________________
व्युत्पत्तिवादः ।
पितावच्छेदकतावृत्तिलान्यतरसंबन्धेन । वृत्तिवं च पूर्ववदेवप्रायम् । विशेष्यतावच्छेदकावच्छिन्नखं स्वाभाववदवच्छेदकलानिरूपितवरूपं ग्राह्यम् । अभावप्रतियोगिताच स्वनिरूपितावच्छेदकतावखखावच्छेद्यनिरूपितविषयतावत्वान्यतरसंबन्धेन ग्राह्या। अत्र स्वविशिष्टनिरूपकताकाधिकारणतावदृत्तित्व विवक्षणे प्रायश एकत्वमानस्य खविशिष्टप्रकृत्यर्थतावच्छेदकनिष्ठनिरूपकताकाधिकरणतावद्वृत्तिभेदप्रतियोगितावच्छेदकलमेव स्यादिति तादृशाधिकरणताखावच्छिन्नपर्याप्तिकसंख्यावच्छिन्नवदृत्तिलपर्यन्तानुधावनम् । स्वाभिन्नमुख्य विशेष्यतावखसंबन्धश्च मुख्यविशेष्यगतैकत्वस्यैकवचनार्थतासम्पत्यर्थमुपात्तः । त. थाहि यत्रैको विद्वान् परथाविद्वान् ब्राह्मणो मुझे क्षत्रियश्च विद्वान् भुते ब्राह्मणश्च विद्वानन्यश्शेते तत्रात्र विद्वान् ब्राह्मणो भुङ्ग इति ताशब्राह्मणगतैकत्वविवक्षायां प्रयोगो जायते । तत्र मुख्य विशेष्यताविशिष्टानिरूपकताब्राह्मणत्वनिष्टाविद्यावत्वनिष्ठा च तत्तदसाधारणधर्मावच्छिन्ना एतद्देशाधिकरणकभोजनकर्तृत्वत्वावच्छिन्ना च आद्ययोः खसाक्षानिरूपकावच्छेदकतावत्त्वस्य अन्त्यायां स्वनिरूपितमुख्यप्रकारतावत्त्वस्य च सत्त्वादिति तन्निरूपिताधिकरणताकूटवरचमेकत्याश्रयीभूतब्राहाण एव शयनकर्तुर्विद्यावत्वब्राह्मणत्वयोःसत्वेपितादृशभोजनकर्तृत्वविरहात् क्षत्रिये ब्राह्मणत्वस्याविदुषि विद्यावत्वस्य च विरहादिति तनिष्ठभेदप्रतियोगितानवच्छेदकत्वं तदेकत्वेऽस्तीति तस्यैकवचनार्थतासम्पत्तिः । अत्र घटोस्तीत्यादौ घटत्वनिनिरवच्छिन्नावच्छेदकतावत्वस्य पटत्वनिष्टनिरवच्छिन्ननिरूपकतायामपि सत्वे निरुक्ताधिकरणताकूटवत्वस्याप्रसिया एकवचनार्थतानुपपत्तिः स्यादिति तद्वारणायावच्छेदकतावत्वघटकसम्बन्धेषु खसामानाधिकरण्यस्य तद्भूटानुयोगिकसमवायावच्छिन्ना. या एतद्घटानुयोगिकसमवायावच्छिन्नायाश्च घटत्वनिष्ठनिरूपकताया घटत्वनिष्ठावच्छेदकताविशिष्टत्वे तथैवानुपपत्तिः स्यादिति __ स्वावच्छेदकसम्बन्धावच्छिन्नत्वस्य तद्रूपघटत्वोभयत्वावच्छिन्नाया एतद्रूपघटत्वोभयत्वावच्छिन्नायाश्च निरूपकताया घटखनिष्ठावच्छेदकताविशिष्टत्वे तथैवानुपपत्तिस्स्यादिति खानवच्छेदकानवच्छिन्नत्वस्य चोपादानम् । ऋद्धस्यौजखिनो राज्ञः पुरुषो
नास्ति वेश्मनीत्यादौ ऋद्धौजस्विराजस्खत्ववदेतद्वृत्तिपुरुषनिष्ठभेदप्रतियोगितानवच्छेदकत्वेनैकत्वस्य शाब्दमतौ भासमानत्वेन ताशानवच्छेदकत्वघटकखत्वनिष्टनिरूपकतायां राज्ञऋद्धत्वौजखित्वाभ्यामेवावच्छेदकतया तादृशावच्छेदकताकनिरूपकतामावघटितनिरुक्तानवच्छेदकल्लवदेकवे लाघवाच्छक्ये एकवचनस्य शक्तिप्रतिपत्त्यर्थं निरुक्तपरिचायककोटौखानवच्छेदकानवच्छिन्नलसम्बन्धेन खवृत्तित्वस्योपादानं नहि तदनुपादाने काप्यापत्तिरनुपपत्तिर्वा । नच कथं न तन्न शक्तिप्रतिपत्तिरितिवाच्यं तत्रैकैकधर्मावच्छिन्नावच्छेदकताकनिरूपखस्याप्युक्तावच्छेदकताविशिष्टतया तावनिरूपकवघटितोक्तानवच्छेदकलोपरागेण गु. रुखादशक्यएवैकत्वे