________________
१४
व्युत्पत्तिवादः । चस्यावश्यकत्वात् । यदि स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्त्वसंवन्धेन प्रकृत्यर्थ पवैकत्वान्वयः, व्रीहित्वजातेः स्वरूपत एव ब्रीह्यादिपदशक्यतावच्छेदकतयान्वयितावच्छेदकरूपेणानुपस्थितेस्तत्र पदार्थान्तरस्यान्वयानुपपत्तेरिति मन्यते, तदा प्रकृतेऽपीदृश्येव गतिः । यतु संपन्नो ब्रीहिरित्यादावेकवचनोपस्थितानि नानकत्वानि प्रत्येकं नानाबीहिष्वन्धीयन्ते इत्युक्त्यैव सामञ्जस्ये जातावेकत्वभा.
नैकत्व विशिष्टत्री हिघटितार्थे पर्यवस्यतीति पदार्थ इत्यादि नियमसकोचो नावश्यकः । नच विभक्त्यर्थसंख्यायाः प्रकृत्यर्थे पर्याप्तिसंबन्धेनैवान्वय इति गृहीतस्यान्वयव्यतिरेकाभ्यां नियमस्यात्रापि पक्षे सकोचप्रसङ्गो दोष इतिवाच्यम् । वृत्तिज्ञानीय विषयत्वाप्रयोज्यसंसर्गतानिरूपितस्य स्वतन्त्रभासमाननिष्ठप्रकारत्वस्य पि विशेष्यत्वस्य चावच्छिन्नास्वनियमात्तत्संकोचदोषस्यापि तत्र प्रसङ्गान्नियमैकसंकोचदूषितोक्तपक्षस्य ततोऽभ्यर्हितत्वात् । नच परमःसुन्दर इत्यादौ परमपदार्थान्वयस्य सौन्दर्ये सखण्डपदार्थ विवक्षितत्वेन पदार्थैकदेशे सौन्दर्ये परमपदार्थान्वयपक्षे नियमसकोचस्य परमपदलक्ष्यार्थस्य खाश्रयसौन्दर्यवत्वसंबन्धेन परमत्वविशिष्टस्य सुन्दरे अन्वयपक्षे च लक्षणाप्रसङ्गस्यैकैकस्यैव दोषस्य सद्भावादनध्यवसाय इति वाच्यम् । एकदेशा नन्वयनियमसंकोचप्रसङ्गदोषस्य तात्पर्यग्रहपुरःस्फूर्तिकतया लक्ष्यार्थे एव तात्पर्यस्य गृहीतत्वाल्लक्षणायाः समूलत्वेना. दोषत्वात् । नच विवक्षितैकत्वैकवचनघटिते महान् धान्यराशिरित्या दिवाक्ये का गतिः सखण्डवस्तुनि पदार्थतावच्छेदके धान्यराशित्वे एकत्वान्वये पदार्थ इत्यादिनियमसंकोचो दोषः स्वाश्रयपदार्थतावच्छेदकवत्वसंबन्धेन पदार्थ एवान्वये च पर्याप्तिसंबन्धेनान्वयनियमसंकोचो दोष इति पक्षयोरप्येकैकदोषस्यैव सद्भावेनानध्यवसायापत्तिरिति वाच्यम् , संपन्नो बोहिरित्यत्रोक्तयुक्त्या पर्याप्तिसंबन्धेनान्वय नियमस्यांशतो भ्रमविषयत्वे सिद्धेऽन्यांशेऽपि तस्यैव तथात्वौचित्यात्कुप्तानुसारित्वा(कल्पनायाः पदार्थ इत्यादिनियमस्य भ्रमविषयतायाः कुत्राप्यकुप्तत्वेन तस्य तथात्वस्य कल्पयितुमयुक्तवादित्याशयेनाह । यदिचेत्यादि । यदिचेति विवादप्रदर्शनाय । तथाह्याकाशपदात्स्वरूपत उपस्थितस्याकाशस्य शाब्दबोधविषयत्वेऽन्वयिता. वच्छेदकरूपेणान्वय्युपस्थितेरनपेक्षितत्वाद्रीहित्वएकत्वान्वये नियमद्वयसंकोचदोषस्यानवकाशात्तस्य नीहिल एवान्वयः । शब्दाश्रयत्वादिनोपस्थितस्यैवाकाशस्य भानमितिपक्षे च ब्रीहित्यजातावन्वये दोषद्वयप्रसंङ्गाद्रीहावेव तस्यान्वयोऽङ्गीकार्य इति ।
