः । तथापि क्षयोपशमाऽपाटवेनैकोक्तौ सत्यामपराऽनवगमे क्वचित् पार्थक्येन वीतरागत्व-यथार्थदेशकत्वोभयनिर्देशोऽपि सङ्गच्छते । अत एव अयोगव्यवच्छेदद्वात्रिंशिकायां → इमां समक्ष प्रतिपक्षसाक्षिणामुदारघोषामवघोषणां ब्रुवे । न वीतरागात्परमस्ति दैवतं न चाऽप्यनेकान्तमृते नयस्थितिः ।। - (अयो.द्वा.२८) इत्येवमुभयनिर्देशोऽकारि श्रीहेमचन्द्रसूरिभिः ।
किञ्चाऽर्वाग्दृशामविसंवादिवचनमेव भगवन्महत्त्वाभ्युपगमे औचित्यमञ्चतीति प्रकृतेऽविसंवादिवचनत्वेनैव तन्निर्देशो युज्यते । न चैवं नानाशास्त्रसन्दर्भः प्रतिश्लोकं मीमांसया मूलग्रन्थस्वातन्त्र्यभङ्गः शङ्कनीयः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org