Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 16
________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः काम इव स्वैरं रममाणश्च स कियन्तमपि कालं मुहूर्त्तवद् गमयामास। अन्यदा च सोऽश्वं वाहयन्नुद्यानं ययौ । तत्र च चतुर्ज्ञानधरं वसुन्धरं मुनि देशनां कुर्वन्तं ददर्श । स तं प्रणम्य यथास्थानमुपविश्य च भक्त्या कर्णप्रियां देशनामश्रौषीत् । तत्र च विक्रमधनो धारिणी धनवती चाऽप्यागत्य मुनि नत्वा सर्वे धर्मदेशनां शुश्रुवुः । देशनान्ते च विक्रमधनोऽपृच्छत्-'धने गर्भस्थेऽस्य माता स्वप्ने रसालतरं ददर्श । तत्र कोऽपि पुरुष आख्यत्-'एतस्य नव वारान् पुनः पुनरन्यत्राऽन्यत्र रोपणे उत्तरोत्तरमत्कष्टं फलं भविष्यति' । तत्र नववाररोपणस्य किं फलमिति प्रसद्याऽऽख्याहि' । स मुनिरपि दूरे स्थितं केवलिनं मनसोपयुज्य सम्यग्ज्ञानाय तदपृच्छत् । केवल्यपि तत्प्रश्नं केवलज्ञानेनाऽवधार्याऽरिष्टनेमेनवभवात्मकं चरितमाख्यत् । स मुनिश्च मनःपर्यवा-ऽवधिभ्यां तज्ज्ञात्वोवाच-'तव सुतो धन एतद्भवानन्तरं नवभवानुत्कृष्टान् यास्यति । नवमे भवे चाऽरिष्ट नेमिनामा यदुवंशोत्पन्नो द्वाविंशस्तीर्थकरो भविष्यति' । तन्मुनिवचनं श्रुत्वा च सर्वे मुमुदिरे । तदा च सर्वेषां जिनधर्मेऽधिक: सद्भावोऽजायत । विक्रमधनश्च तं नत्वा धनादिभिः सह स्वं गृहं ययौ । मुनिरपि विहारक्रमादन्यतो ययौ । धनश्च धनवत्या सह रममाणो विषयसुखमन्वभूत् । एकदा च स जलक्रीडां कर्तुं धनवत्या सह क्रीडासरोऽद्य जगाम । तत्राऽशोकतरुतले शान्तो धर्म-तृषादिभिर्मूच्छितः स्रवद्रुधिराक्तपादो भुवि पतन् कोऽपि मुनिर्धनवत्या धनस्य दर्शितः । तौ च ससम्भ्रमं तन्मुनेरुपचारं चक्रतुः । शिशिरोपचारैश्च मुनिश्चैतन्यं अष्टमं पर्व - प्रथमः सर्गः प्राप । धनश्च स्वस्थं तं प्रणम्योवाच-'अहं धन्योऽस्मि । यत्पृथिव्यां कल्पदुम इव मया प्राप्तोऽसि । किन्तु मया पृच्छ्यसे यदियमवस्था ते कुत: ? यदि न गोप्यं तर्हि कथय । ततो मुनिरुवाच-'अहं मुनिचन्द्रनामैकदा विहरन् सार्थभ्रष्टोऽरण्ये दिग्भ्रमादितस्ततोऽटन्निहाऽगां, क्षुत्-तृष्णार्त्तश्च मूच्छितो भुव्यपतम् । ततः परं भवदुपचारेण लब्धसंज्ञो जातोऽस्मि । तव धर्मलाभोऽस्तु । यथाऽहं क्षणाद् नष्टसंज्ञोऽभूवम्, इहभवे तथा सर्वं तथैव । तस्माच्छुभमिच्छुना धर्म आराधनीयः' । एवमुक्त्वा स मुनिचन्द्रो मुनिः सम्यक्त्वमूलं जिनोदितं गृहिधर्म तस्याऽऽख्यत् । स धनोऽपि च धनवत्या सह तं धर्मं प्रतिपन्नवान् । तथा तं मुनि गृहे नीत्वा भक्त पानाद्यैः प्रत्यलाभयत् । तथा धर्मशिक्षार्थं तं मुनि कञ्चित् कालं स्वगृह एव वासयामास । मुनिश्च धनमनुज्ञाप्य पुनः स्वगच्छेनाऽमिलत् । धनवती-धनौ च श्रावकधर्माणौ जातौ । तदेवमेक धर्मानुरागात् तयोः पूर्वतोऽपि प्रेम ववृधे । पित्रा चाऽन्तकाले राज्येऽभिषिक्तकः स धनः श्रावकधर्मेण सह महीमपालयत् । एकदा चोद्यानपाल आगत्योद्यानगह्वरे समागतं वसुन्धरमुनिं धनाय न्यवेदयत् । धनश्च धनवत्या सह सद्यो गत्वा नत्वा देशनामश्रौषीत् । भवोद्विग्नश्च धनो राज्ये धनवतीकुक्षिजं जयन्तं नाम पुत्रं निधाय धनवत्या सह वसुन्धरमुनेव्रतं गृहीतवान् । तमनुसृत्य तभ्रातरावपि धनदत्त-धनदेवौ व्रतं जगृहतुः । धनश्च गुरुं सेवमानो दुस्तपं तपस्तेपे । तथा गीतार्थः सन् गुरुणाऽऽचार्यपदेन योजितः । स च बहून् नृपान् प्रतिबोध्य दीक्षित्वाऽन्ते धनवत्या सहाऽनशनमग्रहीत् । मासान्ते च तौ द्वौ विपद्य सौधर्मे महद्धिकौ शक्र

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159