________________
१२
व्युत्पत्तिवादः ।...
म्धेतीति व्युत्पत्तिविरोधः, संपन्नोवीहिरित्यनेकत्रीहितात्पर्यकेप्येकवचनदर्शनेन तादृशव्युत्पत्तिसको
--..---------
-
--
रेकव्यभिचार इति स्वप्रयोजकविषयताविशिष्टविषयतानिरूपितत्वमुपात्तमिति । यद्वा वृत्तिज्ञानीयविषयत्वाऽप्रयोज्यसासगिकविषयतानिरूपितविषयताविशिष्टविशेष्यतासंबन्धेन शाब्दबुद्धित्वेन सं बोभ्यः । वैशिष्ट्यमुक्तान्यतरसंबन्धेन यद्यत्र विशेष्यसात्वं नोपादीयेत तदैका विशेषणत्वेनोपस्थितस्येत्यादिव्युत्पत्तरप्यत एवगतार्थत्वं नच पारतन्त्र्येण भासमाने प्रकारे तद्धार्मणि च व्यतिरेकव्यभिचारः विषयताविशिष्टान्यत्वस्य विशेषणतयोपादानेन तद्विषयत्वस्य व्यावर्तनीयत्वात् वैशिष्ट्य च स्वावच्छेद्यनिरूपितत्ववनिरूपितविषयत्वावच्छेद्यविषयतानिरूपितप्रकारतावलोभयसंबन्धेनेति । नन्वातसाधारणापरिच्छिन्न. देशकालभूरिप्रयोगविषयत्वेन सिद्धप्रामाणिकपरंपराधिगम संपन्नो ब्रोहिरिति बाक्यं स्वायत्ते शब्दप्रयोगे निरर्थकप्रयोगस्यान्याय्यतया कल्पितविवक्षितार्थकताकखंतत्री हिपदघटितमृते ब्रीहिलजातावकत्वान्वयनप्रामाण्यमहति । नचैकत्वस्य बीहावे. वान्वयः संभवति एकत्वविशिष्टे सम्पत्तिविशिष्टस्याभदान्वयासंभवात् संपत्तेबहुत्वात्मकत्वात् स्वाथ्यावधिकान्तिकत्वग्रहविषयत्वाभावविशिष्टखाश्रयावधिकदूरत्वग्रहविषयत्वासामानाधिकरण्यस्वतादात्म्योभयसंबन्धेन संख्या विशिष्टानिर्धारितबहुस्वत्वान्यसंख्यात्यव्याप्यधार्मिका बहुत्वसंख्या हि त्रीह्यादिगता संपत्तिः त्रीहित्रयादिमति क्षेत्रे सम्पन्नो व्रीहिरिति व्यवहारवारणा. यानिर्धारितेत्यादि तत्र संख्यायास्त्रित्वत्वेनावधारितत्वात् । यदा संख्यात्वव्याप्येन यादृशयाशधर्मेण संख्याग्रहे न सम्पन्नव्यवहारस्तत्तदवच्छिन्नभेदकूटवत्वं संख्या विशेषणम् । यत्रैकस्मिन्नेव क्षेत्रे कस्यचिदेकैकस्यान्तिके सर्वे त्रीय इति बुद्धिः कस्यचित्तु दूरे ब्राहय इति तत्र तयोस्संपन्नत्वासंपन्नत्वव्यवहारयोरुपपत्त्यर्थं स्वाश्रयावधिकेत्यादि । यत्रान्तिकत्वग्रहविषयेऽपि व्यवहितापेक्षया दूरत्वग्रहस्तत्र संपन्नत्वव्यवहारोपपत्यर्थ तादृशाभावविशिष्टत्वं विषयावविशेषणतयोपात्तम् । वैशिष्ट्यं व खसमानाधिकरण्येन यत्र- 'ब्रीह्याधनेकजातीयाः सजातीयदूरवर्तिनो विजातीयान्तिकस्थास्तत्र सम्पनो व्रीहिरिति न "व्यवहारोऽपितु सम्पनं शस्यमित्येव यदि प्रामाणिकस्तदानेकजातीयगतबहुत्वसंख्यामादायापत्तिवारणायोद्देश्यतावच्छेदकव्याप्यत्वमपि संख्याविशेषणतयोपादेयम् दूरान्तिकत्वग्रहश्च खप्रयोजकज्ञानसमानाधिकरणो ग्राह्यः सच विषयतायां विशेषण तेन पुरुषान्तरीयग्रहमादाय कालान्तरीयग्रहमादाय च न दोषः । एवं च ब्रीहिस्खजातावेकत्वान्वयः सिद्धः । तथाचोक्तवाक्योक्तव्युत्पत्योर्द्वयोरेव प्रामाणिकतया जातावेकत्वान्वयेन वाक्यस्येव संकोचेन व्युत्पत्तेरपि प्रामाण्यमुपपाद्यं ततश्व प्रमाणावेऽ. प्येकस्वान्क्यः संभवत्येव तत्प्रयोगस्यापि प्रामाणिकत्वेनावधृतवादित्याशयेनाह सम्पन्नोत्रीहिरित्यादि। परेतु विजातीयःसंयोगः