Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 16
________________ १२ व्युत्पत्तिवादः ।... म्धेतीति व्युत्पत्तिविरोधः, संपन्नोवीहिरित्यनेकत्रीहितात्पर्यकेप्येकवचनदर्शनेन तादृशव्युत्पत्तिसको --..--------- - -- रेकव्यभिचार इति स्वप्रयोजकविषयताविशिष्टविषयतानिरूपितत्वमुपात्तमिति । यद्वा वृत्तिज्ञानीयविषयत्वाऽप्रयोज्यसासगिकविषयतानिरूपितविषयताविशिष्टविशेष्यतासंबन्धेन शाब्दबुद्धित्वेन सं बोभ्यः । वैशिष्ट्यमुक्तान्यतरसंबन्धेन यद्यत्र विशेष्यसात्वं नोपादीयेत तदैका विशेषणत्वेनोपस्थितस्येत्यादिव्युत्पत्तरप्यत एवगतार्थत्वं नच पारतन्त्र्येण भासमाने प्रकारे तद्धार्मणि च व्यतिरेकव्यभिचारः विषयताविशिष्टान्यत्वस्य विशेषणतयोपादानेन तद्विषयत्वस्य व्यावर्तनीयत्वात् वैशिष्ट्य च स्वावच्छेद्यनिरूपितत्ववनिरूपितविषयत्वावच्छेद्यविषयतानिरूपितप्रकारतावलोभयसंबन्धेनेति । नन्वातसाधारणापरिच्छिन्न. देशकालभूरिप्रयोगविषयत्वेन सिद्धप्रामाणिकपरंपराधिगम संपन्नो ब्रोहिरिति बाक्यं स्वायत्ते शब्दप्रयोगे निरर्थकप्रयोगस्यान्याय्यतया कल्पितविवक्षितार्थकताकखंतत्री हिपदघटितमृते ब्रीहिलजातावकत्वान्वयनप्रामाण्यमहति । नचैकत्वस्य बीहावे. वान्वयः संभवति एकत्वविशिष्टे सम्पत्तिविशिष्टस्याभदान्वयासंभवात् संपत्तेबहुत्वात्मकत्वात् स्वाथ्यावधिकान्तिकत्वग्रहविषयत्वाभावविशिष्टखाश्रयावधिकदूरत्वग्रहविषयत्वासामानाधिकरण्यस्वतादात्म्योभयसंबन्धेन संख्या विशिष्टानिर्धारितबहुस्वत्वान्यसंख्यात्यव्याप्यधार्मिका बहुत्वसंख्या हि त्रीह्यादिगता संपत्तिः त्रीहित्रयादिमति क्षेत्रे सम्पन्नो व्रीहिरिति व्यवहारवारणा. यानिर्धारितेत्यादि तत्र संख्यायास्त्रित्वत्वेनावधारितत्वात् । यदा संख्यात्वव्याप्येन यादृशयाशधर्मेण संख्याग्रहे न सम्पन्नव्यवहारस्तत्तदवच्छिन्नभेदकूटवत्वं संख्या विशेषणम् । यत्रैकस्मिन्नेव क्षेत्रे कस्यचिदेकैकस्यान्तिके सर्वे त्रीय इति बुद्धिः कस्यचित्तु दूरे ब्राहय इति तत्र तयोस्संपन्नत्वासंपन्नत्वव्यवहारयोरुपपत्त्यर्थं स्वाश्रयावधिकेत्यादि । यत्रान्तिकत्वग्रहविषयेऽपि व्यवहितापेक्षया दूरत्वग्रहस्तत्र संपन्नत्वव्यवहारोपपत्यर्थ तादृशाभावविशिष्टत्वं विषयावविशेषणतयोपात्तम् । वैशिष्ट्यं व खसमानाधिकरण्येन यत्र- 'ब्रीह्याधनेकजातीयाः सजातीयदूरवर्तिनो विजातीयान्तिकस्थास्तत्र सम्पनो व्रीहिरिति न "व्यवहारोऽपितु सम्पनं शस्यमित्येव यदि प्रामाणिकस्तदानेकजातीयगतबहुत्वसंख्यामादायापत्तिवारणायोद्देश्यतावच्छेदकव्याप्यत्वमपि संख्याविशेषणतयोपादेयम् दूरान्तिकत्वग्रहश्च खप्रयोजकज्ञानसमानाधिकरणो ग्राह्यः सच विषयतायां विशेषण तेन पुरुषान्तरीयग्रहमादाय कालान्तरीयग्रहमादाय च न दोषः । एवं च ब्रीहिस्खजातावेकत्वान्वयः सिद्धः । तथाचोक्तवाक्योक्तव्युत्पत्योर्द्वयोरेव प्रामाणिकतया जातावेकत्वान्वयेन वाक्यस्येव संकोचेन व्युत्पत्तेरपि प्रामाण्यमुपपाद्यं ततश्व प्रमाणावेऽ. प्येकस्वान्क्यः संभवत्येव तत्प्रयोगस्यापि प्रामाणिकत्वेनावधृतवादित्याशयेनाह सम्पन्नोत्रीहिरित्यादि। परेतु विजातीयःसंयोगः