________________
• स्वयमतीर्णस्यान्यनिस्तारकत्वाऽसम्भवविचारः
१८९
एवाविकल्पेन तथाकारश्रवणादिति चेत् ? न एतद्वचनबलादन्यत्र लभ्यमानस्य विकल्पस्य व्यववचनात्, → स्वयं तर्तुं न जानाति परं निस्तारयेत् कथम् ? ← (स्कन्दपुराण- उत्तरखण्ड-गु.गी. १७४) इति गुरुगीतावचनात् श्रुत्युक्ताऽखिलविद्यानां निपुणोऽपि निरूपणे । स्वाचाररहितो मूर्ख इति निश्चिनु मारुते !।। ← (रा.गी.१७/६०) इति रामगीतावचनात् न हि स्वयमप्रतिष्ठितोऽन्यस्य प्रतिष्ठां कर्तुं समर्थः ← (यजु.उ.भा.१/१७ ) इति यजुर्वेदीयोव्वटभाष्यवचनात् जो सगिहं तु पलित्तं अलसो न वि विज्झवे पमाएणं । सो किह सद्दहियव्वो परघरडाहप्पसमणम्मि ? ।। ← ( आ.प. १२० ) इति आराधनापताकाप्रकीर्णकवचनात् जो सघरं पि पलित्तं निच्छइ विज्झाविउं पमाएणं । कह सो सद्दहियव्वो परघरदाहं पसामेउं ? | ← ( आ.प. १८२ ) इति वीरभद्रसूरिकृताराधनापताकाप्रकीर्णकवचनात् → जो सगिहं तु पलित्तं अलसो तु न विज्झवे पमाएणं । सो नवि सद्दहियव्वो परघरदाहपसमणम्मि ।। ← (पं.क.भा. १३९३) इति पञ्चकल्पभाष्यवचनात् आयारे वट्टंतो आयारपरूवणा असंकेउं । आयारपरिब्भट्ठो सुद्धचरणदेसणे भइतो ।। ← ( आ.नि. ३/३१९) इति व्यवहारभाष्यवचनाच्च साधुवचन एव = आचार-सम्पन्नगीतार्थसाधुवचने एव अविकल्पेन = निर्विकल्पं तथाकारश्रवणात् ।
प्रकृते सो वत चुन्द ! अत्तना पलिपपलिपन्नो परं पलिपपलिपन्नं उद्धरिस्सती ती नेतं ठानं विज्जति। सो वत, चुन्द ! अत्तना अपलिपपलिपन्नो परं पलिपपलिपन्नं उद्धरिस्सती' ती ठानमेतं विज्जति ← (म.नि. सल्लेखसूत्र - १ १ १८ १८७ ) इति मज्झिमनिकायोक्तिरपि साक्षिणी वर्तते । 'पलिपपलिपन्नो' पञ्चकामगुणप्रतिपन्नः । शिष्टं स्पष्टम् । यदर्थं प्रव्रज्या गृहीता तमननुपाल्य श्रावकाणामुपदेशदानपरस्य कुगुरोः श्रावकैः नोदनीयता सुगतस्याऽप्यभिप्रेता । तदुक्तं दीघनिकाये इधेकच्चो सत्था यस्सत्थाय अगारस्मा अनगारियं पब्बजितो होति, स्वास्स सामञ्ञत्थो अननुप्पत्तो होति । सो तं सामञ्ञत्थं अननुपापुणित्वा सावकानं धम्मं देसेति- “ इदं वो सुखाया "ति । तस्स सावका सूस्सूसन्ति, सोतं ओदहन्ति, अञ्ञ चित्तं उपट्ठन्ति न च वोक्कम्म सत्थुसासना वत्तन्ति । सो एवमस्स चोदेतब्बो- “ आयस्मा खो यस्सत्थाय अगारस्मा अनगारियं पब्बजितो, सो ते सामञ्ञत्थो अननुप्पत्तो । तं त्वं सामञ्ञत्थं अननुपापुणित्वा सावका सुस्सूसन्ति, सोतं ओदहन्ति, अञ्ञा चित्तं उपट्टपेन्ति, न च वोक्कम्म सत्थुसासना वत्तन्ति । सेय्यथापि नाम सकं खेत्तं ओहाय परं खेत्तं निद्दायितब्बं मञ्जेय्य ← ( दी. नि. १ ।१।५१४पृ. २१० ) इति । सत्था = शास्ता, गुरुरिति यावत्, सामञ्जत्थो श्रामण्यार्थः, श्रामण्यप्रयोजनमिति यावत्, अननुप्पत्तो अननुप्राप्तः, अननुपापुणित्वा अननुप्राप्य, सोतं श्रोत्रं, ओदहन्ति अवगृह्णन्ति, अञ्ञा = अन्यतः, उपट्ठपेन्ति = उपस्थापयन्ति धर्मश्रवणे इति गम्यते, वोक्कम्म सत्थुसासना = शास्तृशासनात्, सकं स्वकं, ओहाय = अपहाय, शिष्टं स्पष्टम् ।
व्युत्क्रम्य,
उष्ट्रलगुडप्रहारन्यायेन ग्रन्थकृद् उत्तरपक्षयति ' ने 'ति । यथोष्ट्रेणोह्यमानैरेव लगुडैः तत्प्रहारः क्रियते तथा प्रतिवाद्युपन्यस्तवचनेनैव तन्मतं प्रहियत इति भावः । तथाहि एतद्वचनबलात् = प्रकृतावश्यकनिर्युक्तिवचनसामर्थ्यात् अन्यत्र = सुसाधुभिन्नवचने लभ्यमानस्य विकल्पस्य व्यवस्थितत्वेन व्याख्यानात् । કરી શકાય ? અને તેવું ન હોય તો તેમની પ્રરૂપણા-યતના-આચરણ વગેરે ધર્મો યોગમાર્ગ કઈ રીતે બની શકે ? – * સંવિગ્નપાક્ષિક્વચન આદરણીય
સમાધાન :- પરંતુ આ શંકા વ્યાજબી નથી. આનું કારણ એ છે કે આવશ્યકનિર્યુક્તિના ઉપરોક્ત
For Private & Personal Use Only
www.jainelibrary.org
=
Jain Education International
=
=
=
=
=
=
=