SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ • संविग्नपाक्षिकाणामपि मार्गरूपता • संविग्नपाक्षिकस्याप्याचारेणाऽविसंवादिप्रवृत्तिसम्भवात् । तदुक्तं'सावज्जजोगपरिवज्जणाइ सव्वुत्तमो अ जइधम्मो । बीओ सावगधम्मो तइओ संविग्गपक्खपहो ।। ( उपदेशमाला ५१९ ) योगाख्यो मार्गः संविग्नपाक्षिकाणां नासम्भवी, मैत्र्यादिसमन्वितवृत्तादिमत्त्वेनाध्यात्मादिप्रवृत्त्यबाधात् । मोक्षमार्गताऽनाविलैव । १८७ उपदेशमालागाथामेवाह- 'सावज्जे 'त्यादि । रामविजयगणिकृता तद्वृत्तिस्त्वेवं सावद्ययोगाः सपापयोगाः तेषां परिवर्जनेन = सर्वसावद्ययोगत्यागेनेत्यर्थः सर्वोत्तमः = सर्वोत्कृष्टो यतिधर्मो भवति । स प्रथममार्गः, द्वितीयः श्रावकधर्मोऽपि मोक्षमार्गः, तृतीयः संविग्नपक्षः = संविग्नपक्षमार्गः । एते त्रयोऽपि मोक्षमार्गाः ← (उ.मा.५१९ वृ.) इति । ' तद्धेतुत्वात् तावपि मोक्षमार्गी' (उ.मा. ५१९) इति हेयोपादेयावृत्ती सिद्धर्षिगणिवराः । 'दो चेव' (उप.मा.४९१) इत्यत्रापि 'अपि' शब्दसूचितः संविग्नपाक्षिकलक्षणः तृतीयमार्गो बोध्य इति हेयोपादेयावृत्तिकाराः सिद्धर्षिगणिवरा दोघट्टीटीकाकाराः श्रीरत्नप्रभसूरयो रामविजयगणिवराश्चाहुः । वस्तुतस्तु तीर्थङ्करैस्तीर्थस्थापनाऽवसरे सुश्रावक - सुसाधुलक्षणौ द्वावेव मुख्यौ मोक्षमार्गी देशितौ, त्यक्तगृहवासस्य शुद्धयतिधर्मपालनाऽसमर्थस्य लिङ्गधारणाऽत्यन्तरक्ततया सथूकतया च लिङ्गत्यागेन संसारकान्तारप्रवेशोद्विग्नस्य सुसाधुमार्गोपबृंहकस्य संविग्नपाक्षिकस्य मार्गत्वोक्तिरापवादिक्येवेत्यस्माकमाभाति । योगाख्यो मार्गः संविग्नपाक्षिकाणां नासम्भवी, मैत्र्यादिसमन्वितवृत्तादिमत्त्वेन अध्यात्मादिप्रवृत्त्यबा - धात् । अध्यात्मलक्षणं तु योगबिन्दो औचित्याद् वृत्तयुक्तस्य वचनात् तत्त्वचिन्तनम् । मैत्र्यादिसारमत्यन्तमध्यात्मं तद्विदो विदुः ।। ← (यो . बि . ३५८ ) इत्थमुक्तम् । इदञ्चाग्रे योगभेदद्वात्रिंशिकायां (भा.४/पृ.१२२२) भावयिष्यते । प्रकृतोपयोगिनी नयभेदेनाध्यात्ममीमांसा त्वस्मत्कृतायां अध्यात्मवैशारद्यां ज्ञातव्या । कारणे कार्योपचाराद् व्यवहारनयमतेन अपुनर्बन्धकस्याप्ययमध्यात्मयोगः तात्त्विक एव किं पुनः संविग्नपाक्षिकस्य। तदुक्तं योगबिन्दी अपुनर्बन्धकस्यायं व्यवहारेण तात्त्विकः अध्यात्मभावनारूपः ← (यो.बि.३६९) इति । यथा चैतत् तथा भावयिष्यते योगभेदद्वात्रिंशिकायाम् (भा.५, पृ.१२९६) । १. सावद्ययोगपरिवर्जनातः सर्वोत्तमश्च यतिधर्मः । द्वितीयः श्रावकधर्मस्तृतीयः संविग्नपक्षपथः । Jain Education International For Private & Personal Use Only = સંવિગ્નપાક્ષિકને પણ પોતાના આચારથી અવિસંવાદી પ્રવૃત્તિ સંભવે છે. (અર્થાત્ સાધુ અને શ્રાવક પોતાના શાસ્ત્રોક્ત આચાર દ્વારા અવિસંવાદીપ્રવૃત્તિવાળા હોવાથી મોક્ષમાર્ગમાં છે તેમ સંવિગ્નપાક્ષિક પણ ઉપદેશમાલા વગેરે શાસ્ત્રોમાં જણાવેલ પોતાના આચાર દ્વારા સંવાદીપ્રવૃત્તિવાળા હોવાથી મોક્ષમાર્ગમાં જ છે.) ઉપદેશમાલા શાસ્ત્રમાં જણાવેલ છે કે ‘સર્વ સાવઘ પ્રવૃત્તિ-વૃત્તિ-વાણીના ત્યાગના લીધે સાધુધર્મ સર્વોત્તમ માર્ગ છે. શ્રાવક ધર્મ એ બીજો માર્ગ છે. સંવિગ્નપાક્ષિક એ ત્રીજો માર્ગ છે.’ સંવિગ્નપાક્ષિક જીવોમાં યોગમાર્ગ અસંભવિત નથી. કારણ કે તેઓ મૈત્રી વગેરે ભાવનાઓથી વણાયેલી પ્રરૂપણાદિ પ્રવૃત્તિવાળા હોવાથી તેમનામાં અધ્યાત્મ, ભાવના વગેરે યોગની પ્રવૃત્તિ બાધિત થતી નથી. શંકા : → વિના વિકલ્પે સંવિગ્નપાક્ષિકનું વચન તહત્તિનો વિષય ન બનવાથી સંવિગ્નપાક્ષિકનો ધર્મ = આચાર-દેશના-યતના વગેરે યોગ એ માર્ગ બની ન શકે. કારણ કે આવશ્યકનિયુક્તિમાં શ્રીભદ્રબાહુ સ્વામીજીએ www.jainelibrary.org
SR No.004938
Book TitleDwatrinshada Dwatrinshika Prakran Part 1
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages478
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy