Book Title: Dwatrinshada Dwatrinshika Prakran Part 1
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 342
________________ • अन्वाचयस्वरूपाऽऽख्यानम् ये त्वति । ये तु स्वकर्मदोषेण = वीर्यान्तरायोदयलक्षणेन प्रमाद्यन्तोऽपि = क्रियास्ववसीदन्तोऽपि धार्मिकाः : = धर्मनिरताः संविग्नपाक्षिकाः = संविग्नपक्ष' कृतः तेऽपि मार्गस्यान्वाचयो भावसाध्वपेक्षया पृष्ठलग्नतालक्षणस्तेन शालन्त इत्येवंशीलाः (= मार्गान्वाचयशालिनः) । तदुक्तं- 'लब्भिहिसि तेण पहं ति' (उप. माला. ५२२ ) ।।२१।। फलान्युक्त्वाऽधुना संविग्नपाक्षिकमधिकृत्याह- 'य' इति । ये तु संघयणाभावा उच्छाहो न भवति ← (द.श्रु.चू. पृष्ठ-३) इति दशाश्रुतस्कन्धचूर्णिवचनस्य तात्त्विकविषयीभूततया केवलं वीर्यान्तरायोदयलक्षणेन, न तु मोहोदयलक्षणेन, क्रियासु = चारित्राद्याचारेषु अवसीदन्तोऽपि धर्मनिरताः चारित्रधर्मश्रद्धान्विताः । अन्वाचयः = भावसाध्वपेक्षया पृष्ठलग्नतालक्षण इति । → 'अन्वाचयः = मुख्यासिद्धावप्रधाननिष्पत्तिः' ← सर्वतन्त्रसिद्धान्तपदार्थलक्षणसङ्ग्रहवचनात् प्रकृते वीर्यान्तरायोदयेन मुख्यसंविग्नत्वाऽसिद्धौ संविग्नसाधुपक्षपातस्य गौणस्य निष्पत्तेः संविग्नपाक्षिकाणां मोक्षमार्गान्वाचयशालित्वमव्याहतम् । प्रकृते उपदेशमालासंवादमाह - 'लब्भिहिसि' इत्यादि । सम्पूर्णा गाथा त्वेवम् - 'अच्चणुरत्तो जो पुण न मुअइ बहुसोऽवि पन्नविज्जंतो । संविग्गपक्खिअत्तं करिज्ज लब्भिहिसि तेण पहं ।।” (उप.मा.५२२) इति । रत्नप्रभसूरिकृता तद्वृत्तिस्त्वेवम् “ यः पुनर्लिङ्गधारणेऽत्यन्तानुरक्तो मनाक् सशूकश्च गुण-दोषकथनेन बहुशो गीतार्थैः प्रज्ञाप्यमानोऽपि न मुञ्चति द्रव्यलिङ्गं स संविग्नपाक्षिकत्वमनन्तरोक्तलक्षणं कुर्यादित्युपदेशः । यतोऽसौ तेन क्रियमाणेन लप्स्यते पथं ज्ञानादिमोक्षमार्गमि”ति । = → दीघो बालान संसारो पुनप्पुनं च रोदनं ← (थेरी. १६/१/४९७ ) इति थेरीगाथावचनं तु वक्ष्यमाण(पृ.१८३)द्वितीयबालतान्वितजीवापेक्षयाऽवगन्तव्यम्, न तु प्रथमबालतोपेतं संविग्नपाक्षिकमधिकृत्य । न हि संविग्नपाक्षिकः मार्गं पुष्टः सन् ' आम्रान् पृष्टः कोविदारानाचष्टे' इति न्यायेन स्वदोषनिह्नव-परदोषोद्भावनादिकं कुरुते कदापि । अत एवोक्तं पञ्चवस्तुकेऽपि संविग्गपक्खिओ पुण अण्णत्थ पयट्टिओऽवि काएणं । धम्मे चिअ तल्लिच्छो दढरतित्थिव्व पुरिसम्मि ।। तत्तो च्चिअ सुहभावाओ णिमित्तभूअंमि चरमकालम्मि । उक्करिसविसेसेणं कोई विरइंपि पावेइ ।। ← (पञ्च. १६८१-८२) इति । अत एव तीर्थोद्गालीप्रकीर्णके अपि जिणसासणभत्तिगतो वरतरमिह सीलविप्पहूणो वि । न य नियमपरो वि जणो जिणसासणबाहिरमतीओ ।। ← (ती.प्र. १२१४) इत्युक्तम् । यथोक्तं निशीथभाष्येऽपि होज्ज उ वसणपत्तो सरीरदोब्बलताए असमत्थो । चरण - करणे असुद्धे सुद्धं मग्गं परूवेज्जा ।। ♦ સંવિગ્નપાક્ષિક મીમાંસા # ટીકાર્થ ઃ- વીર્યાન્તરાય કર્મના ઉદયથી ચારિત્રની ક્રિયાઓમાં-આચારોમાં શિથિલ બનવા છતાં પણ ચારિત્રધર્મમાં લીન-શ્રદ્ધાશીલ એવા જે સાધુઓ સંવિગ્નસાધુના પક્ષમાં મતમાં બહુમાનવાળા થઈને રહે છે એટલે કે સંવિગ્નપાક્ષિક બને છે તેઓ પણ ભાવસાધુની પાછળ ચાલવાથી (= અન્વાચયથી), આચારમાર્ગમાં ભાવસાધુને આગળ કરવાથી શોભે છે. ઉપદેશમાલા ગ્રન્થમાં પણ સંવિગ્નપાક્ષિકને ઉદ્દેશીને જણાવેલ છે કે → ‘સંવિગ્નપાક્ષિકપણાથી મોક્ષમાર્ગને પામી શકશે.’ (૩/૨૧) १. मुद्रितप्रतौ 'पक्षीकृत:' इति पाठः । Jain Education International For Private & Personal Use Only = = १७१ www.jainelibrary.org

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478