________________
गूढार्थतत्वालोकव्याख्यासहितः ।
स्वावच्छेदकावच्छिन्नत्वस्वनिरूपकनिरूपितत्वोभय संबन्धेन तथाच तयागकरणपशुनिष्ठैकत्वे यागान्तरकरणत्वनिरूपकत्वसभानाधिकरणभेदप्रतियोगितावच्छेदकत्वेऽपि तन्निरूपितसंसर्गताविशिष्टसंसर्गतानिरूपकत्वस्य पश्चन्तरे यागान्तरे च सत्वेन तत्सामानाधिकरण्यविरहेण विशिष्टान्यत्वसंभवाद्भवत्येकवचनार्थता पशुद्रयकरणकयागकरणपशुनिष्ठैकत्वे च पश्चन्तरनिष्ठ करणत्वनिरूपकत्व समानाधिकरणभेदप्रतियोगितावच्छेदकत्वस्य तादृशसंसर्गतानिरूपकयागनिरूपिततत्पशुनिष्ठकरणत्वसंसर्गतानिरूपकत्वसामानाधिकरण्यस्य च सत्वेन न विशिष्टान्यत्वसंभवः अन्यत्र तु प्रागुक्तैव रीतिरिति वदन्ति ॥
परेतु विशेष्यतावच्छेदकतत्कोटिप्रविष्टेषु परम्परयाऽपि प्रकारतावच्छेदकत्वस्य प्रकारतावच्छेदकतत्कोटिप्रविष्टेषु परम्परयाऽपिविशेष्यतावच्छेदकत्वस्य च न व्यवहारइति साक्षात्परम्परावच्छेदकत्वनिष्ठं प्रकारतावच्छेदकत्वव्यावृत्तं विशेष्यत्वस्य विशेष्यतावच्छेदकत्वव्यावृत्तं प्रकारत्वस्य च निरूपकत्वं निरूपितत्वं च विलक्षणमेव । अत एव तत्र तत्र विशेष्यत्वप्रकारत्वामच्छेदकत्वादीनां पर्याप्तिनिवेशनं प्रामाणिकानां संगच्छते ।
मचावैलक्षण्ये प्रकृते को दोष इति वाच्यम् । यत्र हि राजद्वयसम्बन्धिधनं गृहीत्वैकस्य राज्ञो दासो जिगमिषति तत्र राज्ञो धनं गृहीला जिगमिषति दास इति प्रयोगो नोभयत्र राजगतैकत्वविवक्षायां प्रमाणभावमवलम्बते । निरूपितत्वाद्यवैलक्षण्ये तत्प्रामाण्यं दुरुद्धरं स्यात् राजगतैकत्ले वक्ष्यमाणस्य स्वप्रकृतिप्रयोज्यविषयताविशिष्टत्वस्य सत्वात् । खप्रकृतिप्रयोज्यायां राजनिष्टावच्छेदकतायां प्रकारतानिरूपितवस्येव मुख्यविशेष्यतानिरूपितत्वस्यापि सत्वेन स्वाभिन्नमुख्य विशेष्यतावच्छेदकतावत्वसंबन्धेन स्वविशिष्टायां राजत्वनिष्ठनिरूपकत्व राजाविशिष्टखत्वविशिष्टधनविशिष्टकर्मत्वविशिष्टग्रहणविशेष्योत्तरत्नविशिष्टजि
१७
गमिषाविशिष्टदासनिष्टत्वरूपसम्बन्धावच्छिन्नाधेयत्वसम्बन्धावच्छिन्नावच्छेदकतानिरूपितनिरूपितत्वसम्बन्धावच्छिन्नसम्बन्धिलसम्बन्धावच्छिन्नस्वत्वनिष्ठनिरूपकत्वाभ्यां निरूपितयोरधिकरणत्वयोः पर्याप्तं यद्वित्वं तदवच्छिन्नवद्वृत्तिभेद प्रतियोगितानवच्छेदकत्वस्य सत्त्रात् । वैलक्षण्ये च राजनिष्ठावच्छेदकत्वाभिन्नत्वस्य प्रकारतावच्छेदकतायामेव सत्वेन तादृशप्रकारतावच्छेएकतावत्वसंवन्धेन स्वविशिष्टाभ्यां राजत्वनिष्ठनिरूपकत्वदास विशिष्टाश्रयत्वविशिष्टजिगमिषाविशिष्टोत्तरत्वविशिष्टगमनविशिष्टकर्मत्वविशिष्टधनचिशिष्टस्वत्वनिष्टनिरूपकत्वाभ्यां निरूपितयोरधिकरणत्वयोः पर्याप्तं यद्वित्वं तदवच्छिन्नवत्वस्य राजान्तरेऽपि सत्वेनैकत्वे तद्वृत्तिभेदप्रतियोगितावच्छेदकत्वस्यैव सत्वात् प्रामाण्यं न प्रसज्यत इति । एवं च स्वप्रकृतिप्रयोज्यविषयताविशिष्टनिरूपकताकाधिकरणतावावच्छिन्नानुयोगिताकपर्याप्सिकसंख्यावच्छिन्नवद्वृत्तिभेदप्रतियोगितानवच्छेदक मेकत्वमेकवचनार्थः । निरूपकतायां वैशिष्ट्यं च