________________
गूढार्थतत्वालोकव्याख्यासहितः ।
पादानेप्यावश्यकत्वेन तावतैव स्तोकमत्त इत्यादेरपि वारणसंभवेन तद्विवक्षावैफल्यं दुर्वारम् । अथ शोभना रामदारा इत्यत्र समामवचनत्वानुपपत्तिः विशेष्यवाचकपदोत्तरविभक्तितात्पर्य विषयसंख्याया अप्रसिद्धत्वात् नच खतात्पर्य विषयसंख्याविरुद्धसंख्याविवक्षाविषयत्वसंबन्धावच्छिन्नप्रतियोगिताकस्य विशेष्यवाचकपदोत्तरविभक्त्यभावस्य विवक्षितत्वान्नानुपपत्तिरिति वाच्यं रामदारा मैथिलीत्यत्रैकत्व विवक्षा विषयकवचनान्ते मैथिलीति विशेषणवाचकपदे दारपदोत्तरविभक्त्यभावसत्वेन समानवचनत्वापत्तेरितिचेन खतात्पर्य विषयसंख्याऽविरुद्धत्वसम्बन्धावच्छिन्न प्रतियोगिताकविभक्त्यभाववत्संख्याविवक्षा वि. षयत्वाभावस्य विवक्षितत्वादुक्तदोषाभावात् अथ दारपदस्य विशेषणपदत्वे मैथिली रामदारा इत्यादी समानवचनत्वापत्तिरिपदोसरविभक्त्या संख्याया अविवक्षितत्वात् नव संख्याविवक्षायोग्य विभक्तिकत्वं विवक्षणीयं दारपदोत्तर विभक्त्या कुत्रापि संख्याजोधस्यादर्शनेन दारपदे तादृश विभक्तिकत्वविरहाददोष इति वाच्यं संभवतिसार्थकत्वे निरर्थकत्वस्यान्यास्यतया दारैकत्वस्थले योग्यताविरहेण बहुत्वस्य विवक्षितुमशक्यत्वेपि दारबहुत्वस्थले योग्यतया बहुत्वस्य विवक्षणीयत्वेन सर्वत्रैव दारपदोत्तरविभक्तौ संख्याविवक्षायोग्यत्वं विवक्षाविषयतावच्छेदकानुपूर्वीरूपमस्तीत्युक्तदोषस्य दुरुद्धरत्वात् अत एवोक्तमने अबादिपदोत्तरबहुवचनमपि क्वचिनिरर्थकमेवेत्यत्र क्वचिदितिचेनोक्तस्थलेझिाप्तमपि समानवचनत्वं दाराः पुंसि च भूम्येवेल्याउनुशासनेन बाधित मिति न प्रसज्यते नच व्यभिचारोऽसति बाधक इति व्याप्यशरीरे वक्तव्यत्वात् तथाच नियतवचनकान्यत्व विशेषिताविवक्षितस्वस्य व्याप्यत्वम्पर्यवसितं नियतवचनकत्वञ्च धर्मविशिष्टत्वं वैशिष्ट्यच्छ खावच्छिन्नपरत्वस्वविशिष्टशाब्दजनकतावच्छेदकविभक्तिनिष्ठविषयतानिरूपिताव्यवहितोत्तरत्वसम्बन्धावच्छिन्न विषयतावच्छेदकानुपूर्वीमत्वोभयसम्बन्धेन विभक्तिविषयतायों खवैशिष्ट्यं च स्वावच्छिन्नविषयतानिरूपितसंख्यानिष्ठप्रकारताप्रयोजकविषयताबस्वसम्बन्धावच्छिन्नप्रतियोगिताकखाभावकत्वसम्बन्धेन विषयतावत्वञ्च खसमानाधिकरणसुविभाजकधर्मसामानाधिकरण्यखावच्छेदकानवच्छिन्नत्वस्यनिरूपिताव्यवहितोत्तरखसम्बन्धावच्छिन्नविषयतावच्छेदकावच्छिन्नविषयतानिरूपितत्वैतन्नितयसम्बन्धेन दारपदोसरजसादिविभक्ति विषयतायां दारसदृशाचरण कर्तृत्वावच्छिन्नविशेष्यतानिरूपितसंख्यानिष्टप्रकारताप्रयोजकदारपदनिष्ठ विषयतानिरूपितखादिनिष्ठविषयतावत्वसत्वेपि स्त्रीत्वावच्छिन्नपरदारशब्दस्य दारसदृशाचरणकर्तृत्वावच्छिन्नपरत्वाभावेन तद्धर्मस्यानुपादेयत्वाद्भवति नियतवचनकत्वं नच प्रथमसम्बन्धानुपादानेऽपि स्त्रीत्वरूपधर्ममादाय नियतवचनत्वं संभव: सेवेति वाच्यं किबन्ताद्धनि निष्पमस्य दारपदस्यापि स्त्रीत्वरूपधर्ममादाय नियतवचनकत्वापत्त्या धर्भसामान्याभाववद्विभक्तिविषयताघटितस्यैव नियतवचनकत्वस्योपादेयत्वादन्यथापत्तिवारणायैवास्तु