Book Title: Dwatrinshada Dwatrinshika Prakran Part 1
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
• तीर्थकरकेवलित्वादेरर्थसमाजसिद्धत्वमीमांसा
द्वात्रिंशिका -४/६
पुरुषोत्तमपदविवेचनेऽपि ललितविस्तरायां
रूपेणाऽवधारितत्वात्। तथा चार्वाग्दशायामपि स्वभावविशेषसिद्धेरपरिहार्यत्वात् । न च कालादिभेदेनाऽऽत्मनां केषाञ्चिदेव वरबोधि-तीर्थङ्करत्वादिलाभो, न तु स्वभावभेदेनेति वाच्यम्, सर्वथा योग्यताऽभेदे तदभावात् तत्सहकारिणामपि तुल्यत्वप्राप्तेः, अन्यथा योग्यताऽभेदाऽयोगात्, तदुपनिपाताऽऽक्षेपस्यापि तन्निबन्धनत्वात् । निश्चयनयमतमेतदतिसूक्ष्मबुद्धिगम्यमिति व्यक्तमुक्तं ललितविस्तरायां लोकोत्तमपदविवेचने श्रीहरिभद्रसूरिभिः । सहजतथाभव्यत्वादिभावतः प्रधानाः पुरुषोत्तमाः । तथाहि - आकालमेते परार्थव्यसनिनः, उपसर्जनीकृतस्वार्थाः, उचितक्रियावन्तः, अदीनभावाः, सफलाऽऽरम्भिणः, अदृढाऽनुशयाः, कृतज्ञतापतयः, अनुपहतचित्ता, देवगुरुबहुमानिनः, तथा गम्भीराशयाः इति । नाशुद्धमपि जात्यरत्नं समानमजात्यरत्नेन । न चैतदितरेण । तथासंस्कारयोगे सत्युत्तरकालमपि तद्भेदोपपत्तेः । न हि काचः पद्मरागीभवति, जात्यनुच्छेदेन गुणप्रकर्षभावात् ← ( ल. वि. पृ. २५) इति तैरुक्तम् । तैरेव योगबिन्दौ अपि→
२२०
·
वरबोधिसमेतो वा तीर्थकुद्यो भविष्यति । तथाभव्यत्वतोऽसौ वा बोधिसत्त्वः सतां मतः ।। सांसिद्धिकमिदं ज्ञेयं सम्यक् चित्रञ्च देहिनाम् । तथाकालादिभेदेन बीजसिद्ध्यादिभावतः ।। सर्वथा योग्यताऽभेदे तदभावोऽन्यथा भवेत् । निमित्तानामपि प्राप्तिस्तुल्या यत्तन्नियोगतः । । अन्यथा योग्यताऽभेदः सर्वथा नोपपद्यते । निमित्तोपनिपातोऽपि यत्तदाक्षेपतो ध्रुवम् ।। योग्यता चेह विज्ञेया बीजसिद्ध्याद्यपेक्षया । आत्मनः सहजा चित्रा तथाभव्यत्वमित्यतः ।। वरबोधेरपि न्यायात्सिद्धिन हेतुभेदतः । फलभेदो यतो युक्तस्तथा व्यवहितादपि ।। ← (यो.बि. २७४ -२७९) इति गदितम् ।
एतेन तीर्थकरकेवलित्वादिकं नीलघटत्वादिवदर्थसमाजसिद्धमिति तत्प्रयोजकतया न योग्यताभेदसिद्धिरिति ← प्रत्युक्तम्, कार्ये तावद्धर्मकत्वस्य योग्यताविशेषप्रयोज्यत्वात्, तत्र तथाविधसामग्रीस - माजस्य प्रयोजकत्वे तत्रापि तथाविधप्रयोजकान्तराऽऽश्रयणेऽनवस्थानात् । यदि चेयमनवस्था प्रामाणिकी न दोषाय तदाऽयं नियतधर्मककार्यनियामकस्तथाविधसामग्रीसमाज एव कथञ्चिदेकत्वेन भासमानः परिणामिभव्यत्वरूपः स्वीक्रियताम् । इत्थमपि स्याद्वादप्रक्रियया दोषाऽभावादित्यधिकमस्मत्कृतायां कल्याणकन्दल्याम् (षोडशकवृत्ति १६ / ६ ) ।।४ / ६ ।।
હોવાથી પટ ત્યાં ઉત્પન્ન થાય છે.' બસ એ જ રીતે એકેન્દ્રિય વગેરે અવસ્થામાં પણ ગુલાબ, રત્નો વગેરેમાં ઉત્પન્ન થવા દ્વારા વિશિષ્ટ પરોપકાર કરવા, સમ્યગ્દર્શન પણ જિનનામકર્મ બંધાવે તેવા અધ્યવસાયોને ખેંચી લાવે તેવું જ મેળવવું, મેરુપર્વત ઉપર જન્માભિષેક, કેવલજ્ઞાન પછી તીર્થસ્થાપના કરવી...' ઈત્યાદિ તમામ વિશિષ્ટ લોકોત્તર કાર્યો કરવાનું સૌભાગ્ય માત્ર અરિહંત પરમાત્માના જીવને જ પ્રાપ્ત થાય છે, અન્ય જીવોને નહિ. આ સૂચવે છે કે અરિહંતના જીવમાં મિથ્યાત્વાદિ અવસ્થામાં પણ વિશિષ્ટ યોગ્યતા (અર્થાત્ બીજા જીવો કરતાં વિલક્ષણતા) હતી જેના લીધે તેઓ આવું વિશિષ્ટ કાર્ય કરી શકે છે. આથી તીર્થસ્થાપનાદિ કાર્યો પણ બીજા લૌકિક દેવ-દેવી કરતાં તીર્થંકર પરમાત્માની મહત્તાને જ સૂચિત કરે છે. (૪/૬)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org