शक्तिप्रहप्रसङ्गा त्तदुपादाने च धर्मत्रयावच्छिन्नावच्छेदकताकनिरूपकतामात्रस्यावच्छेदकता विशिष्टत्वेन तन्मात्रघटितानवच्छेदकत्ववदेकल एव शक्तिप्रहसम्भवात् । खानवच्छेदकानवच्छिन्नलं च तत्र खनिरूपकतावच्छेदकताविशिसन्यावच्छेदकलानिरूपितवं विशिष्टान्यलं च सामानाधिकरण्यादिभिः तेन प्रमेयस्येदमस्तील्यादौ खानवच्छेदकाप्रसिद्धावपि न क्षतिःनच मुख्यविशेष्यतानिरूपितायास्तादृशखलनिष्ठावच्छेदकसायास्तादृशस्खलनिष्ठनिरूपकतानवच्छेदकपुरुषलनिष्ठावच्छे. भवनानिमपितवं विशेष्यताद्वारकमस्तीत्यनुपपत्तिरितिवाच्यम् । नहि राजवनिष्ठावच्छेदकलं राजावच्छिन्नत्वेन पुरुषखावच्छिन्नत्वेन च व्यवहियत इतिपरम्परयाप्यवच्छिन्नखव्यवहारोऽवच्छेदककोटिसन्निविष्टधमैरेव वाच्यो नत्ववच्छेद्यकोटिप्रविष्टैरुदासी. नैर्वा । विशेषणं हि विशेष्यस्य परिचायक निरूपकं विशेष्यंच परिचेयं निरूप्यमित्युच्यत इति विशेषणनिष्ठावच्छेदकतानिरूपिकैवनिरूपकनिष्ठत्वाद्विशेष्यनिष्ठा च निरूपितनिरूप्यनिष्ठलादवच्छिन्नत्वं चावच्छदेकतानिरूपितखमिति राजलनिष्ठावच्छेदकताया न राजावच्छिन्नत्वं नापि पुरुषलावच्छिन्नत्वं साक्षात्परम्परासाधारणावच्छेदकतानिरूपितलस्याप्युक्तयुक्तर्विलक्षणलादिति वस्तुगतिः तथाच नोक्तानुपपत्तिः।
अथवा खानवच्छेदकानवच्छिन्नख परस्परनिरूप्यनिरूपकभावेऽपिस्वनिरूपितावच्छेदकताविशिष्टान्यावच्छेदकतावदन्यखं वाच्यम् अवच्छेदकतावत्ताचखावच्छेद्यप्रकारतानिरूपितविशेष्यत्वावच्छेद्यत्वसंबन्धेन । इदं चावच्छेद्यत्वं साक्षात्परम्परासाधारणम्।परम्परयाच तदनच्छेद्यप्रकारतानिरूपितविशेष्यत्वावच्छेयप्रकारतानिरूपितविशेष्यत्वावच्छेद्यत्वेनैव खीक्रियतइति पुरुषलनिष्टावच्छेदक खावच्छेयप्रकारतानिरूपितविशेष्यलावच्छेद्यलं खलनिष्टावच्छेदकतायां परम्परयापि नास्तीतिन कापि क्षतिः। स्वनिरूपितमुख्यप्र. कारतावलोपादानञ्च भोजनकर्तृत्वनिष्ठनिरूपकतासंग्रहाय, तदसंग्रहे शयनकर्तृब्राह्मणेऽपि तादृशनिरूपकताकाधिकरणताकूटस्य सत्वेन तादृशभेदप्रतियोगितानवच्छेदकत्वस्यैकत्वेऽसम्भवः स्यातास्वावच्छेदकर्सबन्धावच्छिन्नलं च एकलाश्रयाननुयोगिकसंबन्धावच्छिन्नताशकर्तृखनिष्ठनिरूपकतावारणायोपादेयम् । अधिकवारकपर्याप्तिनिवेशनं च द्विखाद्यवच्छिन्नताशकर्तृत्वनिष्ठनिरूपकतावारणाय । न्यूनवारकं च तदुक्तयुक्त्या शक्तिमहप्रतिपत्त्यर्थम् । फलं भुक्त चैत्र इत्यादौ खसमानाधिकरणान्नवृत्तिलसम्बधेनफलविशिष्टकर्मलविशिष्टभोजनविशिष्टकृति निष्ठनिरूपकलवारणायव निरूपितावच्छेदकताविशिष्टान्यावच्छेदकलानिरूपितत्वरूपमेव तदवच्छेदकावच्छिन्नखमुपादेयम् । स्वाभिममुख्यप्रकारतानिरूपकावच्छेदकतावत्वं च प्रकारतावच्छेदकगतैकखस्यैकवचनार्थतासम्पत्यर्थे । तादृशप्रकारताकलं च साक्षात्परंपरासाधारणं, तेनेदं राज्ञ इत्यादिसाक्षात्प्रकारविशेषणगतैकत्वस्येव चैत्रः फलमत्रभु ब्राक्षणो ब्राह्मणाय गां ददातीत्यादौ परम्परामुख्यप्रकारविशेषणफलब्राह्मणादिगतैकत्वस्याप्येकवचनार्थोपपत्तिः । तथाहि खप्र.