SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ २१४ • दृष्टेष्टाऽबाधितवचनस्योपादेयता • द्वात्रिंशिका-४/३ एव रागः । कपिलादिषु च न मे द्वेषः । किन्तु यस्य वचनं युक्तिमत्तस्य परिग्रहः = स्वीकारः कार्यः । ___ इत्थं चात्राऽविसंवादिवचनत्वेनैव भगवतो' महत्त्वमाचार्यैरभिप्रेतम् ।।३।। ३/१) इति शाण्डिल्योपनिषद्वचनादस्य निरुक्तमुच्यते । तथाहि- विशेषेण = अपुनर्भावेन ईर्ते- 'ईरिक् गति-कम्पनयोः' इति वचनाद् याति शिवं, कम्पयति-आस्फोटयति = अपनयति कर्म वेति वीरः। यदि वा 'शूर-वीरणि विक्रान्तौ' वीरयति स्म कषायोपसर्ग-परीषहादिशत्रुगणमभिभवति स्म वीरः, उभयत्र लिहादित्वात् अच्। यद्वा ईरणमीरः, 'भावाकोंः' (सिद्धहेम.५-३-१८) इति घञ्, ततश्च विशिष्ट ईरः = गमनं 'सर्वे गत्या ज्ञानार्थाः' (न्यायसङ्गह-१०१) इति वचनाद् ज्ञानं यस्य स वीर इति व्यक्तमुक्तं (क.स्त.१ वृ.) कर्मस्तववृत्तौ श्रीदेवेन्द्रसूरिभिः । प्रकृते → अथ कस्मादुच्यते वीरमिति ? यस्मात् स्वमहिम्ना सर्वांल्लोकान् सर्वान् देवान् सर्वानात्मनः सर्वाणि भूतानि विरमति विरामयत्यजस्रं सृजति विसृजति वासयति — (नृ.पू.२/४) इति नृसिंहपूर्वतापनीयोपनिषदुपदर्शिता वीरपदव्युत्पत्तिरपि यथातन्त्रमनुयोज्या नानातन्त्रविशारदैः। तस्य = युक्तिमद्वचनशालिनः स्वीकारः कार्यः। इत्थञ्च = निरुक्तोक्तिप्रकारेण अत्र = लोकतत्त्वनिर्णयकारिकायां अविसंवादिवचनत्वेनैव भगवतो वीतरागस्य महत्त्वं आचार्यः श्रीहरिभद्रसूरिवरैः अभिप्रेतम् । तदुक्तं तत्रैव → यच्चिन्त्यमानं न ददाति युक्तिं प्रत्यक्षतो नाप्यनुमानतश्च । तबुद्धिमान् को नु भजेत लोके गोशृङ्गतः क्षीरसमुद्भवो न । (लोक.नि.१/१६) आगमेन च युक्त्या च योऽर्थः समभिगम्यते । परीक्ष्य हेमवद् ग्राह्यः पक्षपाताऽऽग्रहेण किम् ?।। 6 (लोक.नि.१/१८) इत्याद्यपि । श्रीहेमचन्द्रसूरिभिरपि अयोगव्यवच्छेदद्वात्रिंशिकायां → न श्रद्धयैव त्वयि पक्षपातो न द्वेषमात्रादरुचिः परेषु । यथावदाप्तत्वपरीक्षया तु त्वामेव वीर ! प्रभुमाश्रिताः स्म ।। (अ.व्य. द्वा.२९) इत्युक्तम् । तैरेव अन्ययोगव्यवच्छेदद्वात्रिंशिकायां → अयं जनो नाथ! तव स्तवाय गुणान्तरेभ्यः स्पृहयालुरेव । विगाहतां किन्तु यथार्थवादमेकं परीक्षाविधिदुर्विदग्धः ।। - (अन्ययो. व्य.२) इत्युक्तम् । यथार्थवचन-स्तवनद्वारैव सर्वतद्गुणस्तवनसिद्धेः । तदुक्तं तद्वृत्तौ स्याद्वादमजर्या → तस्मिन्नेकस्मिन्नपि हि गुणे वर्णिते तन्त्रान्तरीयदेवेभ्यो वैशिष्ट्यख्यापनद्वारेण वस्तुतः सर्वगुणस्तवनसिद्धेः - (स्या.म.२ वृ. ) इति । __अन्यत्रापि → निकष-च्छेद-तापैश्च सुवर्णमिव पण्डितैः । परीक्ष्य भिक्षवो! ग्राह्यं मद्वचो न तु गौरवात् ।। - ( ) इति यदुक्तं ततोऽपि यथार्थवचनस्यैव महत्त्वप्रयोजकत्वं प्रतीयते । एतेन → રાગ છે – એવું નથી. તથા કપિલ વગેરે અન્યદર્શનપ્રણેતા ઉપર મને હૈષ પણ નથી. પરંતુ જેનું વચન યુક્તિસંગત હોય તેનો સ્વીકાર કરવો જોઈએ.” અર્થાતુ “ભગવાન મહાવીર સ્વામીનો અમે સ્વીકાર કરેલ છે તેમાં તેમના પ્રત્યેનો દૃષ્ટિરાગ વગેરે કારણ નથી, પરંતુ તેમનું યથાર્થ વચન જ કારણ છે. તેમજ કપિલ વગેરેનો અમે ત્યાગ કરેલ છે તેમાં તેમના પ્રત્યે દૃષ્ટિવેષ કારણ નથી, પરંતુ તેમના વચનની વિસંવાદિતા કારણ છે.” આવું કહેવા દ્વારા શ્રીહરિભદ્રસૂરિજીએ અવિસંવાદી = યથાર્થ વાણીના લીધે જ અરિહંત પરમાત્માની મહત્તા અભિપ્રેત છે- એવું સૂચિત કરેલ છે. (૪૩) १. मुद्रितप्रतौ 'भगवति' इति पाठः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004938
Book TitleDwatrinshada Dwatrinshika Prakran Part 1
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages478
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy