________________
गूढार्थतत्वालोकव्याख्यासहितः ।
१३
पदार्थे पदार्थतावच्छेदकानुयोगिकसमवायरूपसंबन्धप्रतियोगित्वस्य समवायस्यैकत्वेन प्रतिषे मशक्यतया पदार्थतावच्छेदके पदार्थान्तरान्वयप्रसङ्ग इत्यपि निरस्तम् । एवं च सङ्कोचे क्रियमाणे वाक्यार्थज्ञानस्य व्युत्पत्तिरूपतापक्षे तादृश विशेष्यत्वे सम्पको त्रीहि रित्यादिवाक्यघटकस्वाद्यर्थैकत्वनिष्ठप्रकारतानिरूपितबीयादिपदार्थतावच्छेदकताप्रयोज्यविशेष्यत्वादिभेदकूटवत्ववृत्तिज्ञानीयधर्मितावच्छेदकताप्रयोज्यलोभयाभावात्मकतादृशाप्रयोज्यखस्य वाक्याथैघटकत्वं पर्यवस्यतीति न नित्यः सम्पन्नोब्रीहिरिल्यस्य प्रसङ्गः । उक्तवाक्यार्थाक्षिप्त कार्यकारणभावज्ञानस्य व्युत्पत्तिरूपत्वपक्षे चोक्तकार्यकारणभावघटकमुख्य विशेष्यत्वस्थाने मुख्यविशेष्यत्वभिन्नत्वनिरुक्तवाक्यघटकस्वप्रयोज्यैकत्वनिष्ठप्रकारतानिरूपितव्रीहित्वनिष्टविशेष्यताप्रयोजकविषयताभिन्नत्वोभयाभाववद्विषयत्वस्य प्रवेशो यद्यपि न संभवति समानाकारकज्ञानीयविषयतयोरैक्येनोक्तदोषतादवस्थ्यात् तथापि कार्यतावच्छेदकसंबन्धघटकविषयतायां तादृशवाक्यघटकवादिप्रयोज्यैकलादिनिष्ठप्रकारताकविषयताभेदकूटवत्वस्य विशेषणत्वं संभवत्येवेति नोक्तदोषप्रसङ्गः । ब्रोहिस्वे नित्यान्वयबोधस्यापाद्यत्वेनाभिमतस्योक्तसंबन्धस्य प्रसिद्धतया कारणीभूतोपस्थितेमुख्यविशेष्यतयाऽभावात् ब्रीहित्यविशेष्यकैकत्वप्रकारकबोधस्योकसंबन्धस्याप्रसिद्धत्वेन तंप्रत्युक्तकारण विरहस्याकिंचिकरत्वेन तत्संभवाच । अथोक्तरूपेण कार्यकारणभावो न प्रामाणिकः पदवृत्तिज्ञानाद्व्यत्वादिना घटोपस्थितौ यथाकथंचित् घटत्वोपस्थितौ च विनिगमकाभावेन घटत्वेन द्रव्यत्वेन च घटे पदार्थान्तरान्वयप्रसङ्गात् एवं निराकाङ्क्षपदाटोपस्थिती आकाहाज्ञाने च सति शाब्दबोधप्रसङ्गात् । विशिष्यपदनिवेशे च पर्यायस्थले व्यतिरेकव्यभिचारप्रसङ्गात् पदार्थकदेशे पदार्थान्तरान्वयप्रसङ्गवारणाय तत्तत्पदजन्यतत्तद्धर्मावच्छिन्नविषयकोपस्थित्यव्यवहितोत्तरवृत्तिज्ञानीयसांसर्गिकविषयत्वाप्रयोज्यसंसर्गतानिरूपिततधर्मावच्छिन्नविषयताकशाब्दबुद्धित्वावच्छिन्नं प्रति तत्तद्धर्मप्रकारतानिरूपित तत्तनिष्ठमुख्यविशेष्यताकोपस्थितित्वेन कार्यकारणभावस्य वक्तव्यत्वात् तथासति न कथंचिदपि व्रीहित्वे पदार्थान्वयसंभवः नचोपस्थितिशाब्दबुद्ध्योस्तत्तद्धर्मावच्छिन्नविषयकत्वपदविशेषवृत्तिज्ञानजन्यवघटितधर्माभ्यां कार्यकारणभावस्य सिद्धान्तितत्वेन तत एवोक्तदोषवारणसंभवात् पदार्थतावच्छे. दके पदार्थान्तरान्बयप्रसङ्गवारणायोक्तसामान्य कार्यकारणभाव एवाभ्युपेय इति वाच्यम् । उपस्थितिशाब्दबुद्ध्योरुत्तरीत्या कार्यकारणभावस्य निर्वचने फलद्वयसंपत्तौ कार्यकारणभावद्वयागीकारस्य नियुक्तिकत्वात् आकाढावहिभूतपदान्मुख्यविशेष्यतया पदार्थतावच्छेदकोपस्थिताबाकालाघटकपदावा येन रूपेण पदार्थतावच्छेदकस्य शाब्दबुद्धी प्रवेशः तद्धर्मविशिष्टावच्छिन्नोपस्थिती रूपान्तरेण च मुख्य विशेष्यतयोपस्थिती च तत्र पदार्थान्तरान्वयप्रसाच ! नच ब्रीहित्वनिष्ठविशेष्यताया निरवच्छिन्नत्वेन तन्निरूपकशाब्दबुद्धेः