________________
गूढार्थतत्वालोकव्याख्यासहितः ।
नोपगमो निरर्थक इति । तदसत् । यतः स्वसजातीयनिष्ठभेदप्रतियोगितानवच्छेदकैकत्वरूपंसजातीय
स्थितिसंभवात्तदभिप्रायेणेदम् । अथैकवचनोपस्थितानि नानकत्वानीति नानकत्वेषूपस्थितत्वोक्तिर्निरर्थिका. शाब्दबुद्धावपूर्वव्यक्तिभानायोपस्थितिशाब्दबुद्ध्योः समानप्रकारकत्वेनैव कार्यकारणभावस्य दीधितिकारायनुमतत्वेनैकत्वत्वेन यत्किंचिदेकलोपस्थितावपि शाब्दबुद्धी योग्यानां नानैकत्वानां भानसंभवात् । स्मृत्यनुभवयोस्समान विषयकत्वेन कार्यकारणभावात् शाब्दबोध विषयव्रीहिगतस्य यदेकत्वस्य न प्रागनुभवस्तस्य नोपस्थितत्वसंभव इति सामान्यलक्षणानगीकारपक्षे त्रीहिगतैकस्वानामुपस्थितत्वपरस्योक्तग्रन्थस्य नाक्तिरपि संभवति । नच शाब्दबोधविषयसकलबीहिष्वेकत्वभानं निष्प्रयोजनत्वान विवक्षितमिति वाच्यम् । एकोद्वाविति प्रयोगवारणाय भासमानसंख्यानुयोगितावच्छेदकतयैव संख्याभानस्य खीकरणीयतयोक्तग्रन्थस्यैकत्वजातीयेषु सम्पन्नत्वानुयोगितावच्छेदकत्वोपादानपरत्वेन तथा भानस्यावश्योपेयत्वात् अन्यथा प्रत्येक नानावीहिटिवत्याद्युक्तिवैफल्यात् यत्किंचिद्रीहिव्यक्तौ यत्किंचिदेकरवान्वयेनापि तदंशे प्रामाण्यस्याक्षतेरिति चेत्सत्यम् सामान्यलक्षणाभ्युपगमपक्षीय एवोक्तप्रन्थः । तत्पक्षे च समान विषयतयोपस्थितिशाब्दबुद्ध्योः कार्यकारणभाव इति सकलैकत्वस्योपस्थितत्वापेक्षास्तीति नासङ्गतिः । वस्तुतस्तु शाब्दबोधविषयेष्वेकत्वेषु प्रचुरस्योपस्थिततया छत्रिन्यायेन भवति तथोक्तिः सङ्गता तथाच शाब्दबोध विषयसकलैकत्वानामुपस्थितत्वालाभेन तत्प्रयोजनान्वेषणाया अपि नोन्मेषः धर्मधर्मिणो यो। नानात्वेनोक्तेः सकलताशव्रीहिष्वेकत्वान्वयलाभः उपस्थितमित्युक्तौ तत्रापि जायेकत्वविवक्षापत्तेः उपस्थितानीत्यादिबहु. वचनोक्तिः प्रत्येकमित्यनुक्तौ नानकत्वानामेकैकत्रीयन्वयलाभः खरसतः स्यादिति तदुपात्तम् ।
खसजातीयनिष्ठभेदप्रतियोगितानवच्छेदकैकत्वरूपमिति । अथात्र स्खपवेन कस्य प्रतीतिरभिमता न ताव. देकत्वस्य रास्या व्युत्पत्तिसिद्धत्वेपि तसवन्यपर्यालोचनया प्रकृत्यर्थस्यैव साजात्यप्रतियोगित्वप्रतिपत्तेः तद्विरुद्धत्वात् नापि प्रकृत्यर्थस्यैव स्वपदस्य खप्रयोजकबुद्धिविषयत्वे सति साक्षात्परम्परया वा यः स्वार्थस्य विशेष्यो यश्च समभिव्याहृतक्रियाकारकपदार्थस्तदुभयत्र शक्तेः उक्तवपदघटितवाक्यजबुद्धौ प्रकृत्यों हि न खार्थघटितार्थस्य विशेष्यः तद्वोधकपदाभावात् सजातीय द्वितीयराहित्यस्यैव विशेष्यतया भातत्वाच नाध्याहृत क्रियापदार्थकारकरूपोपि च सः। भवतीत्यादिक्रियापदानामेवाध्याहर्तव्यतयोक्तराहिलस्यैव तत्कारकतया प्रतीतेः । एवमत्र स्वपदेन हि प्रकृत्यर्थग्रहणे खसमभिव्याहृतपदार्थसंसर्गित्वविशिष्टत्या. दावपि स्वपदेन तस्यैव प्राध्यतया तस्य शब्दानात्मकत्वेन तत्समभिव्याहृतत्वाप्रसिद्धिश्च नच स्वसमभिव्याहतेत्यादिग्रन्थदर्शनेनात्र