________________
१८६ • तृतीयमार्गसिद्धिः .
द्वात्रिंशिका-३/२८ __असंयत इति । असंयते संयतत्वं मन्यमाने च पापता भणिता, 'असंजए संजयलप्पमाणे पावसमणुत्ति वुच्चइ' (उत्तरा.१७/६) त्ति पापश्रमणीयाध्ययनपाठात्, असंयते यथावस्थितवक्तरि पापत्वानुक्तेः । तेन कारणेन अयं = संविग्नपक्षरूपस्तृतीयोऽपि मार्गोऽवशिष्यते, साधुश्राद्धयोरिव संविग्नसाधुपक्षे एव समावेश उचितः, संविग्नपाक्षिकलक्षणस्य तृतीयस्य मोक्षमार्गस्याऽनुपदेशादित्याशङ्कायामाह- 'असंयते' इति । 'असंजए' इति । उत्तराध्ययने सम्पूर्णा कारिका त्वेवम् - 'संमद्दमाणे पाणाणि बीयाणि हरियाणि य। असंजए संजय मन्नमाने पावसमणे त्ति वुच्चइ ।।' (उत्त.१७/६) इति । श्रीशान्तिसूरिकृता तद्वृत्तिस्त्वेवम् → संमर्दन् = हिंसन् ‘प्राणानि ति प्राणयोगात् प्राणिनः = द्वीन्द्रियान् बीजानि = शाल्यादीनि ‘हरितानि' च दूर्वाङ्कुरादीनि, सकलैकेन्द्रियोपलक्षणमेतत्, स्पष्टतरचैतन्यलिङ्गत्वाच्चैतदुपादानम्, अत एवासंयतस्तथाऽपि ‘संजय मन्नमाणे'त्ति सोपस्कारत्वात्संयतोऽहमिति मन्यमानः, अनेन च संविग्नपाक्षिकत्वमप्यस्य नास्तीत्युक्तं, पापश्रमण इत्युच्यते ( (उत्त.१७/६ वृ.) इति । ___ स चरमकालेऽपि विरतिपरिणामं नाप्नोति । यथोक्तं पञ्चवस्तुके → जो पुण किलिट्ठचित्तो णिरविक्खोऽणत्थदंडपडिबद्धो । लिंगोवघायकारी ण लहइ सो चरमकालेऽवि ।। - (पञ्चव.१६८३) इति। स च दीर्घसंसारी अवगन्तव्यः । तदुक्तं निशीथभाष्ये → जत्तो चुतो विहारा तं चेव पसंसए सुलभबोही। ओसण्णविहारं पुण पसंसए दीहसंसारी ।। 6 (नि.भा. ५४४९) इति ।।
__ असंयते = शिथिलचारित्रे सत्यपि यथावस्थितवक्तरि = शुद्धमोक्षमार्गप्ररूपके पापत्वानुक्तेः = पापश्रमणत्वानुक्तत्वात् संविग्नपाक्षिकस्य पापश्रमणत्वं वक्तुं नैवोचितम् । पापश्रमणानान्तु मार्गबहिर्भाव एव, संविग्नपाक्षिकस्य तु मार्गरूपतैव, उपजीव्यविरोधाऽसम्भवन्यायेन शुद्धमार्गाऽपलापकारित्वस्याऽसम्भवात् । न च तस्य श्रावकता सम्भवति, संसारवासपरित्यागात् । न च संविग्नसाधुताऽपि सम्भवति, शिथिलसंयमत्वात् । तेन कारणेन संविग्नपक्षरूपः तृतीयोऽपि मार्गः = मोक्षमार्गः अवशिष्यते = पारिशेषन्यायेन सिध्यति । 'होज्ज उ वसणपत्तो' (नि.भा.५४३५,द.शु.९५) इत्यादिना पूर्वोक्तरीत्या(पृ.१७१,१८४) दर्शनशुद्धिप्रकरणे निशीथभाष्येऽपि तृतीयो मार्ग उक्त एव । तदुक्तं गच्छाचारप्रकीर्णकेऽपि → सुद्धं सुसाहुमग्गं कहमाणे ठवइ तइयपक्खम्मि । अप्पाणं इयरो पुण गिहत्थधम्माउ चुक्कति ।। ८ (गच्छा.प्रकी.३२) इति । साधु-श्राद्धयोरिवेति। यथाऽऽचाराङ्गादिदर्शितस्वकीयसाध्वाचारेणाऽविसंवादिप्रवृत्तिमत्त्वात् साधोर्मोक्षमार्गता, श्रावकप्रज्ञप्त्याधुपदर्शितश्रावकाचारेणाऽविसंवादिप्रवृत्तिमत्त्वाच्च श्रावकस्य मोक्षमार्गता तथा संविग्नपाक्षिकस्यापि उपदेशमालादिप्रदर्शितेन आचारेण = संविग्नपाक्षिकाऽऽचारेण अविसंवादिप्रवृत्तिसम्भवात्
तृतीय भा[ = संविग्नपाक्षिs . ટીકાર્ય :- ઉત્તરાધ્યયનસૂત્રના ૧૭ મા પાપશ્રમણીય અધ્યયનમાં જણાવેલ છે કે “અસાધુને “સાધુ તરીકે જે બોલાવે છે તે પાપશ્રમણ કહેવાય છે.” ત્યાં અસંયતને જે અસંયત = અસાધુ કહે છે તેને પાપશ્રમણ તરીકે જણાવેલ નથી. આનાથી ફલિત થાય છે કે અસાધુને સાધુ કહેવું એ પાપ છે. સંવિગ્નપાક્ષિક સંયત ન હોવાથી તેને સંયત કહેવામાં પાપ હોવાથી તેમ જ ગૃહસ્થવેશ ન હોવાથી તેને ગૃહસ્થ પણ કહેવું શક્ય ન હોવાથી સંવિગ્નપાક્ષિકરૂપ ત્રીજો પક્ષ = માર્ગ પણ બાકી રહે છે. આમ પારિશેષન્યાયથી સંવિગ્નપક્ષસ્વરૂપ તૃતીય ધર્મમાર્ગ ફલિત થાય છે, કારણ કે સાધુ અને શ્રાવકની જેમ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org