कार्यतावच्छेदकानाक्रान्तत्वेन तंप्रत्युक्तकारणविरहोऽकिंचित्कर इति वाच्यम् । एवमेव नित्यो ब्रीहिरित्यत्रापि ब्रीहित्वे नित्यान्वयबुद्धिप्रसङ्गात् प्रसञ्जकसंवलनासवलनयोरुभयत्रापि तुल्यत्वात् इति चेदुच्यते । उपस्थितिकारणतया हि पदार्थभान पदार्थद्वयसंसर्गभानं चाकाडाज्ञान कारणतया निर्वाह्यमिति पदार्थः पदार्थेनेत्यादिनियमान्यथानुपपत्त्या पदयोः समभिव्याहारज्ञानं पदार्थयोरेवान्वयबुद्धौ कारणमिति । यवतत्वेनानुगतेन पदपदार्थों विषयीकृत्य तत्तत्पदयोः समभिव्याहारज्ञानं तत्तत्पदार्थयोरेवान्वयबुद्धौ कारणमिति वा सामान्यत आकाखाज्ञानकार्यकारणभावविज्ञानरूपैव प्रथमतोघ्युत्पत्तिजीयतेऽनन्तरं सम्पन्नो व्रीहि रित्यादिवाक्यानां प्रामाणिकत्व एकदेशान्वयतात्पर्ये वावधृते यत्र यत्र पदार्थतावच्छेदके पदार्थान्वयभानं प्रामाणिकं तत्र तादृशान्वयबुद्धावाकाहाज्ञानस्य कारणत्वं नान्यत्रेति सङ्कोच्यते व्युत्पत्तिरिति नापत्त्यनुपपत्ती उपस्थितेराकाहाज्ञानकारणतावच्छेदकसंसर्गघटकत्वमाकाहाज्ञानसहकारित्वं वेत्यन्यदेतत् । तथाहि स्वघटकबीहिपदजन्यबीहित्वावच्छिन्नोपस्थितिमत्वखघटकपदजन्यैकत्वत्वावच्छिन्नोपस्थितिमत्वोभयसंबन्धेन ब्रीहि रित्याकारकानुपूर्वीज्ञान विशिष्टायामेकत्वप्रकारतानिरूपितबीहित्वनिष्टनिरवच्छिन्नविशेष्यत्वावच्छिन्नावच्छेदकताकविशेष्यतानिरूपितसम्पनत्वाचच्छिन्नप्रकारताकशाब्दबुद्धौ त्रीहि रित्याकारकानुपूर्वी ज्ञानस्य खघटकसंपन्नत्वावच्छिन्नोपस्थितिमत्वसम्बन्धेनोक्तशाब्दयुद्धौ संपन्न इत्याकारकानुपूर्वीज्ञानस्य च कारणत्वं नित्यो ब्रीहिरियस्याप्तसाधारणापरिच्छिन्न देशकालभूरिप्रयोगाविषयत्वेनानवधृतप्रमाणभावतया व्रीहित्वे नित्यान्वये बीजाभावेन तत्र तात्पर्यस्थानवधृतत्वादुक्ताकाडाज्ञानस्य नित्यनिष्ठप्रकारतानिरूपितब्रीहित्वनिष्टविशेष्यत्वघटितधर्मावच्छिन्नं प्रति च न कारणत्वमिति प्रथमज्ञानस्यांशतो भ्रमत्वात्तदशपरिहारेण जायमानस्य द्वितीयज्ञानस्य न्यून विषयकत्वाद्भवति संकुचितत्वमिति । कश्चित्तूक्तनियमान्यथानुपपत्त्या तद्धर्मिकेतरान्वयबुद्धौ ततद्धर्मिकवृत्तिज्ञानजन्यतदुपस्थित्यभावविशिष्टतत्तद्धर्मावच्छिन्नधर्मिकवृत्तिज्ञानजन्यतत्तद्धर्मावच्छिन्न विषयकोपस्थितित्वेन प्रतिबन्धकत्वमाक्षिप्यते । सति च नियमसकोचे तत्तद्धर्मावच्छिन्नविषयकयद्यदुपस्थितिकाले तत्तद्धर्मिकेतरान्वयबोधः प्रामाणिकस्तत्तयक्तरुत्तेजकत्वं च लभ्यते । तथाचैकदेशान्वयस्य नापत्त्यनुपपत्ती । अत्र च विशिष्यपदनिरूपितत्वं प्रथम. त्तिपदार्थे प्रवेशनीयं तेन वाक्यबहिर्भूतपदात्तद्धर्मस्य मुख्य विशेष्यतयोपस्थितावपि नैकदेशान्वयप्रसङ्ग इत्याह तच्चिन्त्यम् । मनु संपनो व्रीहिरि ति वाक्यस्यावधारितेम प्रामाण्येन सामान्यतस्सद्भतेर्थे तात्पर्य मुन्नीयते तच मीही पर्याप्तिसंबन्धेनैकत्वान्वये बाधे गृहीते ब्रीहित्वे च तदन्वये अनम्यगतिकवाभावेन दुष्टस्य पदार्थ इत्यादिनियमसङ्कोचस्य प्रसङ्गोऽर्थान्तरस्य प्रकृतपदानभिधेयत्वेन विशिष्यतात्पर्यनिर्णयाभावादलक्ष्यत्वेन च प्रकृतपदार्थत्वाभावे च सिद्धे. खाश्रयव्रीहित्यवत्वसंबन्धे