स्वपदेनैकवचनग्रहणं संभवति शक्त्युपाधिविरहात साजात्यस्य प्रतियोग्यनुयोग्युभयवृत्तित्वनियमेनैकवचनावृत्तवैश्यमागधर्मस्य साजालरूपतानुपपत्तेश्चेति चेन्न प्रकृत्यर्थे वर्तमान मित्येतावदध्याहृत्य प्रकृत्यर्थस्य खपदार्थत्वोपपादनसम्भवात् तस्य वर्तमानत्वरूपक्रियाकारकत्वात् । यत्त संबन्धवोधकस्वसामानाधिकरण्यादिपदघटकखपदेन संबन्धिबोधनिर्वाहाय शक्त्युपाध्यन्तरस्य वक्तव्यतया तथैवात्रापि तद्विशेषोक्त्या निर्वाहइति तदसत् अन्वयपदस्य कृदन्ततया वैशिष्ट्यपदस्य च कृदन्तनिष्पन्नतया तद्घटकक्रियापदार्थकारकत्वादेव षष्ठ्यन्तप्रतियोगिबोधकपदार्थस्य खपदार्थतासम्भवात् । स्वसमभिव्याहतेत्यादी खपदार्थस्य प्रकृत्यर्थसंबन्धिनस्तादात्म्येन समभिव्याहृतपदार्थेन सहान्वयः तेन खपदार्थस्याशब्दरूपत्वेऽपि नक्षतिः खपदं संपातायातमितिकश्चित् समभिव्याहारश्च संबन्धिनमपेक्षमाणः प्रकृतिपदं प्रकृतिपदार्थश्च तथाभूतएकवचनं तत्वेन कल्पयतीति न काप्यनुपपत्तिः खपदमात्मीयपरं तथाच खबोधकशब्दलाभइत्यन्ये ।
अथ सजातीयनिष्ठभेदप्रतियोगित्वाभावस्यैव लाघवात्सजातीय द्वितीयराहित्यरूपत्वमुचितं नचोभयभेदप्रतियोगित्वमादी यासंभव इतिवाच्यम् भेदप्रतियोगितानवच्छेदकत्व विवक्षायामप्येकत्ववद्गगनाशुभयभेदमादायासंभवतादवस्थ्यात् । नच प्रतियोगितावच्छेदकतापर्यायनधिकरणत्वविवक्षयात्र नदोष इतिवाच्यम् पूर्वक्षणावच्छिन्नैकत्ववभेदस्यापरक्षणावच्छेदेनैकत्वव्यक्तिमदभेदस्य चोत्पत्तिकालावच्छेदेन खसजातीयनिष्ठत्वेनासम्भववारणाय निरवच्छिन्नविशेषणतयावृत्तित्वस्य प्रतियोग्यवृत्तिबस्यवा भेद विशेषणवप्रसक्ती लाघवात्प्रतियोग्य वृत्तित्वस्यैव हि तत्वमुचितं तावतेवोभयभेदस्यापि वारणेन तद्वारकान्तरानुपादानात् नच प्रतियोग्यवृत्तित्वस्याप्युभयाभावादिकमादाय दोषवारणाय परिष्करणीयतया नलाघव मिति वाच्यं निरवच्छिनख. स्माप्येवमेव परिष्करणीयत्वात् पर्यायशविवक्षाया आधिक्यादिति। यत्तु प्रतियोगिताया अव्याप्यत्तित्वे सजातीयद्वितीयकेऽपि सामान्यथर्मावच्छेदेन तादृशप्रतियोगित्वाभावसत्वादापत्तिरिति तन्न एकत्वत्वावच्छेदेनतादृशावच्छेदकतापर्याप्त्यनधिकरणत्वस्य सजातीयद्वितीयवृत्ये करवे सत्वेनापत्तेस्तुल्यत्वात् निरवच्छिन्नविशेषणतयोभयावृत्तिधर्मावच्छेदेनवा तादशाभाववत्वस्य विवक्षथा वारणस्यापि तुल्यत्वादिति चेदोमिति ब्रूमः अतएवैकवचनतुल्यैकपदशक्ति विचारे निरुक्तप्रतियोगित्वाभावस्यैव सजातीयद्वितीयराहित्यरूपतोक्ता इहतु तावहूरानुधावनं यथै कयोर्द्विवचनकवचनइतिशक्तिग्राहकशास्त्रतः संख्यारूपद्वित्वसाहचर्यात्संख्यारूपैकस्वएव शक्तिप्रतीतेस्तस्यास्सर्वथा बाधकल्पनापेक्षयांऽशतो बाधकल्पनस्य न्याय्यतया तदर्थमिति गृहाण । एकत्वमात्रमविशेषितैकत्वत्वावच्छिन्नमर्थतः पदार्थत्वेन गृहीतैकत्वव्याप्तिकत्वेन लिङ्गभूतात् अर्थान्तरप्रतिपत्यर्थमवश्यप्रयोक्तव्यपदार्थात् लाभात्