________________
१९०
• संविग्नपाक्षिकस्याऽविकल्पतथाकारविषयता • द्वात्रिंशिका-३/२८ स्थितत्वेन व्याख्यानात्।
व्यवस्था चेयं-संविग्नपाक्षिकस्य वचनेऽविकल्पेनैव तथाकारोऽन्यस्य तु विकल्पेनैवेति। विवेचितं चेदं सामाचारीप्रकरणेऽस्माभिः (गाथा ३२) ॥२८॥ तदुक्तं पञ्चाशके → इयरम्मि विगप्पेणं जं जुत्तिखमं तहिं ण सेसम्मि । संविग्गपक्खिए वा गीए सव्वत्थ इयरे ण ।। - (पञ्चा.१२/१६) इति । एतद्व्याख्या चैवम् → इतरस्मिन् कल्पाऽकल्पपरिनिष्ठितादिविशेषणविशिष्टादन्यस्मिन् गुरौ प्रज्ञापयति सति विकल्पेन = भजनया तथाकारः कार्य इति प्रक्रमः । तामेव भजनां दर्शयति यद्वस्तु युक्तिक्षम = उपपत्तिसहं तेन प्रज्ञापितं तस्मिन् वस्तुनि तथाकारो विधेयः, न शेषेऽयुक्तिक्षमे । इहैव प्रकारान्तरमाह- संविग्नाः = संवेगवन्तः सुसाधवस्तेषां पाक्षिकः → “सुद्धं सुसाहुधम्मं कहेइ निंदइ य निययमाचारं । सुतवस्सियाण पुरओ हवइ य सव्वोमरायणिओ।। (उपदेशमाला-५१५) इत्यादिलक्षणलक्षितः पार्थस्थादिः तस्मिन् । वाशब्दः प्रकारान्तरे द्योतनार्थः। गीते = पदेऽपि पदसमुदायोपचाराद् गीतार्थे विषयभूते । तदन्यस्य त्वज्ञान(?नि)त्वेन वचनवैतथ्यसम्भवात् । सर्वत्र वस्तुनि युक्तिक्षमे तदक्षमे वा तेनोच्यमाने । इतरेणोत्सर्गापेक्षयान्येनापवादेनेत्यर्थः । अथवा 'इयरे त्ति' इतरस्मिन्नगीतार्थे । न = नैव तथाकारः कार्य इति प्रक्रमः - (पञ्चा.१२/१६ वृत्ति) इति ।
न चाऽसत्क्रियत्वेन संविग्नपाक्षिके वितथोपदेशसम्भवान्न निर्विकल्पं तथाकार उचित इति शङ्कनीयम्, संविग्नस्येव मध्यस्थतया संविग्नपाक्षिकस्य उपजीव्यविरोधाऽयोगन्यायेन वितथोपदेशाऽसम्भवात् । प्रकृतव्यवस्था पञ्चकल्पभाष्ये → कप्पाऽकप्पविहिण्णू सुत्तत्थविसारदा सुतरहस्सा । जे चरणजुत्ता ते सुद्धणयाण तु पमाणं ।। कप्पाऽकप्पविहिण्णू सुत्तत्थविसारदा सुतरहस्सा । जे चरण-करणहीणा ते सुद्धणयाण भइयव्वा ।। नेतव्वा खलु कज्जा असती चरणट्ठियाण थेराणं । हीणो वि सुयसमिद्धो मज्झत्थो होति तु पमाणं ।।
6 (पं.क.भा.२६३७,२६३८,२६४०) इत्थं स्पष्टीकृता । ततश्च संविग्नपाक्षिकवचनस्याऽविकल्पतथाकारविषयत्वं सिध्यति, अन्यथा संविग्नपाक्षिकत्वहानिप्रसङ्गादिति पूर्वमुक्तमेव (द्वा.द्वा.१/१९ पृ.४१) पञ्चाशकसंवादोपदर्शनद्वारेति न विस्मर्तव्यम् । अत्रोत्सर्गाऽपवादव्यवस्था त्वेवम्- कल्पाऽकल्पपरिनिष्ठितादिविशिष्टस्य वचनेऽविकल्पेन = निश्चयेन तथाकारः कार्य इत्युत्सर्गः । अपवादतस्तु कल्पाकल्पपरिनिष्ठितादिविशेषणविशिष्टवक्तभावे संविग्नपाक्षिकेण गीतार्थेन प्रज्ञापिते युक्तिक्षमे तदक्षमे वोच्यमाने तथाकारः कार्यः । तदन्यस्मिन्नसंविग्नगीतार्थे संविग्नाऽगीतार्थेऽसंविग्नाऽगीतार्थे च वक्तरि सति युक्तिक्षमे वस्तुनि तथाशब्दः प्रयोज्यो न त्वयुक्तिक्षम इति (ध.सं.भा-३/गा.१०४-अधि.३) व्यक्तं धर्मसङ्ग्रहवृत्तौ । विवेचितञ्चेदं यथावस्थितं तत्त्वं विस्तरतो मतभेदप्रदर्शनपुरस्सरं सामाचारीप्रकरणे → इयरम्मि विगप्पेणं વચનના આધારે જ વિકલ્પ પણ વ્યવસ્થારૂપે સૂચિત છે, માત્ર “ભજના' અર્થમાં નહિ. તે વ્યવસ્થા પ્રસ્તુતમાં એ જાણવી કે – સંવિગ્ન અને સંવિગ્નપાક્ષિકના વચનમાં નિઃશંકપણે તહત્તિ કરવી અને જે સંવિગ્ન કે સંવિગ્નપાક્ષિક ના હોય તેમના વચનમાં વિચારીને તહત્તિ = સ્વીકાર કરવો. આ બાબતની છણાવટ ગ્રન્થકારશ્રીએ સામાચારીપ્રકરણમાં ૩૨ મી ગાથામાં કરેલ છે. (૩/૨૮). १. हस्तादर्श 'विकल्पेनेवे...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org