________________
व्युत्पत्तिवादः ।
द्वितीयरहितत्वमेकवचनार्थः न त्वेकत्वमात्रम् । तस्य वस्तुमात्रसाधारण्येनार्थत एव लाभात् । अनुपयोगाश्च । अतएव पशुनायजेत इत्यादौ पशुनिष्ठतादशैकत्वस्य विवक्षितत्वाद् अनेकपशुकरणकया. गास्नादृष्टसिद्धिः। साजात्यं वसमभिव्याहतपदार्थसंसर्गित्वविशिष्टप्रकृत्यर्थतावच्छेदकवस्वरूपेण ।
ज्ञानात् तथाच प्रत्ययस्य प्रकृतिविना प्रयोगानईत्वेन प्रकृतिपदस्यावश्यप्रयोक्तव्यतयोक्तयुक्त्या बिलम्बेनापि ततस्तदर्थप्रत्यये संभवति तत्र शक्तिकल्पनमनुचितमतएवापूर्वादौ लिडादीनां शक्तिनिराकृता सजातीयद्वितीयराहियेन तु न प्रकृत्यों नियत इति तस्यानन्यलभ्यतयैकवचनार्थतासंभव इति भावः । अनुपयोगादिति । अनेकव्यावृत्तिरेकरवप्रतिपत्तेः फलं तचैकत्वमात्रप्रतिपत्तेन भवतीति विशेषस्य तदर्थतेतिभावः । अतएव विशिष्टैकत्वस्यैकवचनार्थत्वादेव । पशुकरणकेति । गौणमत्र करणलं तत्र कर्मणएव करणसंज्ञाविधामादेवं कर्मत्वमपि गोणमेव संप्रदानस्यकर्मसंज्ञानुशासनात् तथाचैकपशुनिष्ठरुद्रनिरूपितखत्वाविषयको मन्त्रपूर्वकस्त्याग इष्टसाधन मितिनाक्याथै तत्रानेकपशुकरणकयागस्यानन्तर्भावेणेष्टसाधनत्वेनादृष्टसाधनखाक्षेपस्यासंभवेनासाधनताया अप्रामाणिकतया नततोऽदृष्टसिद्धिरिति भावः ।
स्वसमभिव्याहतपदार्थसंसर्गित्वविशिष्टप्रकृत्यर्थतावच्छेदकरूपेणेति । अथ समभिव्याहृतयत्किंचिः:पदार्थसंसर्गित्वं विवक्षितं । यावत्तादृशपदार्थसंसर्गित्वं वा संसर्गोपि यःकश्चिदुपादेयः प्रकृतशाब्दबोधविषयो वा सोऽपि साक्षादेव प्रवेश्यः साक्षात्परपरासाधारथोवा । तत्र नतावदाद्यः संभवदुक्तिकः नीलपीतोभयघटवत्यत्र नीलो घटोस्तीत्यस्य भोजनकर्तृशयनकर्तृब्राह्मणद्वयवत्यत्र ब्राह्मणोभुङ्ग इत्यस्य चानुपपत्तेः समभिव्याहृतपदार्थं तद्देशस्तित्वसंसर्गित्वस्य पीतघटे शयनकर्तृब्राह्मणेच सत्त्वात् । नापि द्वितीयः समभिव्याहतपदार्थनीलसंसर्गित्वतादृशभोजनकर्तृत्वसंसर्गित्वयोः पीतघटशयनकर्तृब्राह्मणयोरभावेनोक्तदोषाप्रसकावण्यस्य संसर्गावलम्बिपक्षसत्वसापेक्षत्वेन तदसत्वोपपादनेन सुनिरासत्वात् तेषु न प्रथमः नीलादेरपि कालिकादिसंसगैस्य पीतघटादौ सत्वात्। नापि द्वितीयः कालिकेननीलरूपबत्यत्र नीलोघटइत्यत्र कालिकस्यापि प्रकृतशाब्दयोधविषयत्वात् समभिव्याहृततत्तत्पदार्थनिष्ठविषयतानिरूपितशाब्दबोधीयसंसर्गत्वस्य विवक्षणेच निरूपितत्वस्य साक्षात्प्रवेशे साक्षात्संसर्गकल्पादर: स्यात्तत्र नीलघटेऽपि यावत्पदान्तर्गतेदमाद्यर्थनिष्ठविषयतासाक्षानिरूपितसंसर्गतावनिरूपितत्वानुयोगित्वाभावेन सजातीयाप्रसिद्धिः। परम्परासाधारणनिरूपित्तत्वप्रवेशेच कालिकस्याप्युक्तस्थले संग्रहप्रसमात् । पीतघटवत्यत्र नीलो घट इत्यत्र पीतघटसंसर्गताया अपि नीलविषयतया परम्परानिरूपितत्वात् फलं भुङ्के इत्यादी फले भोजनसंसर्गित्वोपपत्यर्थ प्रतियोगित्वानुयोगित्वान्यतररूपस्यैव संसर्गित्वस्य प्रवेश्यत्वात् पीतघटस्यापि यावत्पदार्थसंसर्गिखापत्त्या तदनुपपत्तिः स्यात् । एवमत्र ब्राह्मणो ब्राह्मणाय गां ददातीत्यत्र कर्तृभूतसंप्रदानीभूतब्राह्मणयोरेकत्वानुपपत्तिः समभिव्याहतपदार्थदानादिक्रियया द्वयोरेव संबद्धत्वादिति चेदत्र केचित् एकवचनोपलक्षितमेकत्वमेकवचनार्थः । संबन्धश्च स्वप्रकृत्यर्थतावच्छेदकवत्व.. खविशिष्टसंसर्गतानिरूपकत्वोभयसंबन्धेन यत्स्वाधिकरणं तन्निष्ठभेदप्रतियोगितानवच्छेदकत्वम् खवैशिष्ट्यं च खप्रयोज्यशाब्दबोधविषयत्वसामानाधिकरण्यस्वसमानाधिकरणप्रत्ययप्रयोज्यताहशविषयतासामानाधिकरण्यान्यतरसंबन्धेन । तथाचात्र नीलो भट इत्यत्रैतद्देशस्याधेयत्वं नीलघटनिष्ठमेव शाब्दबुद्धी भासते तादृशाधेयत्वनिष्टसंसर्गत्व एवच स्वसमानाधिकरणत्रलप्रत्ययप्रयोज्यशाब्दविषयतासामानाधिकरण्यं नतु पीतघटनिष्ठाधेयत्वसंसर्गत्व इति न तत्रानुपपत्तिः एवं ब्राह्मणो भुझे इत्यादी भोजननिरूपितमेव कर्तृवं शाब्दबोधविषयो नतु शयनकर्तृत्व मिति तनिष्ठसंसगताया नसंग्रहः प्रत्ययार्थनिष्ठखोपादाने च कर्तृवत्वेन तस्याप्याख्यातार्थतया तनिष्ठसंसर्गताया अपि संग्रहः स्यादिति प्रत्ययप्रयोज्यशाब्दविषयतासामानाधिकरण्यमुपात्तम् द्वितीयादेरेकत्ववाचकत्वरक्षायै खप्रयोज्यत्यादिसंसर्गनिवेशः प्रथमाया एकत्ववाचकत्वोपपत्तये स्वसमानाधिकरणेत्यादिप्रवेशः सुप्तवाह्मणेऽत्र ब्राह्मणो मुझे इत्यत्र खघटितवाक्यघटकप्रत्ययप्रयोज्यशाब्दविषयत्वस्य शयनकर्तृत्वेपि सत्वेन स्वघटितवाक्यघटकत्वेमोपादानेऽनुपपत्तिः स्यादिति स्वसमानाधिकरणत्वेनोपादानं तत्वं च स्वप्रकृत्यर्थनिष्ठविशेष्यतानिरूपितप्रकारताप्रयोजकत्वं ब्राह्मणो ब्राह्मणाय गां ददातीत्यत्र चतुर्थीसामानाधिकरण्यं न तिङः प्रथमाधताच न संप्रदानत्वस्येति चतुर्थीप्रथमयोनैकत्ववाचकत्वानुपपत्तिः संसर्गतानिरूपकत्वं च प्रतियोगित्वानुयोगित्वान्यतरात्मकं वाच्यम् तिदुर्थभूतसंसर्गप्रतियोगित्वस्य द्वितीयाद्यर्थसंसर्गानुयोगित्वस्य चैकवचन प्रकृत्यर्थेऽसंभवात्तथाच सर्वत्रानुपपत्तिवारणाय खप्रकृत्यर्थतावच्छेदकवखोपादानं नच तात्पर्यभ्रमादिजन्यशाब्दबुद्धिविषयवस्यात्र ब्राह्मणोभुङ्के इत्यादावपि शयनकर्तृत्वादी संभवादनुपपत्तिरितिवाच्यम् । तात्पर्थभ्रमाद्यनधीनत्वस्य शाब्दबुद्धी विशेषणीयत्वात् खप्रयोजकतात्पर्यायस्य स्वप्रयोज्यबोधविषयत्वेन विषयत्वस्य वा विवक्षणीयत्वात् अथ तत्तत्पशुषु तत्तद्यागकरणखानां शाब्दयोधविषयतया तत्रानुपपत्तिरितिचेन्न । यत्र रामभिव्याहृतपदार्थे एकस्मिन्प्रकृत्यर्थस्य द्वयोर्विवक्षितसंबन्धेन संबद्धात्विं तत्रैकत्व विवक्षायामेकवचनविशि. त्वमेकत्ये खविशिष्टनिरूपकता विशिष्टान्यत्वसंबन्धेन वाच्यं खवैशिष्ट्यं च खप्रकृत्यर्थतावच्छेदकसामानाधिकरण्यखविशिष्टसंसर्गताकत्वोभयसंबन्धेन संसर्गतायां स्ववैशिष्ट्यं च पूर्वोक्तसंबन्धेन विशिष्टान्यत्वघटकवैशिष्ट्यं च स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्व खनिरूपितसंसर्गताविशिष्टसंसर्गतानिरूपकत्वसामानाधिकरण्योभयसंबन्धेन संसर्गतावैशिष्ट्यं च