सम्पत्तिः वैजायं च सम्पन्नत्यव्यवहारान्यथानुपपत्त्या कल्पनीयं सम्पन्नव्यवहारश्च परस्परसमासक्तेष्वेव व्रीहिषु न विरलेषु नचैकस्मिन्निति तादृशवैजात्य विशिष्टः संयोगो नैकत्व विशिष्टे ब्रीहौ । नच तस्याव्यासज्यवृत्तितया कथं नैकत्वविशिष्टे संभव इति वाच्यम्। एकत्वस्य सजातीय द्वितीयराहित्यात्मकतया तद्विशिष्टे व्रोही सम्पन्नत्वव्यवहारविरहेण तनिष्ठसंयोगे वैजात्याभावात्तस्मान्जातावेकत्वान्वयो वाच्यस्तथासति नियमसंकोच आवश्यक इति वदन्ति तन्मन्दम् । व्यवहारस्थान्यथाप्युपपन्नतया तारशवैजात्ये मानाभावात् अभिधातत्वादिना सांकर्यात् । अभिघातत्वादिध्यायनानावैजायस्वीकारेऽनुगमकाभावेन सम्पनपदप्रवृत्तिनिमित्तत्वासंचात् परस्परमत्यन्तसन्निहितेष्वसंयुक्तेष्वपि सम्पत्तिव्यवहारदर्शनात् ताशव्यवहारस्य कादाचित्कत्वानुपपत्तेश्च । मन्त्रादिपदवत्सम्पत्त्यादिपदमपि प्रामाणिकखव्यवहारविषयत्वप्रवृत्तिनिमित्तक एव तादृशविषयता चापेक्षाबुद्धिवि शेष विषयत्ववद्यासज्यबृत्तिरिति न तस्यैकत्ल विशिष्टेऽन्वयसंभव इत्यपि कश्चित् ॥ . . .. व्युत्पत्तिसंकोचस्येति । उक्तवाक्यात्प्रथमतो जायमानस्य सामान्यतः कार्यकारणभावज्ञानस्य व्युत्पत्तेरंशतो भ्रमत्वकल्पनस्येत्यर्थः । यद्वा आपाततो जायमाने प्राथमिकज्ञाने भ्रमत्वग्रहे तत्परत्वासंभवेन यद्यपदार्थपदार्थलावच्छेदकयोरन्वयः प्रामाणिकः तत्तद्भेदकूटविशेषितपदघटितवाक्यार्थे तात्पर्यस्य वक्तव्यतया तहाजायमानायाद्वितीयग्रहरूपव्युत्पत्तेः प्राथमिकज्ञानविषयत्वन्यूनवृत्तिविषयताकत्वस्येत्यर्थः । अथवीह्यादिपदभेदस्य व्रीहित्वादिपदार्थतावच्छेदकभेदस्य बोपादाने निहत कार्य. कारणभावे कार्यतावच्छेदकविशेष्यत्वसंबन्धे व्रीह्यादिपदाप्रयोज्यत्वस्य नीहित्वाद्यवृत्तित्वस्य वा विशेषणत्वे मुख्य विशेष्यताभिन्नत्ववीह्यादिपदाप्रयोज्यत्योभयाभावद्विषयत्वस्य कारणतावच्छेदकसंबन्धत्वे वा पर्यवसानं तथासति नित्यो. नीहिरित्यपि , स्यानच . सम्पन्नोत्रीहिरिल्यादिवाक्यघटकबीह्यादिपदस्यैव तत्तद्यक्तित्वेन तत्र प्रवेश्यत्वान्न दोष इति वाच्यम् । तथापि नित्यः सम्पन्नो ब्रोहिरिति वाक्यस्य प्रामाण्यापत्तेः तत्र त्रीहिरवे एकस्वान्वयानुरोधेन तबीहिपदाप्रयोज्यत्वादेविशेष्यत्वादो. विशेषणीयतया ब्रीहित्वे एकत्वस्येव. नित्यपदार्थस्याप्यन्वयसंभवेनायोग्यताया अभावादितिचे. दुष्यते । उक्तवाक्याद्धि पदवृत्तिज्ञानीयमुख्यविशेष्यताप्रयोज्यविशेष्यतावति पदार्थे। तादृशविषयतावदनुयोगिकभासमानसंसगप्रतियोगित्वं पदवृत्तिज्ञानीयधर्मितावच्छेदकताप्रयोज्यविषयतावद्रुपपदार्थतावच्छेदकनिष्ठानुयोगिताकसंसर्गप्रतियोगित्वाभावश्व नः बोधयितुं शक्यः । पदार्थतावच्छेद के संसर्गभानाभानयोाघातादिति पदवृत्तिज्ञानीयमुख्य विशेष्यताप्रयोज्यत्रकारतानिरूपितसंसर्गतानिरूपित विशेष्यत्वे तादृश विशेष्यताप्रयोज्यत्वस्य , पदवृत्तिज्ञानीयधर्मितावच्छेदकताप्रयोज्यत्वाभावस्य च बोधे उक्तवाक्यस्य तात्पर्यमशीकरणीयम् । अतएव यत्र समवायादेः पदार्थतावच्छेदकतावच्छेदकताघटकसम्बन्धत्वं तत्र

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 218