________________
१८८
• अविकल्पतथाकारविषयद्योतनम् . द्वात्रिंशिका-३/२८ 'अविकल्पतथाकाराविषयत्वेन नैतद्धर्मो मार्गः,
'कप्पाकप्पे परिनिट्ठिअस्स ठाणेसु पंचसु ठिअस्स संजमतवड्ढगस्स उ अविगप्पेण तहक्कारो ।।(आ.नि.६८८) इति वचनात् साधुवचन
ननु अविकल्पतथाकाराऽविषयत्वेन नैतद्धर्मः = न संविग्नपाक्षिकधर्मः मार्गः = योगमार्गः सम्भवति । पूर्वपक्षी आवश्यकनियुक्तिगाथां हेतुतयोपदर्शयति ‘कप्पाकप्पे' इति । इयमेव गाथा पञ्चाशके प्रवचनसारोद्धारे (आ.नि.६८८, पञ्चा.१२/१४, प्र.सारो.७६४) चाऽप्युद्धृता वर्तते । पञ्चाशके अभयदेवसूरिकृता तद्व्याख्या चैवम् → कल्पो = विधिः, आचार इत्यर्थः । अकल्पश्चाविधिः । अथवा कल्पो जिनकल्प-स्थविरकल्पादिः, अकल्पस्तु चरकादिदीक्षा । अथवा कल्प्यं = ग्राह्यं, अकल्प्यमितरत्। ततः समाहारद्वन्द्वात्कल्पाकल्पं कल्प्याकल्प्यं वा । तत्र परिनिष्ठितस्य = ज्ञाननिष्ठां प्राप्तस्य। अनेन च ज्ञानसम्पदुक्ता। तथा तिष्ठन्ति- मुमुक्षवो येषु तानि स्थानानि = महाव्रतानि तेषु । पञ्चस्विति स्वरूपविशेषणं, यतो न तान्येकादीनि भवन्ति । यत्रापि चत्वारि तान्युच्यन्ते, तत्रापि वस्तुतः पञ्चैवेति । स्थितस्याश्रित्य । अनेन च मूलगुणसम्पत्तिरुक्ता । तथा संयमः प्रत्युपेक्षोपेक्षादिः, तथा तपश्चानशनादि, ताभ्यामाढ्यः = परिपूर्णः, स एव संयमतपआढ्यकस्तस्य । अनेन चोत्तरगुणसम्पत्तिरुक्ता । तुशब्द एवकारार्थः। तस्य किमित्याह- अविकल्पेन निर्विकल्पं तदीयवचनेऽवितथत्वात् शङ्कामकुर्वाणेनेत्यर्थः । तथाकारो ‘यथा यूयं वदथ तथैवैतदि'त्यर्थसंसूचकस्तथेति शब्दप्रयोगः कार्य इति गम्यम् - (पञ्चा. १२/१४ वृत्ति) इति । श्रीसिद्धसेनसूरिकृता प्रवचनसारोद्धारवृत्तिरप्येवंप्रायैव वर्तते ।
___ आवश्यकनिर्युक्तौ मलयगिरिसूरिकृता तद्वृत्तिस्त्वेवम् → कल्पो विधिराचार इति पर्यायाः कल्पविपरीतस्त्वकल्पः जिन-स्थविरकल्पादि वा कल्पः, चरकादिदीक्षा पुनरकल्पः। कल्पश्चाकल्पश्चेति समाहारो द्वन्द्वः कल्पाकल्पं, तस्मिन् = कल्पाकल्पे परि = समन्तात् निष्ठितः परिनिष्ठितो = ज्ञाननिष्ठां प्राप्तः तस्य, तथा तिष्ठन्त्येतेषु सत्सु शाश्वते स्थाने प्राणिन इति स्थानानि = महाव्रतान्यभिधीयन्ते, तेषु स्थानेषु पञ्चसु स्थितस्य, महाव्रतयुक्तस्येत्यर्थः, संयम-तपोभ्यामाढ्यः = सम्पन्नः संयमतपआढ्यः । अनेनोत्तरगुणयुक्ततामाह । तस्य किमित्याह- अविकल्पेन = निश्चयेन तथाकारः, कर्तव्य इति क्रियाध्याहारः - इति (आव.नि.६८८ मल.वृत्ति) । एवमेव श्रीहारिभद्रीयवृत्तिः प्रायो वर्तते (आ.नि.६८८) इति वचनात् = आवश्यकनियुक्तिवचनात् → गुणसुट्टियस्स वयणं घयपरिसित्तु व्व पावओ भाइ । गुणहीणस्स न सोहइ नेहविहूणो जह पईवो ।। 6 (बृ.क.भा.२४५) इति बृहत्कल्पभाष्यवचनात्, → अप्पाणमबोहंता परं विबोहयंति केइ ते वि जडा। भण परियणम्मि छुहिए सत्तागारेण किं कज्जं ? ।। - (आ.कु.३८) इति आत्मावबोधकुलकજણાવેલ છે કે “કથ્ય અને અકથ્યમાં જે નિષ્ણાત હોય, પાંચ મહાવ્રતોમાં જે વ્યવસ્થિત હોય, સંયમ અને તપથી સમૃદ્ધ હોય તેવા મહાત્માના વચનમાં વિના વિકલ્પ તહત્તિ કરવી.” આ વચન મુજબ તો સુવિહિત ભાવસાધુનું વચન જ નિસંદિગ્ધપણે ‘તહત્તિ' કહીને સ્વીકારવા યોગ્ય સાબિત થાય છે. સંવિગ્નપાક્ષિક તો પાંચ મહાવ્રતમાં વ્યવસ્થિત ન હોવાથી અને તપ-સંયમથી સમૃદ્ધ ન હોવાથી તેમનું વચન શી રીતે નિઃશંકપણે તહત્તિ કરીને શિરોમાન્ય १. कल्पाकल्पे परिनिष्ठितस्य स्थानेषु पञ्चसु स्थितस्य । संयमतपआढ्यकस्य त्वविकल्पेन तथाकारः ।। २. मुद्रितप्रतौ 'संजमतववट्टग...' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org