________________
१०४
• मिथ्यानयसमूहस्य सम्यक्त्वोपदर्शनम् •
द्वात्रिंशिका - २/१४
अत एवान्यत्रार्ण्यविसंवादिनोऽर्थस्य दृष्टिवादमूलकत्वात्तन्निराकरणे दृष्टिवादस्यैव तत्त्वतो
निराकरणमिति व्यक्तमुपदेशपदे || १४ ||
सम्यग्ज्ञानत्वमविरुद्धम् । तदुक्तं बृहद्द्रव्यसङ्ग्रहे दुरभिणिवेसविमुक्कं णाणं सम्मं खु ← (बृ.द्र. सं.४१) इति । युक्ततरञ्चैतद्, दृष्टप्रमाण-नयस्वरूपसिद्धान्तसद्भावो हि विद्वान् सर्वमेव स्वपरतन्त्रोक्तमर्थं स्थानाऽविरोधेन प्रतिपद्यते, न तु तत्रैकान्तेन विप्रतिपद्यते इति । तदुक्तं सम्मतितर्के निययवयणिज्जसच्चा सव्वणया परवियालणे मोहा । ते पुण अदिट्ठसमओ विभयइ सच्चे व अलिए व त्ति ।। ← (सं.त. १ /२८) इति। अत एव = स्वकीयतन्त्रोक्तस्य परकीयतन्त्रोक्तस्य वा न्यायबलाऽऽयातस्यार्थस्य समर्थनसामर्थ्यतुल्यत्वे एव माध्यस्थ्यस्य सम्भवात् अन्यत्रापि = परदर्शनेऽपि दर्शितस्य अविसंवादिनः = युक्तिसङ्गतस्य अर्थस्य दृष्टिवादमूलकत्वात्; सर्वस्यापि सद्वचनस्य परसमयेऽपि स्वसमयाऽनन्यत्वात् । तदुक्तं धर्मबिन्दुवृत्तौ तीर्थान्तरीयेषु रागादिमत्स्वपि घुणाक्षरोत्किरणव्यवहारेण क्वचित्किञ्चिदविरुद्धमपि वचनमुपलभ्यते मार्गानुसारिबुद्धौ वा प्राणिनि क्वचित्तदपि जिनप्रणीतमेव, तन्मूलत्वात्तस्येति ← (ध. बि. १ / ३ गा. वृत्ति) ।
युक्तञ्चैतत्, सापेक्षसर्वनयसमूहस्यैव स्वसमयत्वात् । तदुक्तं विशेषावश्यकभाष्ये मिच्छत्तमयसमूहं सम्मत्तं ← (वि.आ.भा. ९५४) । अतः तन्निराकरणे = परदर्शनगतसद्वचनस्य तदर्थस्य वा निराकृतौ दृष्टिवादस्यैव = स्वसमयस्यैव तत्त्वतः = परमार्थमाश्रित्य निराकरणमिति व्यक्तं उपदेशपदे जं अत्थओ अभिण्णं अण्णत्था सद्दओऽवि तह चेव । तम्मि पओसो मोहो विसेसओ जिणमयठियाणं । । सव्वप्पवायमूलं दुवालसंगं जओ समक्खायं । रयणागरतुल्लं खलु तो सव्वं सुंदरं तम्मि ।। ← (उप.प.६९३/६९४) इत्यत्र कारिकयोः । परसमयवर्तिनामपि मार्गानुसारिणां सत्यतत्त्वरक्षणपरतयैकान्तो न शोभते परदर्शनसिद्धान्तनिराकरणे, किम्पुनः स्याद्वादिनाम् ?
प्रकृते सच्चमनुरक्खता भारद्वाज ! विञ्जुना पुरिसेन नालमेत्थ एकंसेन निट्टं गन्तुं - इदमेव सच्चं मोघमञ्जं”ति ← (म.नि. २/५/ ५ / ४२८, पृ. ३८९) मज्झिमनिकायवचनमपि यथागममनुयोज्यं स्वपरसमयपरमार्थप्रवीणैः । 'जयइ सुआणं पभवो' (नं.सू.२) इति नन्दिसूत्रस्य वृत्तौ श्रीमलयगिरिसूरिभिरपि परदर्शनशास्त्रेष्वपि हि यः कश्चित्समीचीनोऽर्थः संसारासारता - स्वर्गापवर्गादिप्राप्तिहेतुः प्राण्यहिंसादिरूपः स भगवत्प्रणीतशास्त्रेभ्य एव समुद्धृतो वेदितव्यः । न खल्वतीन्द्रियार्थपरिज्ञानमन्तरेणातीन्द्रियः प्रमाणाबाधितोऽर्थः पुरुषमात्रेणोपदेष्टुं शक्यते, अविषयत्वात् ← (नं.सू.वृ. पृ. १५) इत्युक्तम् । श्रीसिद्धસમાનરૂપે હોવા સ્વરૂપ માધ્યસ્થ્યપૂર્વકનો ચિંતાયોગ તેની પાસે હોય છે. (મતલબ કે પ્રત્યક્ષ વગેરે પ્રમાણથી અવિરૂદ્ધ, યુક્તિસંગત, તેમ જ શિષ્ટ પુરુષને માન્ય એવો પદાર્થ ચાહે સ્વદર્શનમાં બતાવેલો હોય કે ચાહે પરદર્શનમાં બતાવેલો હોય પરંતુ તે બન્નેનું સમર્થન સમાનરૂપે કરવાનું સામર્થ્ય ચિંતાજ્ઞાનવાળા પાસે હોય છે. તેથી જ તેને સ્વદર્શનનો આગ્રહ કે પરદર્શનનો દ્વેષ હોતો નથી.) માટે જ અન્યદર્શનમાં પણ કહેલા અવિસંવાદી પદાર્થો દૃષ્ટિવાદમૂલક = દ્વાદશાંગીમૂલક = જૈનાગમમૂલક કહેવામાં આવે છે. માટે ‘જૈનાગમમૂલક અન્યદર્શનમાં કહેલા પદાર્થોના અપલાપમાં તો વાસ્તવમાં દૃષ્ટિવાદનો = જૈનાગમનો अपसाथ थाय' - खावुं उपदेशपध्मां स्पष्ट भगावेस छे. (२/१४)
१. हस्तादर्शे 'प्यविसंवादि' इति पाठो नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org