________________
१०
व्युत्पत्तिवादः ।
त्वनियमः । अतएव पुरूरवोमाद्रवसौ विश्वेदेवा इत्यादौ द्वित्वविशिष्टयोः पुरूरवोमानवःप्रभृत्योविशेषणतया विवक्षितत्वात्तद्वाचकस्य पदस्य द्विवचनान्तता । घेदाः प्रमाणमित्यत्र च विशेषणपदोत्तरविभक्तथा बहुत्वविरुद्धमेकत्वं विवक्षितं तच प्रकृत्यर्थतावच्छेदके प्रमितिकरणत्वेऽन्वेति । शाब्दप्रमाकरणस्वं च शब्दत्वावच्छिन्नं यावच्छन्दनिष्ठमेकमेवेति नायोग्यता । नच पदार्थः पदार्थना
विशेष्यत्वस्य स्वनिरूपकबोधजनकत्वेन तात्पर्य विषयतावच्छेदकानुपूर्वीमत्व विरहात् । दारसदृशाचरणकर्तृत्वाद्यवच्छिन्नविशेष्यत्वस्य च स्वावच्छेदकावच्छिन्नपरत्वविरहान्न सत्वमिति न समानवचनत्वप्रसङ्गः । विशेष्यवाचकपदे बहुवचनान्ते विशेषणवाचकदारपदे उक्तविशेष्यत्वस्य सत्वाद्भवत्येव समानवचनत्वम् । दारपदस्य विशेष्यवाचकपदत्वे च शोभनादिविशेषणवाचकपदे तादृश विशेध्यतावस्वस्याविवक्षितसंख्याकविभक्तिकत्वस्य च सत्वात्समानवचनत्वम् । संख्याया विवक्षितरले. व तादृश विभक्तिकत्वाभावान समानवचनत्वम् । नच मैथिल्यादिपदोत्तरविभक्त्या यदा नैकत्वादिकं विवक्षितं तदा मैथिल्यो रामदाराः कुन्तीमायः पाण्डुदारा इत्यादिप्रयोगापत्तिरिति वाच्यम् । प्रधानीभूतविशेष्यगतत्वेन प्राक्प्रयोक्तव्यविशेष्यवाचकपदोत्तर विभक्त्या संख्यायाः सति योग्यत्वेऽवश्य विवक्षणीयतया तत्समानाधिकरणसंख्याया विशेषप्रतिपत्त्यनाधायकस्वेन दुष्परिहरनिरर्थककरूपतया विशेषण विभक्त्या विवक्षितत्वासंभवेऽपि यत्रायोग्यतया विशेष्यवाचकपदोत्तरविभक्त्या संख्या न विवक्षिता तत्र योग्यायास्संख्याया विशेषणविभत्तनिरर्थकत्ववारणायावश्य विवक्षणीयत्वात् । साथैकप्रयोगसंभवे निरर्थकप्रयोगस्यान्याय्यवादुफस्थले एकरवद्वित्वार्थकयोरेकवचन द्विवचनयोरेव प्रसक्तः । नचैवं घटरवादावेकत्वसंख्याया योग्याया विवक्षया सार्थकैकवचनप्रयोगसंभचे निरर्थकबहुवचनप्रयोगस्यान्याय्यतया एते घट इति प्रयोगापत्तिरिति वाच्यम् । एकदेशान्वयस्य व्युत्पत्तिविरुद्धत्वेन प्रामाणिकप्रयोगोपपत्त्यर्थ क्वचित्तद्विवक्षायास्संभवेऽपि स्वरसतस्तादृश विवक्षाया असंभवेनागत्या निरर्थकस्यैव प्रयोकव्यत्वे समानवचनप्रयोगस्यैव न्याय्यत्वादितिदिक् ।
पुरुरवोमाद्रवसौ विश्वेदेवा इति । अत्र पिशाचा राक्षसा यक्षा भूता नानाविधास्तथा । प्रतिलम्पन्ति सहसा श्राद्धमारक्षवर्जितम् । तत्पालनाय विहिता विश्वेदेवाः स्वयंभुवा । इष्टिश्राद्धे ऋतुर्दक्षः सत्यो नान्दीमुखे वसुः । नैमित्तिके कालकामौ काम्ये च धुरिलोचनौ । पुरूरवा माद्रवाश्च पार्वणे समुदाहृतौ ! उत्पत्तिं नाम चैतेषां न विदुर्थे द्विजातयः । अय. मुच्चरणीयस्तैः श्लोकः श्रद्धासमन्वितैः 1 आगच्छन्तु महाभागा विश्वेदेवा महाबलाः । ये यत्र योजिताः श्राद्ध सावधाना भवन्तु ते इत्यस्ति वचनम् तत्र क्वचित्पुरूरवोमाद्रवसावित्यप्यस्ति पाठस्तदवलम्ब्यायं ग्रन्थः । इन्द्रस्य दुहिता ज्येष्ठा विषानाम महातपाः । तस्याः पुत्राः समुत्पन्ना विश्वेदेवात्रयोदश । इत्या दिवचनलिखनं कस्य चिन्नातिप्रामाणिकमिव प्रतिभाति । अमरटीकादो आदित्या द्वादश प्रोक्ता विश्वेदेवा दश स्मृता इति दशयोक्तेः श्राद्धकल्पश्राद्धचिन्तामण्याद्युदाहृतवचनादपि दशत्वप्रतिपत्तेश्च अथ खयम्भुवा तपालनाय लिहिता इति सन्निहितवाक्यार्थान्वितखार्थकत्वेन विश्वेदेवा इति पदस्य निराकासत्वे पुरूरवोमाद्रवसावित्यनेनान्वयस्यासम्भवात् पुरूरवोमादवसावित्यस्य च पार्वगे समुदाहृतावित्येतदर्थान्वितस्वार्थकतया पूर्णाकाङ्गत्वेन विश्वेदेवा इत्यनेनान्वयासम्भवाच पुरूरनोमाद्रवती विश्वेदेवा इति लिखनमसातमिति चेन । पार्वण इत्यस्य हि पुरूरवोमाद्रवसावित्यनेनान्वयः समुदाहृतावित्यनेन वा । नायः साङ्गषट्पुरुषश्राद्धविशेषस्य घटकतायास्तत्प्रयोजकताया वा पुरूरवोमाद्रवस्त्वादिना विश्वेषां देवानामेतद्वचनार्थप्रतिपत्तिपूर्व प्रत्येतुमशक्यत्वात् विधिमन्त्रलिङ्गादितो विश्वेदेवत्वेनैक कर्मणि देवतालप्रतिपत्तेः पात्रणे पुरूरवोमाद्रवसावित्यस्योद्देश्यसमर्पकस्वासंभवात् विश्वेदेवत्वेन देवतात्वप्रतिपत्तेरेव पार्वण इत्यस्य न विधेयत्वमपि । नापि द्वितीयः तावन्मात्रस्य साकाङ्कत्वेन वाक्यार्थीपर्यवसानादध्याहारस्य दुष्टवात्तयोर्विश्वेदेवखस्यानुभवसिद्धशाब्दत्वकस्यालाभप्रसशाच । तस्माधोसी गणो विश्वेदेवपदनिर्देश्यस्तत्र ऋतुदक्षादियुग्मस्येष्टिवाद्धादौ मुख्यत्व चिन्तनीय मित्येवंपरताया उक्तवचनस्य तान्त्रिकसिद्धाया निर्वाहाय च पार्वणे विश्वेदेवाः पुरूरवोमाद्रवसौ समुदाहृतावित्येवमन्वयो वाच्यः तदर्थमुत्तरवाक्ये विश्वेदेवा इति पदमनुकर्षणीयं नचात्र मुख्यत्वेन चिन्तनीय पुरूरयःप्रभृतिघटितसमुदाये पुरूरवःप्रभृतिपदस्य लक्षणैव दोष इति वाच्यं प्राधान्येन व्यपदेशा भवन्तीति न्यायेन मुख्यत्वस्यानुष्ठानोपयो. गित्वेनावश्यकतया चिन्तनीयत्वस्य च सुग्रहतया प्रामाणिकत्वात् तत्र तात्पर्यस्य तदनुपपत्तेरुसलक्षणाया निर्दोषत्वादिति ।।
द्वित्वविशिश्योः पुरूरवोमाद्रवःप्रभृत्योरिति । नच बहुत्व विशिष्टेषु कथं द्वित्व विशिष्टस्यान्वयस्तथासति द्वौ बहव इति प्रयोगापत्तरिति वाच्यम् । विशेषणतयेत्यस्य परम्परया विशेषणत्वपरत्वेनादोषात् । प्रभृतिपदाक्रतुदक्षादीनां सङ्ग्रहः पुरूरवःप्रभृतिपदं पुरूरव:प्रभृतिघटितसमुदायपरम् माद्रवःप्रभृतिपदं च मादवःप्रभूतिघटितसमुदायपरं तादृशसमुदायत्वद्वये च द्वित्वान्वयो विवक्षित इति कश्चित् तन्न तादृशसमुदायत्वयोवलक्षण्यासंभवेन द्वित्वान्बयासंभवात् । व्यक्तिभेदमादाय बहुत्वस्यापि योग्यतया सार्थकबहुवचनत्यागे बीजाभावात् द्विस्वविशिष्टयोरित्यादिग्रन्थे कुसृष्टिकल्पनापत्तेश्च । शाब्दप्रमाकरणत्वं रेति । अथ किताबछान्दप्रमाकरणत्वं शाब्दत्वप्रमावोभयधर्मावच्छिन्नकार्यतानिरूपितकारणत्वम् । प्रमानिष्ठशाब्दत्वा