अन्वयितावच्छेदकरूपणानुपस्थितेरिति । अथान्वयितायाः प्रकृताया अवच्छेदकत्वं विवक्षितमन्वयितामात्रस्य वा । नाद्यः । तथाह्यन्वयितायाःसंबन्धित्वरूपाया अवच्छेदकरवं न तावदनतिप्रसक्तत्वनियतं प्रतियोगित्वादीनामिव संभवति । नीलो घट इत्यादौ नौलान्वयित्वविरहिणि पीतघटे वर्तमानस्य घटत्वस्य तस्वानुपपत्तेः घटविशेषत्वस्य तत्वापत्तेश्च । नचानतिरिक्तवृत्तित्वोदासीनं सर्वत्र तयवहारापत्तरिति भासमानवैशिष्ट्य प्रतियोगित्वानुयोगित्वात्मकप्रकारत्वविशेष्यत्क्योरन्वयित्वरूपतया तदवच्छेदकत्वस्यातिरिक्तप्रकारत्व विशेष्यत्वावच्छेदकत्वनियतस्य स्वरूपसंबन्धात्मकावच्छेदकत्वस्य वा तत्वं वाच्यम् । एवं च व्रीहित्वत्वावच्छिन्नेऽन्वयस्वीकारएव ब्रीहित्वत्वस्यान्वयितावच्छेदकत्वं नच तत्स्वीक्रियत इति प्रकृतान्वयितावच्छेदकाप्रसिद्धः। न द्वितीयः अन्वयितावच्छेदकेत्युक्तिवैफल्यादिति चेन्न शाब्दबोधविशेष्यत्वविशेषस्यावच्छिन्नत्वनियमेनकत्वस्य ब्रीहित्वेन्वयाङ्गीकारे ब्रीहित्वत्वेनैव रूपेण सोऽङ्गीकरणीयो नच तत्संभवति व्रीहित्वत्वेनोपस्थितेस्तत्रापेक्षणीयतया तदभावाद्रीहिपदस्य खरूपतो व्रीहित्व विशिष्ट एव शक्तः। नच लक्षणया तस्संभव उक्तलक्षणाया निरूढत्वाभावेनोक्तप्रयोगस्य स्वारसिकत्वानुपपत्तेरित्याशयादन्वयितावच्छेदकरूपेणेत्यस्यान्वयितावच्छेदकतया संभाव्यमानेन रूपेणेत्यर्थकत्वादिति । अथोकनियमनिर्वाहकं वक्तव्येमिति चेदन केचित् विशेष्यतात्वविशेषसम्बन्धेन प्रकारतात्वविशेषसंबन्धेन च शाब्दबुद्धि प्रति स्वप्रकारावच्छिन्नत्वसंबन्धेनोपस्थितेः कारणत्वादुक्तनियमनिर्वाह इत्याहुः । वस्तुतस्तु शाब्दबोधविषयताद्वयी वृत्तिज्ञानीयविषयताप्रयोज्याकाडाप्रमोज्या च । आद्याया नावच्छिन्नत्यनियमोऽन्त्यायास्त्वपरतत्रभासमानगतायास्तथात्वनियमस्स चाकाडाज्ञानकार्यकारणभा. वेनैव निर्वाह्यः आकालाज्ञानमात्रस्य हि तत्तद्धर्मावच्छिन्न विशेष्यतानिरूपिततत्तत्संबन्धावच्छिन्नतत्तद्धर्मावच्छिन्न प्रकारताकशाब्दबोधं प्रत्येव कारणत्वं नहि कस्याप्यनवच्छिन्न विशेष्यताकबोध प्रति । तथाच निर्विशेषस्य सामान्यस्याभावेन शाब्दविशेषसामग्री विना सामान्यसामग्रीतः कार्योत्पत्यसंभवेन विशेषसामच्या अपेक्षणीयतया तस्याश्च सर्वस्या अवच्छिन्नविशेष्यताकबोधकारणघटितत्वादनवच्छिन्नविशेष्यताकबोधस्यालीकत्वानियमनिर्वाह इति । प्रकृतेपि वेदाः प्रमाणामित्यादावपि तादृश्येव गतिः यथा स्वायत्री हित्वक्त्वसंबन्धेन नीहावेकत्वान्वयेन संपन्नो व्रीहिरिल्यत्र प्रामाम्योपपत्तिरूपा गतिः तथा स्वाश्रयप्रमाणरववत्वसंबन्धेन प्रमाण एकखान्ययेन प्रामाण्योपपत्तिरूपैव गतिः । एकत्वस्यैकमात्रवृत्तिसंख्यात्वेन निरुक्तसम्प. नत्वन्यूनवृत्तितयातदनुयोगितावच्छेदकत्वासंभवे जातावकत्वभानाभ्युपगमोपष्टम्भकतां मन्यमानस्यैतद्देशविद्यमानत्रीहित्वसहितैकत्वजातीयस्यान्यूनान तिप्रसक्ततया तादृशावच्छेदकत्वमुपपाय जातानेकत्वभानस्य निरर्थकता वदतः पक्षं दूषयितुमुपन्यस्यति यत्त्विति । . एकवचनोपस्थितानीति । एकवचनस्यैकत्वत्वेनैकत्वशक्ततया तेन रूपेणानेकेषु एकत्वेषु शक्तिमह एकत्वानामुप