SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ गूढार्थतत्वालोकन्याख्यासहितः । बच्छिनकार्यतानिरूपितकारणत्वम् प्रमात्वन्यूनवृत्तिशाब्दत्वघटितधर्मावच्छिन्नकार्यतानिरूपितकारणत्वं वा । नाद्यः प्रमा स्वस्यार्थसमाजप्रस्तत्वेन कार्यतानवच्छेदकत्वात् । न द्वितीयः शाब्दत्वावच्छिन्नं प्रति शब्दत्वेनकारणत्वस्य वहिना सि श्चतीतिवाक्येऽपि सत्वेन तत्रापि प्रमाणत्वव्यवहारापत्तेः । न तृतीयः तादृशकरणत्वस्थानेकत्वेनैकमेवेतिग्रन्थासङ्गति रिति चेत् तृतीयकल्पाङ्गीकारे क्षति विरहात् स एवाङ्गीकरणीयः । उक्तग्रन्थस्तु शाब्दबजातेरेकरवेन भाक्तैकत्वव्यवहारपरत्वे. नोपपादनीयः । सुबकत्वस्य शाब्दत्वजातादेवान्वयः एवंच करणत्वस्य करणखरूपत्वपक्षे व्यक्तिभेदेन भिन्नत्वेऽपि न क्षतिः। अतएव ध्वनिः प्रमाणं घटः कर्मत्वमित्यादि निराकालवाक्यं प्रमाणमित्यादीनां न प्रसाः । प्रमा प्रति शब्दत्वेन स्वरूपयोग्यस्वस्यैव प्रमाणव्यवहारप्रयोजकत्वेऽविशेषेण वेदाः प्रमाण मितिवदुक्तप्रयोगाः प्रसज्येरन् । नचेष्टापत्तिः आप्तोपदेशः शब्दः प्रमाणं प्रयोगहेतुभूतार्थतत्त्वज्ञानजन्यः शब्दः प्रमाण मित्यादिना अयोग्यनिराकालध्वन्यादिव्यावृत्तस्यैव शब्दप्रमाणलक्षणस्य सिद्धान्तितत्वेन तस्यैव च व्यवहारौपयिकतया तच्छ्न्ये लक्ष्यव्यवहारस्यायुक्तत्वात् । किंच सर्व हि वाक्यं सावधारणमित्यबलम्ध्य वेदाः प्रमाणमितिवल्लौकिकवाक्यानि प्रमाण मिति न व्यवहरन्ति तदपि शब्दखावच्छिन्नप्रमाकरणत्वस्य व्यवहारविषयत्वेनोपपद्यतेकस्मिंश्चिदपि लौकिकवाक्ये प्रमाणत्वाभावरूपस्याप्रमाणत्वस्यासंभवेन तद्यवच्छेदस्य तत्रापि संभवात् एवं वेदत्वावच्छेदेनेव लौकिकवाक्यत्वावच्छेदेनापि प्रमाणत्वस्योक्तस्य संभवेन सर्वे वेदाः प्रमाणमित्यस्येवावच्छेदकावच्छेदेनान्वयविवक्षया तत्समानार्थपर्यवसायिनो वेदाःप्रमाणमित्यस्येव वा सर्वाणि लौकिकवाक्यानि प्रमाणानीत्यस्य लौकिकवाक्यानि प्रमाणानीत्यस्य वापत्तिर्दुद्धरा । नचैवं शब्दखावच्छिन्नं यावच्छब्दनिष्ठमिति ग्रन्थस्य का गतिरिति वाच्यम् । शब्दत्वपदेन ज्ञापकासाधारमधर्मस्याकावारूपस्य शब्दपदेन च प्रमाणशब्दस्य बोधनीयत्वात् गत्यभावात् यथाश्रुतग्रन्थानुरोधिनस्तु उक्तप्रयोगयोवैलक्षण्यमनुभवसिद्धमपलपन्तो ध्वनिः प्रमाणमित्यादिप्रसङ्गमिष्टापत्त्या वारयन्तो यद्विशेषयोरिति न्यायेन कुप्तं शाब्दत्वावच्छिन्नं प्रति शब्दत्वेन करणत्वमवलम्ब्य उक्तग्रन्थमव्याख्येयं मन्यन्ते । केचित्तु स्वतात्पर्यविषयप्रमानिष्ठशाब्दत्वावच्छिन्नकार्य, तानिरूपितशब्दत्वावच्छिन्नकरणखरूपं शाब्दप्रमाकरणलं विवक्षितं तथाच ध्वनेनिराकाङ्कस्य च तात्पर्याभावादयोग्यस्य खतात्पर्य विषयप्रमाया अप्रसिद्धरुक्तदोषाणां नावकाशः । नच खत्वाननुगमेनकलासंभव इति वाच्यम् । शब्दविशिष्टत्वस्यैव खतादात्म्यस्खतात्पर्य विषयप्रमानिष्ठशाब्दत्वावच्छिन्ननिरूपितकरणलोभयसंबन्धेन तद्रूपत्वात् । उक्तविशिष्टत्व एव चैकत्वा. न्वयः तत्परतयैव चोक्तग्रन्थो व्याख्येय इति वदन्ति । तत्र स्वतात्पर्य विषयप्रमाकरणत्यस्य संसर्गत्वेऽपि निवाहादतिरिक्तस्य वैफल्यम् न चेष्टापत्तिः प्रमाणपदस्य पारिभाषित्वापत्तेरिति चिन्तनीयम् ॥ नचेति एवमितिशेषः । पदार्थः पदार्थेनान्वेतीति व्युत्पत्तिविरोध इति । अत्र इतिशब्दस्यस्वरूपवचनस्य नाभेदेन व्युत्पत्तिपदार्थान्वित्तपरत्वं वाक्यस्य व्युत्पत्तिरूपत्वाभावादन्यथा व्युत्पन्नोऽयमिति व्यवहारानुपपत्तेः वाक्यस्य यथाकथंचित्पुरुषनिष्ठत्वेन तदुपपादने वार्थहान विरहिणि व्युत्पन्न इति व्यवहारापत्तेः प्रन्थे व्युत्पादकत्वव्यवहारानुपपत्तेश्च । अपि तु सन्निहितवाक्यस्वरूपवचनस्य लुप्तपञ्चमीकस्य व्युत्पत्यन्वितवाक्यप्रयोजकत्वपरत्वमेव तथाच पदार्थ इत्यादेरिति वाक्यादाप्तपुरुषपरम्पराऽधिगताज्जायमानस्य निर्धारितप्रमाणभावस्य तदर्थज्ञानस्य तदर्थाभ्यथानुपपत्या कल्पितस्य तादृशस्य कार्यकारणभाव विशेषज्ञानस्य वा व्युत्पत्तेः विरोधः पदार्थतावच्छेदके पदार्थान्वयस्वीकारे वस्तुभूतेन तेन विषयतयाऽसामानाधिकरण्यमप्रमात्वपर्यवसित मित्यर्थः । स्यादिति शेषः।नय तदभ्युपगन्तुं शक्य मितिभावः। अथ कीदृश उक्तकार्यकारणभावःन तावद्विशेध्यतासंबन्धेन शाब्दबुद्धित्वेन मुख्यविशेष्यतासंबन्धेनोपस्थितित्वेन च सः पश्वा दिपदशक्यतावच्छदके लाजूलादौ व्यभिचारात् नापि मुख्यविशेष्यतासंबन्धेन शाब्दबुद्धित्वेन वृत्तिग्रहामुख्यविशेध्ये शाब्दमतौ विशेषणतया भासमाने पदार्थान्तरान्वयप्रसङ्गात् नापि पदार्थान्तरनिष्टप्रकारतानिरूपितविशेष्यतासंबन्धेन शाब्दबुद्धित्वेन पदार्थान्तरत्वस्याच्यावर्तकरवादिति चेत् विशेष्यताविशिष्टविशेष्यतासंबन्धेन शाब्दबुद्धित्वेन कार्यत्वमिति गृहाण । वैशिष्ट्यं च खतादात्म्यखप्रयोजकवृत्तिज्ञानीय विषयतानिरूपित. विषयत्वाप्रयोज्यविषयतानिरूपितत्वोभयसंबन्धेन । नचैवं सत्यपि शोभनः पशुरित्यत्र शोभनपदजन्योपस्थितेः मुख्य विशेष्यतासंबन्धेन शोभनमाने सत्त्वेन लोमलाङ्गलादावपि सत्तया तत्रैकत्वादिसंख्यान्वयप्रसङ्गः शोभनपदार्थान्ययप्रसनथ शोभन पदार्थस्य द्विधाभानानुपगमात् न सकृदुप्चरित इत्यादि व्युत्पत्तिविरोध इति वाच्यम् । विशेष्यताविशिष्टविशेष्यतात्वसंबन्धेन शाब्दबुद्धौ खीयमुख्य विशेष्यताप्रयोज्यस्वसंबन्धेनोपस्थितत्वेन कारणत्वस्य वाच्यत्वात् । वैशिष्ट्यं च खतादात्म्यस्वप्रयोजकवृत्तिज्ञानीय विषयताविशिष्ट विषयतानिरूपितविषयत्वाप्रयोज्यविषयतानिरूपितविषयतावत्वोभयसंबन्धेन विषयतावैशिष्ट्यं च वि. षयतावत्ता च खावच्छेद्यत्वस्वतादात्म्यान्यतरसंबन्धेन बोध्यम् । नीलोघट इत्यादिशाब्दयोधीयघटत्वनिष्ठप्रकारतानिरूपितविशेष्यतायामप्युपस्थितेः सत्वेन तत्रोक्तसंबन्धेन शाब्दबोधस्यासत्वेनान्वयव्यभिचारःस्यादिति निरुक्कविषयत्वाप्रयोज्यवि. षयतानिरूपितत्वं विहाय निरूपितविषयतावत्वमुपातं तथासति तादृशघटत्वावच्छिन्न विषयतावत्वान्न व्यभिचारः लालत्वप्रकारतानिरूपित विशेष्यतायां खप्रयोजकवृत्तिज्ञानीयतादृश विषयतानिरूपितत्वस्य लालत्व विषयतायामेव सत्वेन लोमविषयतायास्तदनिरूपितत्वेन निरुतविषयत्वाप्रयोज्यतया तनिरूपितलाङ्ग लत्वावच्छिन्नविषयतावत्वस्य सत्वेन तनः व्यति.
SR No.008449
Book TitleVyutpattivada Gudharthatattvaloka
Original Sutra AuthorN/A
AuthorDharmadattasuri
PublisherNirnaysagar Yantralaya Mumbai
Publication Year
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy