Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 12
________________ व्युत्पत्तिवादः । त्वावच्छिन्नभेदस्यैकत्वेविरहात्समानवचनत्वापत्तेनविकाशः तन्निवेशे न्व तात्पर्यविषयतावच्छेदकसंख्यात्वव्याप्यधर्मावच्छि नभेदस्य विवक्षितत्वेन तात्पर्यविषयसंख्याभेदासत्त्वेऽपि न क्षतिः । विशेष्यवाचकपदोतरविभक्तितात्पर्यविषयसंख्याविरुद्धस संख्यात्वेन प्रवेशात्तादात्म्य स्यविशेषणविभक्त्यर्थतापक्षे विशेषणपदोत्तरविभक्त्या तादात्म्यस्य सर्वत्र विवक्षिततया विशेषण विभक्तिमात्रे तस्यासत्वेऽपि न क्षतिः । ८ विशेषणवाचकपदोत्तरत्वेनानुसन्धीयमानविभक्त्या अविवक्षितत्वदलेऽनुसन्धीयमानस्य विभक्तित्वेनाप्रवेशे तादृशानु सन्धीयमानयत्किचिद्व्यक्त्याऽविवक्षितत्वप्रवेशे प्रकृष्टा मितिर्यस्मादिति विग्रहानुसारात्प्रमितिजनकार्थकेन प्रमितिपदेन तादृश जनकलांशे एकत्वतात्पर्यकखन्तेन घटितस्य वेदवाक्यानि प्रमितिजायन्त इति वाक्यस्य निराकाङ्गत्वप्रसङ्गः प्रमितिपदोत्तरत्वेन ज्ञायमानज्ञाधातुनाऽविवक्षितत्वस्यैकत्वे सत्त्वेन समानवचनत्वप्रसङ्गात् विशेषणपदाव्यवहितोत्तरत्वेनानुसन्धीयमानपदसामान्या विवक्षितत्वस्य प्रवेशे च यत्र विशेषणपदाव्यवहितोत्तरत्वेनैकविभक्तिव्यक्तिरेव ज्ञाता तत्र तद्विभक्तिव्यक्तिविवक्षितत्वत्वस्य लघो रतिप्रसङ्गाद्यनापादकस्य सत्तया तादृशाभावाप्रसिद्धिः स्यात्तादृशानुसन्धीयमानत्वमुपलक्षणीकृत्य तत्तद्व्यक्तिविवक्षितत्वा भावकूटनिवेशे च विभक्तित्वप्रवेशापेक्षया न लाघवम् अविवक्षितत्वस्य समानवचनत्वप्रयोजकत्वपक्षे समानवचनकविवक्षितसंख्याकलुप्तविभक्त्यन्तविवक्षित विरुद्धसंख्या कपदपूर्ववर्तिविशेषणपदघटिते वाक्ये समानवचनत्वानुपपत्तिश्च स्यादिति विभक्तिरवेन प्रवेशः तत्र चानुसन्धीयमानत्वस्योपलक्षणत्वेऽपि न क्षतिः । तादृशविरुद्ध संख्याविवक्षाविषयत्वाभाववद्विभक्त्य व्यवहितपूर्वत्वेनानुसन्धीयमानत्वस्य विशेषणपदनिष्ठस्य तद्दलार्थत्वपक्षेऽपि विभक्तित्वेन प्रवेशस्यैवमेव फलमनुसन्धेयमिति अथ विरुद्धान्तोपादानमफलमिति चेन्न उक्ताविवक्षितत्वस्य समानवचनत्वव्यापकत्वपक्षे वेदत्वसामान्य एकत्वविवक्षया प्रयुक्ते वेदः प्रमाणमिति बाक्ये समानवचनत्वानुपपत्तिवारणाय तत्सार्थक्यसम्भवात् तस्य समानवचनत्वव्यापकत्वाभावपक्षे च शाब्दप्रयोजकसमानवचनत्वस्य सौकर्येण शिष्याणां ज्ञानाय तद्वद्याप्यस्येवासमानवचनत्वस्यापि तथा ज्ञानाय तथाप्यस्यापि वाच्यतया संख्याविवक्षामात्रस्य तथात्वासम्भवेन तादृशविरुद्धत्व विशेषितसंख्या विवक्षाया एव तव्याप्यत्वेनोपादानं कार्यमिति तत्र ग्रन्थगौरवप्रसङ्गस्स्यादिति तद्भयेनासतिबाधकै विशेषणविशेष्यपदत्वरूपप्रसञ्जकप्रसक्षितस्य समानचचनत्वस्य वारणायावश्यविशेषणीयै प्रसजके समानवचनत्वव्याप्तावनुपयुक्तेनोपरञ्जकभूतेन विरुद्धवान्तेन घटितस्य विशेषणस्योपादानं तथा सत्यर्थत एवासमामवचनत्वव्याप्यस्यापि लाभेन तदुत्यपेक्षाविरहान ग्रन्थगौरवम् । दृश्यते चैवमुक्तिर्यद्विषयत्वेन लिङ्गज्ञानस्येत्यादौ यत्तु स्तोकं पचतइत्यादौ समानवचनत्वप्रसङ्गवारणाय तदुपादानं तथासति