स्वाभिन्नमुख्यविशेष्यतावत्वखाभिन्नमुख्य प्रकारतावच्छेदकतावत्वस्वाभिन्नमुख्यप्रकारतावत्व स्वाभिप्रतादृश विशेष्यतावच्छेदकता वत्वान्यतम संबन्धेन । मुख्यविशेष्यतावत्ता च खसाक्षान्निरूपकावच्छेदकतावत्वस्वनिरूपितमुख्यप्रकारतावत्वान्यतरसंबन्धेन । अवच्छेदकतावत्ता व स्वसामानाधिकरण्यस्वावच्छेदकसम्बन्धावच्छिन्नत्व स्वानवच्छेदकानवच्छि त्रत्वखवृत्तिवैतचतुष्टयसंवन्धेन । मुख्यप्रकारतावत्ता च स्वावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्यात्यनुयोगितावच्छेदकरूपवृतत्वस्वावच्छेदकसम्बन्धावच्छिन्नत्वोभयसंबन्धेन । खाभिन्नमुख्यप्रकारतावच्छेदकतावत्ता च स्वसाक्षानिरूप कत्वस्वाचच्छेयप्रका [तानिरूपितविशेष्यखानवच्छिन्न लोभयसंबन्धेन खविशिष्टावच्छेदकतावत्वखाश्रयत्वान्यतरसंबन्धेन । अवच्छेदकतावत्ताच पूर्वोकचतुष्टयसम्बधेन खाश्रयत्वं च खावच्छेदकसंबन्धावच्छिन्न संबन्धित्वसम्बन्धावच्छिन्नवखावच्छेद्यप्रकारता निरूपित विशेष्यत्वावव्छेदकावच्छिन्नत्व स्वविशिष्टविषयतावव्यापकत्वैतत्रितयसंबन्धेन । स्ववैशिष्ट्यं च स्वावच्छेद्यविषयतानिरूपितविषयत्वानवच्छिमत्वस्वनिरूपितखैतदुभयसंबन्धेन । व्यापकता च खनिरूपितावच्छेदकतावृत्तित्व संबन्धेन । वृत्तित्वं च खावच्छेदकावच्छिनत्वस्वविशिष्टविशेष्यतानिरूपितप्रकारतावच्छेदकसम्बन्धावच्छिन्नसंबन्धित्वसंबन्धावच्छिन्नत्वोभयसंवन्धेन । स्ववैशिष्ट्यं च खतादाम्यखावच्छेद्यत्वान्यतरसंबन्धेनस्वाश्रयत्वखानवच्छेद कानवच्छिन्नख वृत्तित्वैतत्रितयसंबन्धेन । स्वावच्छेदकावच्छिन्नलं लाभाववदवच्छेदकत्वानिरूपितवरूपं ग्राह्यम् । अभावप्रतियोगितावच्छेदकसंबन्धश्च स्वनिरूपितावच्छेदकतावत्वम्वावच्छेधप्रकारतानिरूपित विशेष्यतावत्वान्यतरात्मकः । अवच्छेदकतावत्त्रविशेष्यतावत्वे स्वसामानाधिकरण्यादिचतुष्टयेषु यस्य यस्योपादेयत्वं तैर्माये स्वाध्यवनियामकत्रितयसम्बन्धघटकविशेष्यतावच्छेदकावच्छिन्नत्वमप्युक्तरूपमेव स्वाभिन्नमुख्य प्रकारतावयं च स्वनिरूपितावच्छेदकतावत्वखाश्रयत्वान्यतरसंम्बधेन । खाश्रयत्वं च खावच्छेदकसंबन्धावच्छिन्न संबन्धित्वसंबन्धावच्छिनत्वस्वनिरूपितविशेष्यतावलोभयसंबन्धेन अवच्छेदकतावलविशेष्यतावत्वे च सामानाधिकरण्यादिभिः संवन्धैर्ब्राह्ये । स्वाभिन्नविशेष्यतावच्छेदकतावत्यं च स्वविशिष्टावच्छेदकतावत्वस्वाश्रयत्वान्यतरसंम्बन्धेन । वैशिष्टयावच्छेदकतावत्वे पूर्वोक्तसंबधैर्माये । खाश्रयत्वच्च स्वावच्छेदकसंवन्धावच्छिन्नसंबन्धिवसंबन्धावच्छिन्नत्वस्वनिरूपितस्वावच्छेद्य प्रकारतानिरूपितविशेष्यत्वावच्छेद्यविषयतावच्छेदकावच्छिन्नत्वस्खनिरूपितमुख्य प्रकारतावदवच्छेकताकखख विशिष्टविषयतावव्यापकत्वैतच्चतुष्टयसंबन्धेन । मुख्यप्रकारतावत्वं च पूर्वोक्तसंबन्धैर्बोध्यम् ।
च
स्ववैशिष्टयं च स्वनिरूपितत्वखावच्छेद्य विशेष्यतानिरूपितविषयताभिन्नत्वस्वनिरूपितमुख्यप्रकार तावदन्यत्वैतत्रितयसंबन्धेन । प्रकारतावता च खतादात्म्यस्वनिरूपिताचच्छेदकसातादात्म्यान्यतरसंबन्धेन । व्यापकता च खवृत्तिलखनिरू३ व्युत्प०