________________
• अन्वाचयस्वरूपाऽऽख्यानम्
ये त्वति । ये तु स्वकर्मदोषेण = वीर्यान्तरायोदयलक्षणेन प्रमाद्यन्तोऽपि = क्रियास्ववसीदन्तोऽपि धार्मिकाः : = धर्मनिरताः संविग्नपाक्षिकाः = संविग्नपक्ष' कृतः तेऽपि मार्गस्यान्वाचयो भावसाध्वपेक्षया पृष्ठलग्नतालक्षणस्तेन शालन्त इत्येवंशीलाः (= मार्गान्वाचयशालिनः) । तदुक्तं- 'लब्भिहिसि तेण पहं ति' (उप. माला. ५२२ ) ।।२१।। फलान्युक्त्वाऽधुना संविग्नपाक्षिकमधिकृत्याह- 'य' इति । ये तु संघयणाभावा उच्छाहो न भवति ← (द.श्रु.चू. पृष्ठ-३) इति दशाश्रुतस्कन्धचूर्णिवचनस्य तात्त्विकविषयीभूततया केवलं वीर्यान्तरायोदयलक्षणेन, न तु मोहोदयलक्षणेन, क्रियासु = चारित्राद्याचारेषु अवसीदन्तोऽपि धर्मनिरताः चारित्रधर्मश्रद्धान्विताः । अन्वाचयः = भावसाध्वपेक्षया पृष्ठलग्नतालक्षण इति । → 'अन्वाचयः = मुख्यासिद्धावप्रधाननिष्पत्तिः' ← सर्वतन्त्रसिद्धान्तपदार्थलक्षणसङ्ग्रहवचनात् प्रकृते वीर्यान्तरायोदयेन मुख्यसंविग्नत्वाऽसिद्धौ संविग्नसाधुपक्षपातस्य गौणस्य निष्पत्तेः संविग्नपाक्षिकाणां मोक्षमार्गान्वाचयशालित्वमव्याहतम् । प्रकृते उपदेशमालासंवादमाह - 'लब्भिहिसि' इत्यादि । सम्पूर्णा गाथा त्वेवम् - 'अच्चणुरत्तो जो पुण न मुअइ बहुसोऽवि पन्नविज्जंतो । संविग्गपक्खिअत्तं करिज्ज लब्भिहिसि तेण पहं ।।” (उप.मा.५२२) इति । रत्नप्रभसूरिकृता तद्वृत्तिस्त्वेवम् “ यः पुनर्लिङ्गधारणेऽत्यन्तानुरक्तो मनाक् सशूकश्च गुण-दोषकथनेन बहुशो गीतार्थैः प्रज्ञाप्यमानोऽपि न मुञ्चति द्रव्यलिङ्गं स संविग्नपाक्षिकत्वमनन्तरोक्तलक्षणं कुर्यादित्युपदेशः । यतोऽसौ तेन क्रियमाणेन लप्स्यते पथं ज्ञानादिमोक्षमार्गमि”ति ।
=
→ दीघो बालान संसारो पुनप्पुनं च रोदनं ← (थेरी. १६/१/४९७ ) इति थेरीगाथावचनं तु वक्ष्यमाण(पृ.१८३)द्वितीयबालतान्वितजीवापेक्षयाऽवगन्तव्यम्, न तु प्रथमबालतोपेतं संविग्नपाक्षिकमधिकृत्य । न हि संविग्नपाक्षिकः मार्गं पुष्टः सन् ' आम्रान् पृष्टः कोविदारानाचष्टे' इति न्यायेन स्वदोषनिह्नव-परदोषोद्भावनादिकं कुरुते कदापि । अत एवोक्तं पञ्चवस्तुकेऽपि संविग्गपक्खिओ पुण अण्णत्थ पयट्टिओऽवि काएणं । धम्मे चिअ तल्लिच्छो दढरतित्थिव्व पुरिसम्मि ।। तत्तो च्चिअ सुहभावाओ णिमित्तभूअंमि चरमकालम्मि । उक्करिसविसेसेणं कोई विरइंपि पावेइ ।। ← (पञ्च. १६८१-८२) इति । अत एव तीर्थोद्गालीप्रकीर्णके अपि जिणसासणभत्तिगतो वरतरमिह सीलविप्पहूणो वि । न य नियमपरो वि जणो जिणसासणबाहिरमतीओ ।। ← (ती.प्र. १२१४) इत्युक्तम् । यथोक्तं निशीथभाष्येऽपि
होज्ज उ वसणपत्तो सरीरदोब्बलताए असमत्थो । चरण - करणे असुद्धे सुद्धं मग्गं परूवेज्जा ।। ♦ સંવિગ્નપાક્ષિક મીમાંસા #
ટીકાર્થ ઃ- વીર્યાન્તરાય કર્મના ઉદયથી ચારિત્રની ક્રિયાઓમાં-આચારોમાં શિથિલ બનવા છતાં પણ ચારિત્રધર્મમાં લીન-શ્રદ્ધાશીલ એવા જે સાધુઓ સંવિગ્નસાધુના પક્ષમાં મતમાં બહુમાનવાળા થઈને રહે છે એટલે કે સંવિગ્નપાક્ષિક બને છે તેઓ પણ ભાવસાધુની પાછળ ચાલવાથી (= અન્વાચયથી), આચારમાર્ગમાં ભાવસાધુને આગળ કરવાથી શોભે છે. ઉપદેશમાલા ગ્રન્થમાં પણ સંવિગ્નપાક્ષિકને ઉદ્દેશીને જણાવેલ છે કે → ‘સંવિગ્નપાક્ષિકપણાથી મોક્ષમાર્ગને પામી શકશે.’ (૩/૨૧)
१. मुद्रितप्रतौ 'पक्षीकृत:' इति पाठः ।
Jain Education International
For Private & Personal Use Only
=
=
१७१
www.jainelibrary.org