विशेष्यवाचकपदाव्यवहितो. त्तरत्वस्य विभक्तौ विरहान दोषः नच रामाणामित्यादौ प्रकृतिप्रत्यययोरागमेन व्यवहितत्वेनाव्यवहितोत्तरत्वं न स्यादिति यद्यध्यवधानेन प्रकृतिप्रत्यययोरन्वयबोधौपयिकाकाङ्क्षा निर्वाह्यते तत्तद्भिन्नप्रकृत्युत्तरानुत्तरत्वे सति प्रकृत्युत्तरत्वस्यैव प्रकृत्यव्यवहितोतरत्वस्य वाच्यतयागमा देशविकरणादिव्यवधानेप्यव्यवहितोत्तरत्वं सम्भवत्येवेति न स्तोकम्पचत इत्यादौ तद्वारर्णमयस्तोकं मस इत्यादौ नास्त्येव व्यवधानमिति सुतरामिति वाच्यं विशेष्यात्वमित्वेन विभक्तितात्पर्यविषयत्वस्य विवक्षणे दोषाभावात आख्यातार्थसंख्याया धात्वर्थेनन्वयादिति तदसत् विशेध्यान्वयित्वेन संख्याविषयक तात्पर्यविषयविभक्तिकविशेष्यपदस •मभिव्याहतत्वविशिष्टो का विवक्षितत्वोपादानादेवोक्तदोषवारण संभवे तादृशविरुद्धयोपादानकथन्ताया अनिवृत्तेः विशेष्यवा चक्रपदोत्तरसुप्समभिव्याहतत्वोपादानादेव वोक्तदोषवारणसम्भवे विरुद्धत्वांशोपादानवैफल्यशङ्काया अनुद्धारात् । चच किवन्तप्रातिपदिकोत्तरसुविभक्तेः किपो लुप्तत्वेन धारवव्यवहितोत्तरतया तत्र का गतिरिति वाच्यं विशेष्यवाचकपदप्रकृतिकवस्य विवक्षितत्वात् तत्वश्च विशेष्यवाचकपदार्थशाब्दबुद्धित्वावच्छिन्नजन्यतानिरूपिता याव्यवहितोत्तरत्वसम्बन्धावच्छिन्न वि. शेष्यवाचकपदनिष्टप्रकारत्वावच्छिन्नकारणता तदवच्छेदकविशेष्यतावत्त्वम् । नहि धात्वर्थशाब्दबोध आख्यातकृदादिविशेष्यकधातुप्रकारकनिश्चयमिव धातुप्रकारकसुप्तद्धितादिविशेष्यकनिश्चयमपिकदाचिदपेक्षते इति न धातुप्रकृतिकत्वस्य सुपि सम्भवः । आकाहाज्ञानकारणतावच्छेदकशरीरे तत्र तत्रैतादृशप्रकृतिकत्वस्याप्रवेशनञ्च भट्टाचार्याणामेतदज्ञानकाले शाब्दानुपपत्तिभयेनैवेत्युतधर्मस्य कारणतावच्छेदकाघटकतया तत्रोक्तप्रकृतिकत्वस्य प्रवेशे नास्ति कापि क्षतिः । यद्वा तदव्यवहितोत्तरत्वं तदुत्तरत्वेनानुसन्धीयमानोत्तरत्वेनाननुसन्धीयमानत्वे सति तदुत्तरत्वेनानुसन्धीयमानत्वमिति धातूत्तरत्वेनानुसंधीयमानक्विप् प्रत्ययोत्तरत्वेनानुसन्धीयमानत्वस्यैव सुपि सत्त्वात् न धातुप्रकृतिकत्वस्य तत्र प्रसङ्गः । अथ विशेषणविभक्तेरभेदार्थकतापक्षे विशेष्यविशेषणपदत्वस्योत्ताविवक्षितत्वस्य च नीलो घट इत्यादाविव प्रकृत्या चारव इत्यत्रापि सत्तया समानवचनत्वप्रसङ्गः । नच विशेष्यवाचकपदोत्तर विभक्तिवृत्तिसुब्विभाजकधर्मवत्त्वप्रवेशे नायं दोष इति वाच्यं प्रकृत्या चारुभिरित्यत्र दोषादिति चेन्न विशेष्यवाचकपदोत्तर विभक्तिवृत्तिमुब्विभाजक धर्मशून्यविभक्तिप्रकृतिविशेष्यवाचकपदसमानानुपूर्व किपदार्थधर्मिकाभेदबोधानुकूलाकाङ्क्षाघटकविशेषणवाचकपदसमानानुपूर्वीकपदप्रकृतिकवृत्तिसुविभाजकधर्मशून्यत्वस्य विवक्षितत्वात् नहि प्रकृत्या चारुभिरित्यादौ विशेषणविभक्तौ तादृशधर्मशून्यत्वसंभवः प्रकृत्या चारुभिरित्यत्रेव प्रकृत्या चारव इत्यत्राप्यभेदबोधोदयात् नीलो घट इत्यादौ च भवत्येव तत्संभवः नहि नीलो घटइत्यत्रेव जालपि नीलो घटायेत्यत्राऽभेदबोधः एवञ्चोतनिवेशस्य यथोक्तविरुद्धवान्तो

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 218