Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 67
________________ १०१ १०८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः च सोमयशाः । जृम्भकदेवानां मध्यात् कोऽपि देवश्च्युत्वा सोमयश:कुक्षाववतीर्णवान् । स एष नारदो जज्ञे । ते तापसाश्चैकाहमुपोष्यापरेऽह्नि वनमुपेत्य सदा शिलोञ्छवृत्त्या पारयन्ति । ते चैकदाऽशोकवृक्षे नारदं मुक्त्वोच्छाय ययुः । जृम्भकाश्च तं बालमतुल्यकान्ति दृष्ट्वाऽवधेर्नारदं प्राग्जन्ममित्रं ज्ञात्वा तदुपरि स्थितामशोकस्य च्छायामस्तम्भयन् । ततः स्वकार्यार्थं गताः कृतकार्यावलिताश्च स्नेहात् तं बालं वैताढ्यं निन्युः । तैर्दैवैः स्तम्भितच्छायत्वात् सोऽशोकतरुस्तत्प्रभृति च्छायावृक्ष इति ख्यातोऽभूत् । तथा स नारदो वैताढ्याद्रौ जृम्भकैः पालित: शिक्षितश्चाऽष्टवर्षः सन् प्रज्ञप्तिकाद्या विद्याः प्रसाध्य ताभिर्गगनगामी एतस्यामवसर्पिण्यां नवमश्चरमशरीरी । नारदमुनेरुत्पत्तिहि त्रिकालज्ञानिना सुप्रतिष्ठेन मुनिना मे कथितम् । अयं च नारदः प्रकृत्या कलहप्रियस्तिरस्कारात् कोपशील एकत्राऽस्थिरः सर्वत्र पूज्यश्च । अथाऽन्यदा कंसेनाऽऽहूतो वसुदेवः समुद्रविजयमनुज्ञाप्य मथुरां ययौ । तत्र चैकदा जीवयशसा सहित: कंसो वसुदेवं जगौ'विशालायां मृत्तिकावत्यां नगर्यां भूपतेर्देवकस्य मम पितृव्यस्य देवकी नाम कन्या देवकन्योपमाऽस्ति । मम प्रार्थनया च तत्र गत्वा तां परिणय' । ततो वसुदेवस्तत् प्रतिपद्य कंसेन सह चलितो मार्गे नारदं ददर्श । ताभ्यां च पूजितः प्रसन्नो नारदो मुनिरपृच्छत्-कुतो हेतोः कुत्र वा युवां प्रचलितौ' । ततो वसुदेव उवाच-'मित्रेण कंसेन प्रेरितो देवककन्यां देवकी परिणेतुं प्रस्थितोऽस्मि' । ततो नारद उवाच-'कंसेनेतच्चारु क्रियते । यथा त्वं पुंस्वप्रतिरूपस्तथा देवकी नारीष्वप्रतिरूपा । त्वं देवकी परिणीय अष्टमं पर्व - पञ्चमः सर्गः परिणीता अन्या नृपकन्यका असारा मंस्यसे । अस्मिन् कार्ये विघ्नो मा भूदिति देवक्यै भवद्गुणान् कथयिष्यामि' । एवमुक्त्वोत्पत्त्य नारदो देवकीगृहं ययौ । तया पूजितश्च स 'वसुदेवस्ते वरो भवत्वि'त्याशीर्वचनं जगौ । ततस्तया को वसुदेव इति पृष्टो नारद उवाच-'स दशमो दशा) विद्याधरीप्रियस्तरुणोऽस्ति, तस्य देवादयोऽपि रूपेण तुल्या न' । एवमुक्त्वा नारदस्तिरोदधे । नारदवचसा देवकीमनो वसुदेवे लग्नम् । कंस-वसुदेवौ च मृत्तिकापुर्यामाजग्मतुः । देवकेन च विवेकिना सत्कृत्य तावागमनकारणं पृष्टौ । ततः कंस उवाच-'वसुदेवायाऽनुरूपां देवकी परिणाययितुमागतोऽस्मि' । ____ ततो देवक उवाच-'कन्यार्थं वरस्य नाऽऽगमनव्यवहारः ततो वसुदेवाय देवकी न दास्यामि' । ततो विलक्षौ तौ निजशिबिरं जग्मतुः । देवको नृपश्चाऽन्तःपुरं जगाम । तत्र देवक्या नमस्कृतो देवकः प्रसन्नोऽनुरूपं वरं लभस्वेत्याशिषं ददौ । तथा देव्यै वसुदेवाय देवकी दापयितुमागतः कंसो मया न सत्कृत इत्युवाच । तच्छ्रुत्वा च देवी विषण्णा जाता, देवकी चोच्चै रुरोद । ततो देवकस्तयोर्भावं ज्ञात्वा'ऽलं विषादेन, युवां प्रष्टुमेवाऽहमत्राऽऽगामि'त्युवाच । ततो देव्या 'वसुदेवो देवक्या योग्यो वरः पुण्यादेव स्वयं वरणार्थमागत' इत्युक्तो देवकः स्वमन्त्रिणा कंसवसुदेवौ समानाय्य सत्कृतवान् । तथा देवकी-वसुदेवयोः शुभे दिने समहोत्सवं विवाहोऽभूत् । देवकश्च वसुदेवाय भूरिश: स्वर्णादिकं, गोकोटिसंयुतं दशगोकुलेशं नन्दं च ददौ । ततः कंसवसुदेवौ नन्दसहितौ मथुरामाजग्मतुः । कंसश्च मित्रविवाहमुपलक्ष्य महोत्सवं चकार ।

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159