Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 66
________________ पञ्चमः सर्गः इतश्च हस्तिनापुरे मातुरत्यन्तप्रियो ललितनामा श्रेष्ठपुत्रोऽभवत् । अन्यदा च श्रेष्ठिन्या अत्यन्तपीडाप्रदो गर्भोऽभूत् । विविधैर्भेषजैः पात्यमानोऽपि स गर्भो नाऽपतत् । जाते पुत्रे श्रेष्ठिन्या स पुत्रस्त्यक्तुं दास्यै समर्पितः । श्रेष्ठिना दृष्ट्वा च पृष्टासा दा ‘श्रेष्ठिन्याऽसावनिष्ट इति त्यक्त' इत्युक्तवती । ततः श्रेष्ठी तं बालं गृहीत्वा गुप्तमन्यत्र पालयामास । एकदा च वसन्तोत्सवे ललितः पितरमुवाच-‘अद्य गङ्गदत्तश्चेद् भोज्यते तदा शोभनं भवेत् । ततः श्रेष्ठ्युवाच - 'यदि ते माता तं पश्येत् तद् न साधु भवेत्' । ततो ललित उवाच - 'माता तं यथा न पश्येत् तथा यतिष्ये' । तदा श्रेष्ठिनाऽऽज्ञप्तो ललितो गङ्गदत्तं यवनिकान्तरितं भोजनार्थमुपवेशयामास । तौ च श्रेष्ठि-ललितौ पुरस्तात् स्वयमुपविष्टवन्तौ । श्रेष्ठिनी च भुञ्जानौ तौ गङ्गदत्ताय गुप्तं भोज्यं यच्छन्तौ पटे वातोद्धूते सति दृष्ट्वा तं केशेषु गृहीत्वा कुट्टयित्वा गृहप्रणाल्यामक्षिपत् । तत उद्विग्नौ श्रेष्ठि-ललितौ श्रेष्ठिनीतो गुप्तमेव तं स्त्रपयित्वा गङ्गदत्तं बोधयामासतुः । तदानीमेव च तत्र भिक्षार्थं समागताः साधवस्ताभ्यां श्रेष्ठिन्यास्तत्पुत्रेऽप्रीतिकारणं पपृच्छरे । तत एक: साधुरुवाच-'एकस्मिन् ग्रामे द्वौ भ्रातरावभूताम् । तौ च काष्ठार्थं बहिरीयतुः । तथा गन्त्रीं काष्ठैर्भृत्वाऽग्रस्थो ज्येष्ठो भ्राता अष्टमं पर्व पञ्चमः सर्गः १०७ पथि कञ्चुकितां महासर्पिणीं दृष्ट्वा कनीयांसं भ्रातरं गन्त्र्याः सारथिं कञ्चुकितेयं सर्पन्ती सर्पिणी गन्त्रीतो रक्षणीयेत्यवोचत् । सर्पिणी च तच्छ्रुत्वा हृष्टा विश्वस्ता जाता । किन्तु तत्राऽऽयातः कनिष्ठस्तां दृष्ट्वाऽवोचत् - 'यद्यपि ज्येष्ठभ्रात्रेयं रक्षिताऽस्ति तथाऽप्यहमस्या उपरि गन्त्रीमेतस्या अस्थिभङ्गस्वरं श्रोतुं नेष्ये' । स क्रूरस्तथा चक्रे च । सर्पिणी च कोऽप्येष मम वैरीति ध्यायन्ती विपन्ना । सा सर्पिणीयं तव पत्नी । ज्येष्ठो भ्राता च विपद्याऽस्या ललिताख्यः पुत्रः प्रियः । कनिष्ठश्चाऽयं पुत्रो गङ्गदत्तः पूर्वकर्मणाsस्या अनिष्टः । ततो विरक्ताः पिता-पुत्रौ च व्रतं जगृहतुः । श्रेष्ठि- ललितौ च क्रमाद् महाशुक्रं जग्मतुः । गङ्गदत्तश्च मातुरप्रीति स्मरन् विश्वप्रियत्वनिदानं कृत्वा महाशुक्रं ययौ । ततश्च च्युत्वा ललितजीवो वसुदेवस्य भार्याया रोहिण्या उदरेऽवततार । तथा रोहिणी सुखसुप्ता निशाशेषे बलभद्रजन्मसूचकान् मुखे प्रविशतो गज-समुद्र - सिंह- चन्द्रान् स्वप्ने ददर्श । पूर्णे समये च सा चन्द्रतुल्यकान्ति पुत्रं प्रासूत । मागधादयश्च नृपास्तस्य जन्मोत्सवं चक्रुः । वसुदेवश्च तस्य राम इति मनोहरं नाम चकार । रामश्च सर्वेषां मनो रमयन् क्रमाद् ववृधे । गुरुसमीपे च स विशुद्धप्रतिभया सर्वाः कला जग्राह । अथाऽन्यदा स्वच्छन्दगतिर्नारदो मुनिर्वसुदेव-कंसादिभिः परिवारितं समुद्रविजयमुपाजगाम । समुद्रविजयो वसुदेवः कंसाद्याश्चोद्यन्तं सूर्यमिवोत्थाय तमानर्चुः । तेषां पूजाप्रसन्नो नारदः क्षणं स्थित्वाऽन्यतो गन्तुमुत्पपात । ततः कंसेन कोऽसाविति पृष्टो नृप उवाच- 'अस्मात् पुराद् बहिर्यज्ञयशा नाम तापसोऽभूत् । तस्य च यज्ञदत्ताख्या भार्या सुमित्राख्यश्च पुत्रो बभूवतुः । सुमित्रस्य पत्नी

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159