प्रथमसम्बन्धोपादानं दारपदोत्तरजसादिविषयतायां तादृशसंख्यानिष्टविषयताप्रयोजकशसादिनिष्ट विषयतावत्त्वधारणाय त्रितयसंबन्धघटकप्रथमोपादानं जविषयतायां जस्विषयतावत्ववारणाय द्वितीयस्योपादानं । स्यादिपदोत्तरवादिनिष्ठविषयतावत्ववारणाय तृतीयस्य च । अतएव शतं ब्राह्मणा इत्यत्रापि न समानवचनलप्रसङ्गः शतपदोतरविभक्त्या शतत्वावच्छिन्ने संख्यान्वयस्यादर्शनेन शतपदोत्तरविभक्तिः विषयतायाश्शतत्वरूपधर्मविशिष्टत्वेन नियतवचनकत्वस्य शतपदे सत्रात् । नच शतपदोत्तरविभक्त्यैकलस्स विबक्षितखादेव न समानवचनलप्रसङ्ग इति वाच्यम् । तथासत्येकत्वाविवक्षायां शतानि ब्राह्मणा इत्यस्यापत्तेः 1.नचेष्टापत्तिः । विंशत्याद्यास्सदैकत्व इत्यनुशासनविरोधात् तब्येकत्वविवक्षौदासीन्येन नियतैकवचनान्तत्वं विशल्यादिशब्दानामाह । विवक्षादरे तु तत एवैकवचनप्राप्ताबनुशासनवैफल्यात् । किंच शतत्वएकत्वान्वये संख्यायाः विभक्त्यर्थसंख्यान्वयित्वरूपस्यावश्यविवक्षणीयप्रधानत्वस्य सत्वेन शतशब्दस्य प्रधानीभूतसंख्यार्थकत्वरूपस्य संख्यार्थकत्वस्य सत्तया प्रातिपदिकान्तस्य षष्ट्यर्थद्वारकखार्थान्वयएव तत्र साकाङ्कत्वेन ब्राह्मणानां शतमित्येव स्यानतु शतं ब्राह्मणा इति । नच प्राधान्येन संख्याबोधकमेव तदिति वाच्यम् । गवां शतं ददातीत्यस्यानुपपत्तेः । नचैवं ते शतानि वयं पञ्चेत्यादेः का गतिरिति वाच्यम् । तेषामारीत्वे ततएव साधुलादुक्ताविवक्षितत्वस्य समानवचनत्यप्रयोजकत्वपक्षे तत्तद्भेदविशिष्टनियतवचनकत्वाभावस्य प्रवेश्यत्वात्तत्र समानवचनत्वोपपत्तेः । अतएवासंख्याताः सहस्राणि ये रुद्रा इति वैदिकप्रयोगेऽपि नानुपपत्तिः । ते शतानी. स्यादीनामनार्षत्वे स्वप्रामाण्यमेव । अथैकत्वाविवक्षया जात्सेकल विवक्षया वा शतं ब्राह्मण इति कथं न प्रयोग इति चेन सार्थकरवसंभवे निरर्थकतायारस्वायत्ते शब्दप्रयोगे सार्थक विहाय निरर्थकप्रयोगस्य चान्याय्यत्वाजात्येकत्वविवक्षाया. एकदेशान्वयदुष्टतया सिद्धप्रयोगोपपादकत्वेऽपि स्वारसिकप्रयोगस्य तन्मूलताया वतुमशक्यत्वाच. बहुत्वविवक्षया बहुवचनप्रयोगस्यैव प्राप्तत्वादिति । विषयताबदन्यत्वं नियतवचनकत्वं विषयतावत्वं च खावच्छेदकावच्छिन्नपरत्वस्वनिरूपकबोध. अनफत्वप्रकारकतात्पर्यविषयतावच्छेदकानुपूर्वीमत्वखविशिष्टविषयताकबोधजनकत्वप्रकारकतात्पर्य विषयतावच्छेदकानुपूर्वीम-.. वैतत्रितयसंबन्धेन खवैशिष्ट्यं च स्वनिरूपितप्रकारतावच्छेदकसंख्यात्वव्याप्यधर्मातिरिक्ततादृशधर्मावच्छिन्नप्रकारताकत्वखावच्छेदकावच्छिन्नत्वोभयसंबन्धेन बोध्यमित्यपि कश्चित् । __ अथवा विशेष्यवाचकपदोत्तरविभक्त्यर्थसंख्यानिष्टप्रकारतानिरूपितविशेष्यतावत्वमपि विशेषणवाचकपदे विशेषणम् । विशेष्यतावत्ता व स्वावच्छेदकावच्छिन्नपरत्वख निरूपकबोधजनकत्वप्रकारकतात्पर्यविशेष्यतावच्छेदकानुपूर्वीमलोमयसंवन्धेन । तथाच दारपदस्व विशेषणवाचकत्वे एकवचनान्ते विशेष्यवाचकपदे एकवचनार्थकत्वनिष्ठप्रकारतानिरूपितस्य स्त्रीत्वावच्छिन्न
२ व्युत्प०