सम्पत्तिः वैजायं च सम्पन्नत्यव्यवहारान्यथानुपपत्त्या कल्पनीयं सम्पन्नव्यवहारश्च परस्परसमासक्तेष्वेव व्रीहिषु न विरलेषु नचैकस्मिन्निति तादृशवैजात्य विशिष्टः संयोगो नैकत्व विशिष्टे ब्रीहौ । नच तस्याव्यासज्यवृत्तितया कथं नैकत्वविशिष्टे संभव इति वाच्यम्। एकत्वस्य सजातीय द्वितीयराहित्यात्मकतया तद्विशिष्टे व्रोही सम्पन्नत्वव्यवहारविरहेण तनिष्ठसंयोगे वैजात्याभावात्तस्मान्जातावेकत्वान्वयो वाच्यस्तथासति नियमसंकोच आवश्यक इति वदन्ति तन्मन्दम् । व्यवहारस्थान्यथाप्युपपन्नतया तारशवैजात्ये मानाभावात् अभिधातत्वादिना सांकर्यात् । अभिघातत्वादिध्यायनानावैजायस्वीकारेऽनुगमकाभावेन सम्पनपदप्रवृत्तिनिमित्तत्वासंचात् परस्परमत्यन्तसन्निहितेष्वसंयुक्तेष्वपि सम्पत्तिव्यवहारदर्शनात् ताशव्यवहारस्य कादाचित्कत्वानुपपत्तेश्च । मन्त्रादिपदवत्सम्पत्त्यादिपदमपि प्रामाणिकखव्यवहारविषयत्वप्रवृत्तिनिमित्तक एव तादृशविषयता चापेक्षाबुद्धिवि
शेष विषयत्ववद्यासज्यबृत्तिरिति न तस्यैकत्ल विशिष्टेऽन्वयसंभव इत्यपि कश्चित् ॥ . . .. व्युत्पत्तिसंकोचस्येति । उक्तवाक्यात्प्रथमतो जायमानस्य सामान्यतः कार्यकारणभावज्ञानस्य व्युत्पत्तेरंशतो भ्रमत्वकल्पनस्येत्यर्थः । यद्वा आपाततो जायमाने प्राथमिकज्ञाने भ्रमत्वग्रहे तत्परत्वासंभवेन यद्यपदार्थपदार्थलावच्छेदकयोरन्वयः प्रामाणिकः तत्तद्भेदकूटविशेषितपदघटितवाक्यार्थे तात्पर्यस्य वक्तव्यतया तहाजायमानायाद्वितीयग्रहरूपव्युत्पत्तेः प्राथमिकज्ञानविषयत्वन्यूनवृत्तिविषयताकत्वस्येत्यर्थः । अथवीह्यादिपदभेदस्य व्रीहित्वादिपदार्थतावच्छेदकभेदस्य बोपादाने निहत कार्य. कारणभावे कार्यतावच्छेदकविशेष्यत्वसंबन्धे व्रीह्यादिपदाप्रयोज्यत्वस्य नीहित्वाद्यवृत्तित्वस्य वा विशेषणत्वे मुख्य विशेष्यताभिन्नत्ववीह्यादिपदाप्रयोज्यत्योभयाभावद्विषयत्वस्य कारणतावच्छेदकसंबन्धत्वे वा पर्यवसानं तथासति नित्यो. नीहिरित्यपि , स्यानच . सम्पन्नोत्रीहिरिल्यादिवाक्यघटकबीह्यादिपदस्यैव तत्तद्यक्तित्वेन तत्र प्रवेश्यत्वान्न दोष इति वाच्यम् । तथापि नित्यः सम्पन्नो ब्रोहिरिति वाक्यस्य प्रामाण्यापत्तेः तत्र त्रीहिरवे एकस्वान्वयानुरोधेन तबीहिपदाप्रयोज्यत्वादेविशेष्यत्वादो. विशेषणीयतया ब्रीहित्वे एकत्वस्येव. नित्यपदार्थस्याप्यन्वयसंभवेनायोग्यताया अभावादितिचे. दुष्यते । उक्तवाक्याद्धि पदवृत्तिज्ञानीयमुख्यविशेष्यताप्रयोज्यविशेष्यतावति पदार्थे। तादृशविषयतावदनुयोगिकभासमानसंसगप्रतियोगित्वं पदवृत्तिज्ञानीयधर्मितावच्छेदकताप्रयोज्यविषयतावद्रुपपदार्थतावच्छेदकनिष्ठानुयोगिताकसंसर्गप्रतियोगित्वाभावश्व नः बोधयितुं शक्यः । पदार्थतावच्छेद के संसर्गभानाभानयोाघातादिति पदवृत्तिज्ञानीयमुख्य विशेष्यताप्रयोज्यत्रकारतानिरूपितसंसर्गतानिरूपित विशेष्यत्वे तादृश विशेष्यताप्रयोज्यत्वस्य , पदवृत्तिज्ञानीयधर्मितावच्छेदकताप्रयोज्यत्वाभावस्य च बोधे उक्तवाक्यस्य तात्पर्यमशीकरणीयम् । अतएव यत्र समवायादेः पदार्थतावच्छेदकतावच्छेदकताघटकसम्बन्धत्वं तत्र