Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 14
________________ १० व्युत्पत्तिवादः । त्वनियमः । अतएव पुरूरवोमाद्रवसौ विश्वेदेवा इत्यादौ द्वित्वविशिष्टयोः पुरूरवोमानवःप्रभृत्योविशेषणतया विवक्षितत्वात्तद्वाचकस्य पदस्य द्विवचनान्तता । घेदाः प्रमाणमित्यत्र च विशेषणपदोत्तरविभक्तथा बहुत्वविरुद्धमेकत्वं विवक्षितं तच प्रकृत्यर्थतावच्छेदके प्रमितिकरणत्वेऽन्वेति । शाब्दप्रमाकरणस्वं च शब्दत्वावच्छिन्नं यावच्छन्दनिष्ठमेकमेवेति नायोग्यता । नच पदार्थः पदार्थना विशेष्यत्वस्य स्वनिरूपकबोधजनकत्वेन तात्पर्य विषयतावच्छेदकानुपूर्वीमत्व विरहात् । दारसदृशाचरणकर्तृत्वाद्यवच्छिन्नविशेष्यत्वस्य च स्वावच्छेदकावच्छिन्नपरत्वविरहान्न सत्वमिति न समानवचनत्वप्रसङ्गः । विशेष्यवाचकपदे बहुवचनान्ते विशेषणवाचकदारपदे उक्तविशेष्यत्वस्य सत्वाद्भवत्येव समानवचनत्वम् । दारपदस्य विशेष्यवाचकपदत्वे च शोभनादिविशेषणवाचकपदे तादृश विशेध्यतावस्वस्याविवक्षितसंख्याकविभक्तिकत्वस्य च सत्वात्समानवचनत्वम् । संख्याया विवक्षितरले. व तादृश विभक्तिकत्वाभावान समानवचनत्वम् । नच मैथिल्यादिपदोत्तरविभक्त्या यदा नैकत्वादिकं विवक्षितं तदा मैथिल्यो रामदाराः कुन्तीमायः पाण्डुदारा इत्यादिप्रयोगापत्तिरिति वाच्यम् । प्रधानीभूतविशेष्यगतत्वेन प्राक्प्रयोक्तव्यविशेष्यवाचकपदोत्तर विभक्त्या संख्यायाः सति योग्यत्वेऽवश्य विवक्षणीयतया तत्समानाधिकरणसंख्याया विशेषप्रतिपत्त्यनाधायकस्वेन दुष्परिहरनिरर्थककरूपतया विशेषण विभक्त्या विवक्षितत्वासंभवेऽपि यत्रायोग्यतया विशेष्यवाचकपदोत्तरविभक्त्या संख्या न विवक्षिता तत्र योग्यायास्संख्याया विशेषणविभत्तनिरर्थकत्ववारणायावश्य विवक्षणीयत्वात् । साथैकप्रयोगसंभवे निरर्थकप्रयोगस्यान्याय्यवादुफस्थले एकरवद्वित्वार्थकयोरेकवचन द्विवचनयोरेव प्रसक्तः । नचैवं घटरवादावेकत्वसंख्याया योग्याया विवक्षया सार्थकैकवचनप्रयोगसंभचे निरर्थकबहुवचनप्रयोगस्यान्याय्यतया एते घट इति प्रयोगापत्तिरिति वाच्यम् । एकदेशान्वयस्य व्युत्पत्तिविरुद्धत्वेन प्रामाणिकप्रयोगोपपत्त्यर्थ क्वचित्तद्विवक्षायास्संभवेऽपि स्वरसतस्तादृश विवक्षाया असंभवेनागत्या निरर्थकस्यैव प्रयोकव्यत्वे समानवचनप्रयोगस्यैव न्याय्यत्वादितिदिक् । पुरुरवोमाद्रवसौ विश्वेदेवा इति । अत्र पिशाचा राक्षसा यक्षा भूता नानाविधास्तथा । प्रतिलम्पन्ति सहसा श्राद्धमारक्षवर्जितम् । तत्पालनाय विहिता विश्वेदेवाः स्वयंभुवा । इष्टिश्राद्धे ऋतुर्दक्षः सत्यो नान्दीमुखे वसुः । नैमित्तिके कालकामौ काम्ये च धुरिलोचनौ । पुरूरवा माद्रवाश्च पार्वणे समुदाहृतौ ! उत्पत्तिं नाम चैतेषां न विदुर्थे द्विजातयः । अय. मुच्चरणीयस्तैः श्लोकः श्रद्धासमन्वितैः 1 आगच्छन्तु महाभागा विश्वेदेवा महाबलाः । ये यत्र योजिताः श्राद्ध सावधाना भवन्तु ते इत्यस्ति वचनम् तत्र क्वचित्पुरूरवोमाद्रवसावित्यप्यस्ति पाठस्तदवलम्ब्यायं ग्रन्थः । इन्द्रस्य दुहिता ज्येष्ठा विषानाम महातपाः । तस्याः पुत्राः समुत्पन्ना विश्वेदेवात्रयोदश । इत्या दिवचनलिखनं कस्य चिन्नातिप्रामाणिकमिव प्रतिभाति । अमरटीकादो आदित्या द्वादश प्रोक्ता विश्वेदेवा दश स्मृता इति दशयोक्तेः श्राद्धकल्पश्राद्धचिन्तामण्याद्युदाहृतवचनादपि दशत्वप्रतिपत्तेश्च अथ खयम्भुवा तपालनाय लिहिता इति सन्निहितवाक्यार्थान्वितखार्थकत्वेन विश्वेदेवा इति पदस्य निराकासत्वे पुरूरवोमाद्रवसावित्यनेनान्वयस्यासम्भवात् पुरूरवोमादवसावित्यस्य च पार्वगे समुदाहृतावित्येतदर्थान्वितस्वार्थकतया पूर्णाकाङ्गत्वेन विश्वेदेवा इत्यनेनान्वयासम्भवाच पुरूरनोमाद्रवती विश्वेदेवा इति लिखनमसातमिति चेन । पार्वण इत्यस्य हि पुरूरवोमाद्रवसावित्यनेनान्वयः समुदाहृतावित्यनेन वा । नायः साङ्गषट्पुरुषश्राद्धविशेषस्य घटकतायास्तत्प्रयोजकताया वा पुरूरवोमाद्रवस्त्वादिना विश्वेषां देवानामेतद्वचनार्थप्रतिपत्तिपूर्व प्रत्येतुमशक्यत्वात् विधिमन्त्रलिङ्गादितो विश्वेदेवत्वेनैक कर्मणि देवतालप्रतिपत्तेः पात्रणे पुरूरवोमाद्रवसावित्यस्योद्देश्यसमर्पकस्वासंभवात् विश्वेदेवत्वेन देवतात्वप्रतिपत्तेरेव पार्वण इत्यस्य न विधेयत्वमपि । नापि द्वितीयः तावन्मात्रस्य साकाङ्कत्वेन वाक्यार्थीपर्यवसानादध्याहारस्य दुष्टवात्तयोर्विश्वेदेवखस्यानुभवसिद्धशाब्दत्वकस्यालाभप्रसशाच । तस्माधोसी गणो विश्वेदेवपदनिर्देश्यस्तत्र ऋतुदक्षादियुग्मस्येष्टिवाद्धादौ मुख्यत्व चिन्तनीय मित्येवंपरताया उक्तवचनस्य तान्त्रिकसिद्धाया निर्वाहाय च पार्वणे विश्वेदेवाः पुरूरवोमाद्रवसौ समुदाहृतावित्येवमन्वयो वाच्यः तदर्थमुत्तरवाक्ये विश्वेदेवा इति पदमनुकर्षणीयं नचात्र मुख्यत्वेन चिन्तनीय पुरूरयःप्रभृतिघटितसमुदाये पुरूरवःप्रभृतिपदस्य लक्षणैव दोष इति वाच्यं प्राधान्येन व्यपदेशा भवन्तीति न्यायेन मुख्यत्वस्यानुष्ठानोपयो. गित्वेनावश्यकतया चिन्तनीयत्वस्य च सुग्रहतया प्रामाणिकत्वात् तत्र तात्पर्यस्य तदनुपपत्तेरुसलक्षणाया निर्दोषत्वादिति ।। द्वित्वविशिश्योः पुरूरवोमाद्रवःप्रभृत्योरिति । नच बहुत्व विशिष्टेषु कथं द्वित्व विशिष्टस्यान्वयस्तथासति द्वौ बहव इति प्रयोगापत्तरिति वाच्यम् । विशेषणतयेत्यस्य परम्परया विशेषणत्वपरत्वेनादोषात् । प्रभृतिपदाक्रतुदक्षादीनां सङ्ग्रहः पुरूरवःप्रभृतिपदं पुरूरव:प्रभृतिघटितसमुदायपरम् माद्रवःप्रभृतिपदं च मादवःप्रभूतिघटितसमुदायपरं तादृशसमुदायत्वद्वये च द्वित्वान्वयो विवक्षित इति कश्चित् तन्न तादृशसमुदायत्वयोवलक्षण्यासंभवेन द्वित्वान्बयासंभवात् । व्यक्तिभेदमादाय बहुत्वस्यापि योग्यतया सार्थकबहुवचनत्यागे बीजाभावात् द्विस्वविशिष्टयोरित्यादिग्रन्थे कुसृष्टिकल्पनापत्तेश्च । शाब्दप्रमाकरणत्वं रेति । अथ किताबछान्दप्रमाकरणत्वं शाब्दत्वप्रमावोभयधर्मावच्छिन्नकार्यतानिरूपितकारणत्वम् । प्रमानिष्ठशाब्दत्वा

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 218